शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

ऋषय ऊचुः ।।
सूत जानासि सकलं वस्तु व्यासप्रसादतः ।।
तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ।।१।।
लिंगं च पूज्यते लोके तत्त्वया कथितं च यत्।।
तत्तथैव न चान्यद्वा कारणं विद्यते त्विह।।२।।
बाणरूपा श्रुता लोके पार्वती शिववल्लभा।।
एतत्किं कारणं सूत कथय त्वं यथाश्रुतम्।।३।।
सूत उवाच ।।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ।।
तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ।।४।।
पुरा दारुवने जातं यद्वृत्तं तु द्विजन्मनाम्।।
तदेव श्रूयतां सम्यक् कथयामि कथाश्रुतम् ।। ५ ।।
दारुनामवनं श्रेष्ठं तत्रासन्नृषिसत्तमाः।।
शिवभक्तास्सदा नित्यं शिवध्यानपरायणाः ।।६।।
त्रिकालं शिवपूजां च कुर्वंति स्म निरन्तरम् ।।
नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ।।७।।
ते कदाचिद्वने यातास्समिधाहरणाय च ।।
सर्वे द्विजर्षभाश्शैवाश्शिवध्यानपरायणाः ।। ८ ।।
एतस्मिन्नंतरे साक्षाच्छंकरो नील लोहितः ।।
विरूपं च समास्थाय परीक्षार्थं समागतः ।। ९ ।।
दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः।।
स चेष्टामकरोद्दुष्टां हस्ते लिंगं विधारयन् ।। 4.12.१० ।।
मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ।।
जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ।। ११ ।।
तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ।।
विह्वला विस्मिताश्चान्यास्समाजग्मुस्तथा पुनः ।।१२।।
अलिलिंगुस्तथा चान्याः करं धृत्या तथापराः ।।
परस्परं तु संघर्षात्संमग्नास्ताः स्त्रियस्तदा ।। १३ ।।
एतस्मिन्नेव समये ऋषिवर्याः समागमन्।।
विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः ।।१४।।
तदा दुःखमनुप्राप्ताः कोयं कोयं तथाऽबुवन् ।।
समस्ता ऋषयस्ते वै शिवमायाविमोहिताः ।। १५ ।।
यदा च नोक्तवान्किंचित्सोवधूतो दिगम्बरः ।।
ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः ।।१६।।
त्वया विरुद्धं क्रियते वेदमार्ग विलोपि यत् ।।
ततस्त्वदीयं तल्लिंगं पततां पृथिवीतले ।।१७।।
सूत उवाच ।।
इत्युक्ते तु तदा तैश्च लिंगं च पतितं क्षणात् ।।
अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः।।१८।।
तल्लिंगं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ।।
यत्रयत्र च तद्याति तत्रतत्र दहेत्पुनः ।।१९।।
पाताले च गतं तश्च स्वर्गे चापि तथैव च ।।
भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत् ।।4.12.२०।।
लोकाश्च व्याकुला जाता ऋषयस्तेतिदुःखिताः ।।
न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा ।।२१।।
न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः।।
दुःखिता मिलिताश्शीघ्रं ब्रह्माणं शरणं ययुः ।। २२ ।।
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ।।
तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ।। २३ ।।
ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ।।
ज्ञात्वा ताञ्च्छंकरं नत्वा प्रोवाच ऋषिसत्तमान् ।। २४ ।।
।। ब्रह्मोवाच ।।
ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ।।
अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः ।। २५ ।।
विरुद्ध्यैवं शिवं देवं कुशलं कस्समीहते ।।
मध्याह्नसमये यो वै नातिथिं च परामृशेत् ।।२६।।
तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः।।
संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा ।। २७ ।।
यावल्लिंगं स्थिरं नैव जगतां त्रितये शुभम् ।।
जायते न तदा क्वापि सत्यमेतद्वदाम्यहम् ।। २८ ।।
भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ।।
शिवलिंगस्य ऋषयो मनसा संविचार्य्यताम् ।। २९ ।।
सूत उवाच ।।
इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ।।
किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश ।। 4.12.३० ।।
इत्युक्तश्च मुनीशैस्तैस्सर्वलोकपितामहः ।।
मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा ।। ३१ ।।
ब्रह्मोवाच ।।
आराध्य गिरिजां देवीं प्रार्थयन्तु सुराश्शिवम् ।।
योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत् ।। ३२ ।।
तद्विधिम्प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ।।
तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ।। ३३ ।।
कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ।।
दूर्वायवांकुरैस्तीर्थोदकमापूरयेत्ततः ।।३४।।
वेदमंत्रैस्ततस्तं वै कुंभं चैवाभिमंत्रयेत् ।।
श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन् ।। ३५ ।।
तल्लिंगं तज्जलेनाभिषेचयेत्परमर्षयः ।।
शतरुद्रियमंत्रैस्तु प्रोक्षितं शांतिमाप्नुयात् ।।३६।।
गिरिजां योनिरूपां च बाणं स्थाप्य शुभं पुनः ।।
तत्र लिंगं च तत्स्थाप्यं पुनश्चैवाभिमंत्रयेत् ।। ३७ ।।
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ।।
नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम् ।। ३८ ।।
प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ।।
ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा ।। ३९ ।।
प्रसन्नो भव देवेश जगदाह्लादकारक ।।
कर्ता पालयिता त्वञ्च संहर्ता त्वं निरक्षरः ।। 4.12.४० ।।
जगदादिर्जगद्योनिर्जगदन्तर्गतोपि च ।।
शान्तो भव महेशान सर्वांल्लोकांश्च पालय ।। ४१ ।।
एवं कृते विधौ स्वास्थ्यं भविष्यति न संशय ।।
विकारो न त्रिलोकेस्मिन्भविष्यति सुखं सदा ।। ४२ ।।
सूत उवाच ।।
इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ।।
शिवं तं शरणं प्राप्तस्सर्वलोकसुखेप्सया ।।४३।।
पूजितः परया भक्त्या प्रार्थितः शंकरस्तदा ।।
सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः ।।४४।।
महेश्वर उवाच ।।
हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ।।
योनिरूपेण मल्लिंगं धृतं चेत्स्यात्तदा सुखम् ।। ४५ ।।
पार्वतीं च विना नान्या लिंगं धारयितुं क्षमा।।
तया धृतं च मल्लिंगं द्रुतं शान्तिं गमिष्यति ।। ४६ ।।
सूत उवाच।।
तच्छ्रुत्वा ऋषिभिर्देवैस्सुप्रसन्नैर्मुनीश्वराः ।।
गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा ।। ४७ ।।
प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ।।
पूर्वोक्तं च विधिं कृत्वा स्थापितं लिंगमुत्तमम् ।। ४८ ।।
मंत्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ।।
चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे ।।४९।।
समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ।।
ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम् ।। 4.12.५० ।।
सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका।।
धृतं तया च तल्लिंगं तेन रूपेण वै तदा ।। ५१ ।।
लोकानां स्थापिते लिंगे कल्याणं चाभवत्तदा ।।
प्रसिद्धं चैव तल्लिंगं त्रिलोक्यामभवद्द्विजाः ।।५२।।
हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि।।
पूजनात्तस्य लोकानां सुखं भवति सर्वथा ।। ५३ ।।
इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ।।
परत्र परमा मुक्तिर्नात्र कार्या विचारणा ।। ५४ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिंगस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ।।१२।।