शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०६
← अध्यायः ०५ | शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता) अध्यायः ०६ वेदव्यासः |
अध्यायः ०७ → |
सूत उवाच ।।
गौश्चैकाप्यभवत्तत्र ह्यंगणे बंधिता शुभा ।।
तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ।। १ ।।
स उवाच प्रियां स्वीयां दृष्ट्वा गामंगणे स्थिताम् ।।
अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ।। २ ।।
गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ।।
दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ।।३।।
वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा।।
ब्राह्मणस्स गृहस्वामी मुनयो दुग्धलालसः ।। ४ ।।
वत्सोपि कर्षमाणश्च पादे वै पादपीडनम् ।।
चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ।। ५ ।।
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।।
वत्सं च ताडयामास कूपैर्दृढतरं तदा ।।६।।
वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ।।
दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ।। ७ ।।
गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ।।
दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ।। ८ ।।
वत्स उवाच ।।
कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम्।।
तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत।।९।।
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि।।
दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत् ।। 4.6.१० ।।
सूत उवाच ।।
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ।।
प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः।।११।।
किं कर्त्तव्यं क्व गंतव्यं कर्मबद्धा वयं यतः।।
कृतं चैव यथापूर्वं भुज्यते च तथाधुना।।१२।।
हसता क्रियते कर्म रुदता परिभुज्यते।।
दुःखदाता न कोप्यस्ति सुखदाता न कश्चन ।।१३।।
सुखदुःखे परो दत्त इत्येषा कुमतिर्मता।।
अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते।।१४।।
स्वकर्मणा भवेद्दुखं सुखं तेनैव कर्मणा।।
तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम।।१५।।
त्वं चैवाहं च जननी इमे जीवादयश्च ये ।।
ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ।। १६ ।।
सूत उवाच ।।
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ।।
पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ।। १७।।
गौरुवाच ।।
वत्स सर्वं विजानामि कर्माधीनाः प्रजा इति ।।
तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ।। १८ ।।
रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्नहि ।।
इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ।।१९।।
।। वत्स उवाच ।।
यद्येवं च विजानामि पुनश्च रुदनं कुतः ।।
कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ।।4.6.२०।।
।। सूत उवाच ।।
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ।।
निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ।।२१।।
गौरुवाच ।।
मम दुःखं तदा गच्छेद्यथा दुखं तथाविधम् ।।
भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ।। २२ ।।
प्रातश्चैव मया पुत्र शृंगाभ्यां हि हनिष्यते ।।
हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ।।२३।।
वत्स उवाच।।
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ।।
अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ।। २४ ।।
समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ।।
तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ।।२५।।
कदापि कर्मणो नाशः कदा भोगः प्रजायते।।
तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता ।।२६।।
अहं कुतस्ते पुत्रोद्य त्वं माता कुत एव च।।
वृथाभिमानः पुत्रत्वे मातृत्वे च विचार्य्यताम्।।२७।।
क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ।।
न कोऽपि कस्य चास्तीह सर्वेपि स्वकृतं भुजः ।।२८।।
एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ।।
सुभगाचरणं कार्यं परलोकसुखेप्सया।।२९।।
गौरुवाच।।
एवं जानाम्यहं पुत्र माया मां न जहात्यसौ।।
त्वद्दुःखेन सुदुःखं मे तस्मै दास्ये तदेव हि ।।4.6.३०।।
पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह।।
तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति।।३१।।
सूत उवाच।।
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः।।
मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन।।३२।।
तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ।।
हृदा विचारयामास विस्मितो हि मुनीश्वराः ।।३३।।
इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ।।
गंतव्यं पुनरेवातो गंतव्यं तत्स्थलं पुनः ।। ३४ ।।
।। सूत उवाच ।।
विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ।।
सुष्वाप तत्र जननीभक्तः परमविस्मितः ।। ३५ ।।
प्रातःकाले तदा जाते गृहस्वामी समुत्थितः।।
बोधयामास तं पान्थं वचनं चेदमब्रवीत् ।।३६।।
द्विज उवाच ।।
स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम्।।
स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह ।। ३७ ।।
तेनोक्तं श्रूयताम्ब्रह्मञ्च्छरीरे सेवकस्य मे।।
वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः ।। ३८ ।।
सूत उवाच ।।
इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ।।
तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम् ।। ३९ ।।
दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति।।
उवाच गंतुकामश्च कार्यार्थं कुत्रचिच्च सः।।4.6.४०।।
पितोवाच।।
मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ।।
धेनुर्दोह्या त्वया वत्स सावधानादियं निजा ।।४१।।
सूत उवाच ।।
इत्युक्त्वा ब्राह्मणवरस्स जगाम च कुत्रचित् ।।
पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा ।।४२।।
माता च तस्य दोहार्थमाजगाम स्वयन्तदा ।।
द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम् ।।४३।।
बंधनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ।।
पुनर्गौश्च तदा क्रुद्धा शृंगेनाताडयच्च तम् ।। ४४ ।।
पपात मूर्च्छां संप्राप्य सोपि मर्मणि ताडितः ।।
लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः।।४५।।
जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ।।
यत्नश्च क्रियते यावत्तावद्बालो मृतस्तदा ।। ४६ ।।
मृते च बालके तत्र हाहाकारो महानभूत् ।।
तन्माता दुःखिता ह्यासीद्रुरोद च पुनः पुनः ।। ४७ ।।
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।।
रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत् ।।४८।।
श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ।।
अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम् ।।४९।।
ब्राह्मणश्च तदा पान्र्थौ दृष्ट्वाश्चर्यं विनिर्गतः ।।
यत्र गौश्च गतस्तत्र तामनु ब्राह्मणो गतः ।।4.6.५०।।
ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ।।
आगत्य नन्दिकस्यास्य समीपे नर्मदाजले ।। ५१ ।।
संनिमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ।।
यथागतं गता सा च ब्राह्मणो विस्मयं गतः ।। ५२ ।।
अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ।।
स्वयं ममज्ज तत्रासौ ब्राह्मणस्सेवकस्तथा ।। ५३ ।।
निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ।।
मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता ।। ५४ ।।
तयोक्तं तं च भोः पांथ कुतो यासि सुविस्मितः ।।
सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः ।।५५।।
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ।।
पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया ।। ५६ ।।
तयोक्तं च समाकर्ण्य स्थितस्य ब्राह्मणस्ततः।।
प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च ।।५७।।
सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ।।
तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः ।।५८।।
तव माता पान्थवर्य्य साक्षाद्दिव्यमयं वरम् ।।
देहं धृत्वा द्रुतं साक्षाच्छंभोर्यास्यति सद्गतिम् ।।५९ ।।
वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ।।
सितेपक्षे सदा गंगा ह्यायाति द्विजसत्तम ।।4.6.६०।।
अद्यैव सप्तमी या सा गंगारूपास्ति तत्र वै।।
इत्युक्त्वान्तर्दधे देवी सा गंगा मुनिसत्तमाः ।। ६१ ।।
निवृत्तश्च द्विजः सोपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ।।
क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा ।।६२।।
दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ।।
धन्योसि कृतकृत्योसि पवित्रं च कुलं त्वया ।। ६३ ।।
धनं धान्यं तथा चायुर्वंशो वै वर्द्धतां तव ।।
इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता ।। ६४ ।।
तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ।।
शंकरस्य प्रसादेन गता सा ह्युत्तमां गतिम् ।। ६५ ।।
ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ।।
प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः ।। ६६ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।