शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

ऋषय ऊचुः ।।
कथं गंगा समायाता वैशाखे सप्तमीदिने ।।
नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो।।१।।
ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ।।
वृत्तं तदपि सुप्रीत्या कथय त्वं महामते ।। २।।
सूत उवाच ।।
साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ।।
तदहं कथयाम्यद्य श्रवणात्पुण्यवर्द्धनम् ।। ३ ।।
ब्राह्मणी ऋषिका नाम्ना कस्यचिच्च द्विजन्मनः ।।
सुता विवाहिता कस्मैचिद्द्विजाय विधानतः ।। ४ ।।
पूर्वकर्मप्रभावेन पत्नी सा हि द्विजन्मनः ।।
सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता ।। ५ ।।
अथ सा द्विजपत्नी हि ब्रह्मचर्य्यव्रतान्विता ।।
पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम् ।। ६ ।।
तस्मिन्नवसरे दुष्टो मूढनामाऽसुरो बली ।।
ययौ तत्र महामायी कामबाणेन ताडितः ।।७।।
तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ।।
तया भोगं ययाचे स नानालोभं प्रदर्शयन् ।। ८ ।।
अथ सा सुव्रता नारी शिवध्यानपरायणा ।।
तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः ।। ९ ।।
न मानितवती तं च ब्राह्मणी सा तपोरता ।।
अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता ।। 4.7.१० ।।
अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ।।
चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत् ।।११।।
अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ।।
त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः ।। १२ ।।
तदा सा भयसंत्रस्ता बहुवारं शिवेति च ।।
बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया ।। १३ ।।
विह्वलातीव सा नारी शिवनामप्रभाषिणी ।।
जगाम शरणं शम्भोः स्वधर्मावनहेतवे ।। १४ ।।
शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ।।
आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह ।। १५ ।।
अथ तं मूढनामानं दैत्येन्द्रं काम विह्वलम् ।।
चकार भस्मसात्सद्यः शंकरो भक्तवत्सलः ।।१६।।
ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ।।
वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः ।। १७ ।।
श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ।।
ददर्श शांकरं रूपमानन्दजनकं शुभम् ।। १८ ।।
ततः प्रणम्य तं शंभुं परमेशसुखावहम् ।।
तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया ।। १९ ।।
ऋषिकोवाच ।।
देवदेव महादेव शरणागतवत्सल ।।
दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा ।।4.7.२०।।
त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ।।
यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया ।। २१ ।।
स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ।।
अयमेव वरो नाथ किमन्यदधिकं ह्यतः ।। २२ ।।
अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ।।
लोकानामुपकारार्थमिह त्वं संस्थितो भव ।। २३ ।।
सूत उवाच ।।
इति स्तुत्वा महादेवमृषिका सा शुभव्रता ।।
तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः ।। २४ ।।
गिरिश उवाच ।।
ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ।।
दत्ता वराश्च ते सर्वे तुभ्यं येये हि याचिताः ।। २५ ।।
एतस्मिन्नंतरे तत्र हरिब्रह्मादयः सुराः ।।
शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः ।।२६।।
शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ।।
तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः ।। २७ ।।
एतस्मिन्समये गंगा साध्वी तां स्वर्धुनी जगौ।।
ऋषिकां सुप्रसन्नात्मा प्रशंसन्तो च तीद्विधिम् ।।२८।।
गंगोवाच।।
ममार्थे चैव वैशाखे मासि देयं त्वया वचः ।।
स्थित्यर्थं दिनमेकं मे सामीप्यं कार्य्यमेव हि।।२९।।
सूत उवाच।।
गंगावचनमाकर्ण्य सा साध्वी प्राह सुव्रता।।
तथास्त्विति वचः प्रीत्या लोकानां हितहेतवे ।। 4.7.३० ।।
आनन्दार्थं शिवस्तस्याः सुप्रसन्नश्च पार्थिवे ।।
तस्मिँल्लिंगे लयं यातः पूर्णांशेन तया हरः ।।३१।।
देवः सर्वे सुप्रसन्नाः प्रशंसंति शिवं च ताम्।।
स्वंस्वं धाम ययुर्विष्णुब्रह्माद्या अपि स्वर्णदी ।। ३२ ।।
तद्दिनात्पावनं तीर्थमासीदीदृशमुत्तमम्।।
नन्दिकेशः शिवः ख्यातः सर्वपापविनाशनः ।।३३।।
गंगापि प्रतिवर्षं तद्दिने याति शुभेच्छया।
क्षालनार्थं स्वपापस्य यद्ग्रहीतं नृणां द्विजाः ।। ३४ ।।
तत्र स्नातो नरः सम्यङ् नंदिकेशं समर्च्य च ।।
ब्रह्महत्यादिभिः पापैर्मुच्यते ह्यखिलैरपि ।।३५।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः।।७।।