सामग्री पर जाएँ

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

सूत उवाच ।।
कालंजरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ।।
लिंगरूपस्सदा चैव भक्तानन्दप्रदः सदा ।। १ ।।
महिमा तस्य दिव्योस्ति श्रुतिस्मृतिप्रकीतितः ।।
तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ।। २ ।।
रेवातीरे यानि सन्ति शिवलिंगानि सुव्रताः ।।
सर्वसौख्यकराणीह तेषां संख्या न विद्यते ।।३।।
सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ।।
तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ।। ४ ।।
तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ।।
प्रधानशिवलिंगानि भुक्तिमुक्तिप्रदानि च ।।५।।
आर्तेश्वरसुनामा हि वर्तते पापहारकः ।।
परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ।।६।।
शर्मेशश्च तथा चात्र कुमारेश्वर एव च ।।
पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ।।७।।
तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ।।
धुंधुरेश्वरनामासीत्पापहा नर्मदातटे।।८।।
शूलेश्वर इति ख्यातस्तथा कुंभेश्वरः स्मृतः ।।
कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ।। ९ ।।
नीलकण्ठो मंगलेशो मंगलायतनो महान् ।।
महाकपीश्वरो देवः स्थापितो हि हनूमता।।4.5.१०।।
ततश्च नंदिको देवो हत्याकोटिनिवारकः ।।
सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तित.।।११।।
नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ।।
नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ।।१२।।
तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ।।
तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ।।१३।।
ऋषय ऊचुः।।
एवं तस्य च माहात्म्यं कथं तत्र महामते ।।
नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना।।१४।।
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च कथयामि यथाश्रुतम्।।
शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात् ।।१५।।
पुरा युधिष्ठिरेणैव पृष्टश्च ऋषिसत्तमः ।।
यथोवाच तथा वच्मि भवत्स्नेहानुसारतः।।१६।।
रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ।।
विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ।। १७ ।।
तत्र द्विजवरः कश्चिदुत्तस्य? कुलसम्भवः ।।
काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम्।।१८।।
तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतन्तदा।।
तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ।। १९ ।।
पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ।।
पुत्रौ च वर्जयित्वा च विभक्तं वै धनं तया ।। 4.5.२० ।।
स्वीयं च रक्षितं किंचिद्धनं मरणहेतवे ।।
ततश्च द्विजपत्नी हि कियत्कालं मृता च सा ।। २१ ।।
कदाचित्क्रियमाणा सा विविधं पुण्यमाचरत् ।।
न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ।। २२ ।।
यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ।।
तद्दृष्ट्वा जननीकष्टं पुत्रकावूचतुस्तदा ।। २३ ।।
पुत्रावूचतुः ।।
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ।।
व्रियतां तदृतं प्रीत्या तदावां करवावहे ।। २४ ।।
सूत उवाच ।।
तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ।।
तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ।। २५ ।।
ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतान्त्वया ।।
करिष्यामि तदेतद्धि तया च कथितन्तदा ।। २६ ।।
द्विजपत्न्युवाच ।।
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनः स्पृहा ।।
काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः ।।२७।।
ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ।।
गंगाजले शुभं तेद्य भविष्यति न संशयः ।। २८ ।।
।। सूत उवाच ।।
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोब्रवीत् ।।
मातरं मातृभक्तिस्तु सुव्रतां मरणोन्मुखीम् ।। २९ ।।
।। पुत्र उवाच ।।
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ।।
तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम् ।।4.5.३०।।
इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ।।
तावत्सा च मृता तत्र हरस्मरणतत्परा ।। ३१ ।।
तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ।।
मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ।। ३२ ।।
द्वयोः श्रेष्ठतमो यो वै सुवादो नाम विश्रुतः ।।
तदस्थीनि समादाय निस्सृतस्तीर्थकाम्यया।।३३।।
संगृह्य सेवकं कंचित्तेनैव सहितस्तदा ।।
आश्वास्य भार्य्यापुत्राँश्च मातुः प्रियचिकीर्षया ।। ३४ ।।
श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ।।
मंगलस्मरणं कृत्वा निर्जगाम गृहाद्द्विजः।। ३५ ।।
तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ।।
उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित् ।। ३६ ।।
चक्रे सन्ध्यादिसत्कर्म स द्विजो विधिपूर्वकम् ।।
स्तवादि कृतवांस्तत्र शंभोरद्भुतकर्मणः ।।३७।।
सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ।।
यामिनी च गता तत्र मुहूर्तद्वयसंमिता ।। ३८ ।।
एतस्मिन्नंतरे तत्रैकमाश्चर्य्यमभूत्तदा ।।
शृणुतादरतस्तच्च मुनयो वो वदाम्यहम् ।। ३९ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पंचमोऽध्यायः ।। ५ ।।