शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

।। सूत उवाच ।।
कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ।।
जागृतश्च जलं देहि प्रत्युवाच प्रियामिति ।। १ ।।
सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ।।
जगाम विपिने तत्र जलं मे नीयते कुतः ।।२।।
किं करोमि क्व गच्छामि कुतो नीयेत वै जलम्।।
इति विस्मयमापन्ना तां गंगां हि ददर्श सा।। ३ ।।
तामनुव्रजती यावत् साब्रवीच्च सदा हि ताम् ।।
गंगा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम्।।४।।
गंगोवाच ।।
प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना।।
धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम् ।।५।।
सूत उवाच।।
तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी।।
प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः ।। ६ ।।
अनसूयोवाच ।।
का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ।।
तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती।।७।।
सूत उवाच।।
इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः।।
सरिद्वरा दिव्यरूपा गंगा वाक्यमथाब्रवीत्।।८।।
गंगोवाच।।
स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ।।
साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ ।।९।।
अहं गंगा समायाता भजनात्ते शुचिस्मिते।।
वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत् ।।4.4.१०।।
सूत उवाच।।
इत्युक्ते गंगया साध्वी नमस्कृत्य पुरः स्थिता ।।
उवाचेति जलं देहि चेत्प्रसन्ना ममाऽधुना ।।११।।
इत्येतद्वचनं श्रुत्वा गर्तं कुर्ष्विति साऽब्रवीत् ।
शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः ।।१२।।
तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ।।
आश्चर्य्यं परमं गत्वा गृहीतं च जलं तया ।। १३ ।।
उवाच वचनं चैतल्लोकानां सुखहेतवे ।।
अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम् ।। १४ ।।
अनसूयोवाच ।।
यदि त्वं सुप्रसन्ना मे वर्तसे च कृपामयि ।।
स्थातव्यं च त्वया तावन्मत्स्वामी यावदा व्रजेत् ।।१५।।
सूत उवाच ।।
इति श्रुत्वानसूयाया वचनं सुखदं सताम्।।
गंगोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे ।।१६।।
इत्युक्ते च तया तत्र ह्यनपायि कृतन्तथा ।।
स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता ।। १७ ।।
स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ।।
पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह ।। १८ ।।
अहो नित्यं जलं यच्च पीयते तज्जलं न हि ।।
विचार्येति च तेनाशु परितश्चावलोकितम् ।।१९।।
शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा।।
उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः ।।4.4.२०।।
तदुक्तं तत्समाकर्ण्य नेतिनेति प्रियान्तदा ।।
तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया ।। २१ ।।
इत्युक्ते तु तदा तेन विस्मयं परमं गता ।।
अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः ।। २२ ।।
निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ।।
निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम ।।२३।।
नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ।।
इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः ।। २४ ।।
अथानुग्रहतः शंभोः प्राप्तबुद्धिः पतिव्रता ।।
उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते ।।२५।।
अनसूयोवाच ।।
शंकरस्य प्रतापाच्च तवैव सुकृतैस्तथा ।।
गंगा समागतात्रैव तदीयं सलिलन्त्विदम् ।। २६ ।।
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ।।
प्रियामुवाच सुप्रीत्या शंकरं मनसा स्मरन्।। २७ ।।
अत्रिरुवाच ।।
प्रिये सुन्दरि त्वं सत्यमथ वाचं व्यलीककाम् ।।
ब्रवीषि च यथार्थं त्वं न मन्ये दुर्लभन्त्विदम् ।। २८ ।।
असाध्यं योगिभिर्यच्च देवैरपि सदा शुभे ।।
तच्चैवाद्य कथं जातं विस्मयः परमो मम ।। २९ ।।
यद्येवं दृश्यते चेद्वै तन्मयेहं न चान्यथा ।।
इति तद्वचनं श्रुत्वा प्रत्युवाच पतिप्रिया ।। 4.4.३० ।।
अनसूयोवाच ।।
आगम्यतां मया सार्द्धं त्वया नाथ महामुने ।।
सरिद्वराया गंगाया द्रष्टुमिच्छा भवेद्यदि ।। ३१ ।।
सूत उवाच ।।
इत्युक्त्वा तु समादाय पतिं तं सा पतिव्रता ।।
गता द्रुतं शिवं स्मृत्वा यत्र गंगा सरिद्वरा।।३२।।
दर्शयामास तां तत्र गंगां पत्ये पतिव्रता ।।
गर्ते च संस्थितां तत्र स्वयं दिव्यस्वरूपिणीम् ।।३३।।
तत्र गत्वा ऋषिश्रेष्ठो गर्तं च जलपूरितम् ।।
आकण्ठं सुन्दरं दृष्ट्वा धन्येयमिति चाब्रवीत् ।। ३४।।
किं मदीयं तपश्चैव किमन्येषां पुनस्तदा ।।
इत्युक्तो मुनिशार्दूलो भक्त्या तुष्टाव तां तदा ।।३५।।
ततो हि स मुनिस्तत्र सुस्नातः सुभगे जले ।।
आचम्य पुनरेवात्र स्तुतिं चक्रे पुनः पुनः ।। ३६ ।।
अनसूयापि संस्नाता सुन्दरे तज्जले तदा ।।
नित्यं चक्रे मुनिः कर्म सानसूयापि सुव्रता ।।३७।।
ततस्सोवाच तां गंगा गम्यते स्वस्थलं मया ।।
इत्युक्ते च पुनः साध्वी तामुवाच सरिद्वराम् ।।३८।।
अनसूयोवाच ।।
यदि प्रसन्ना देवेशि यद्यस्ति च कृपा मयि ।।
त्वया स्थेयं निश्चलत्वादस्मिन्देवि तपोवने ।। ३९ ।।
महतां च स्वभावश्च नांगीकृत्य परित्यजेत्।।
इत्युक्ता च करौ बद्ध्वा तां तुष्टाव पुनःपुनः।।4.4.४०।।
ऋषिश्चापि तथोवाच त्वया स्थेयं सरिद्वरे ।।
सानुकूला भव त्वं हि सनाथान्देवि नः कुरु ।। ४१ ।।
तदीयं तद्वचः श्रुत्वा रम्यं गंगा सरिद्वरा ।।
प्रसन्नमानसा गंगाऽनसूयां वाक्यमब्रवीत् ।। ४२ ।।
गंगोवाच ।।
शंकरार्चनसंभूतफलं वर्षस्य यच्छसि ।।
स्वामिनश्च तदा स्थास्ये देवानामुपकारणात। ।।४३।।
तथा दानैर्न मे तुष्टिस्तीर्थस्नानैस्तथा च वै ।।
यज्ञैस्तथाथ वा योगैर्यथा पातिव्रतेन च ।। ४४ ।।
पतिव्रतां यथा दृष्ट्वा मनसः प्रीणनं भवेत् ।।
तथा नान्यैरुपायैश्च सत्यं मे व्याहृतं सति ।।४५।।
पतिव्रतां स्त्रियं दृष्ट्वा पापनाशो भवेन्मम ।।
शुद्धा जाता विशेषेण गौरीतुल्या पतिव्रता ।। ४६ ।।
तस्माच्च यदि लोकस्य हिताय तत्प्रयच्छसि ।।
तर्ह्यहं स्थिरतां यास्ये यदि कल्याणमिच्छसि । ४७ ।।
सूत उवाच ।।
इत्येवं वचनं श्रुत्वाऽनसूया सा पतिव्रता ।।
गंगायै प्रददौ पुण्यं सर्वं तद्वर्षसंभवम् ।। ४८ ।।
महतां च स्वभावो हि परेषां हितमावहेत् ।।
सुवर्णं चन्दनं चेक्षुरसस्तत्र निदर्शनम् ।। ४९ ।।
एतद्दृष्ट्वानसूयं तत्कर्म पातिव्रतं महत् ।।
प्रसन्नोभून्महादेवः पार्थिवादाविराशु वै ।। 4.4.५० ।।
शंभुरुवाच ।।
दृष्ट्वा ते कर्म साध्व्येतत् प्रसन्नोऽस्मि पतिव्रते ।।
वरं ब्रूहि प्रिये मत्तो यतः प्रियतरासि मे।। ५१ ।।
अथ तौ दम्पती शंभुमभूतां सुन्दराकृतिम् ।।
पञ्चवक्त्रादिसंयुक्तं हरं प्रेक्ष्य सुविस्मितौ ।। ५२ ।।
नत्वा स्तुत्वा करौ बद्ध्वा महाभक्तिसमन्वितौ ।।
अवोचेतां समभ्यर्च्य शंकरं लोकशंकरम् ।। ५३ ।।
दम्पती ऊचतुः ।।
यदि प्रसन्नो देवेश प्रसन्ना जगदम्बिका ।।
अस्मिंस्तपोवने तिष्ठ लोकानां सुखदो भव ।। ५४ ।।
प्रसन्ना च तदा गंगा प्रसन्नश्च शिवस्तदा ।।
उभौ तौ च स्थितौ तत्र यत्रासीदृषिसत्तमः ।। ५५ ।।
अत्रीश्वरश्च नाम्नासीदीश्वरः परदुःखहा ।।
गंगा सापि स्थिता तत्र तदा गर्तेथ मायया ।। ५६ ।।
तद्दिनं हि समारभ्य तत्राक्षय्यजलं सदा ।।
हस्तमात्रे हि तद्गर्ते गंगा मन्दाकिनी ह्यभूत् ।। ५७ ।।
तत्रैव ऋषयो दिव्याः समाजग्मुस्सहांगनाः ।।
तीर्थात्तीर्थाच्च ते सर्वे ते पुरा निर्गता द्विजाः ।। ५८ ।।
यवाश्च व्रीहयश्चैव यज्ञयागपरायणाः ।।
युक्ता ऋषिवरैस्तैश्च होमं चक्रुश्च ते जनाः ।। ५९ ।।
कर्मभिस्तैश्च संतुष्टा वृष्टिं चक्रुर्घनास्तदा ।।
आनन्दः परमो लोके बभूवातिमुनीश्वराः।। 4.4.६० ।।
अत्रीश्वरस्य माहात्म्यमित्युक्तं वः सुखावहम् ।।
भुक्तिमुक्तिप्रदं सर्वकामदं भक्ति वर्द्धनम् ।। ६१ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं नाम चतुर्थोऽध्यायः ।। ४ ।।