शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

सूत उवाच ।।
ब्रह्मपुर्यां चित्रकूटं लिंगं मत्तगजेन्द्रकम् ।।
ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम् ।। १ ।।
तत्पूर्वदिशि कोटीशं लिंगं सर्ववरप्रदम् ।।
गोदावर्य्याः पश्चिमे तल्लिंगं पशुपतिनामकम् ।। २ ।।
दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ।।
लोकानामुपकारार्थमनसूयासुखाय च ।। ३ ।।
प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ।।
स एव शंकरः साक्षादंशेन स्वयमेव हि ।। ४ ।।
ऋषय ऊचुः ।।
सूतसूत महाभाग कथमत्रीश्वरो हरः ।।
उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत ।। ५ ।।
सूत उवाच।।
साधु पृष्ठमृषिश्रेष्ठाः कथयामि कथां शुभाम् ।।
यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम् ।।६।।
दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ।।
चित्रकूटसमीपेस्ति तपसां हितदं सताम् ।।७।।
तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ।।
तपस्तेपेऽति कठिनमनसूयासमन्वितः ।। ८ ।।
पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ।।
दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ।। ९।
वृक्षाश्शुष्कास्तदा सर्वे पल्लवानि फलानि च ।।
नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः।। 4.3.१०।।
आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ।।
हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि ।। ११।।
संवर्तं चैव भूतानां दृष्ट्वात्रि गृहिणी प्रिया ।।
साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते।।१२।।
समाधौ च विलीनोभूदासने संस्थितः स्वयम् ।।
प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ।।१३।।
ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ।।
अत्रिर्मुनिवरो ज्ञानी शंकरं निर्विकारकम् ।। १४ ।।
स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ।।
अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम्।।१५।।
एकाकिनी तदा जाता सानसूया पतिव्रता ।। १६ ।।
सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ।।
पार्थिवं सुन्दरं कृत्वा मंत्रेण विधि पूर्वकम् ।। १७ ।।
मानसैरुपचारैश्च पूजयामास शंकरम्।।
तुष्टाव शंकरं भक्त्या संसेवित्वा मुहुर्मुहुः ।। १८ ।।
बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ।।
दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा ।।१९।।
चकार सुचरित्रा सानसूया मुनिकामिनी ।।
दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा ।।4.3.२०।।
विह्वलाश्चाभवंस्तत्र तेजसा दूरतः स्थिताः।।
अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि।।२१।।
तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ।।
अत्रेश्च तपसश्चैवानसूया शिवसेवनम् ।।२२।।
विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम।
तावत्कालं तु सा देवी परिचर्यां चकार ह ।।२३।।
यावत्कालं मुनिवरः प्राणायामपरायणः ।।
तौ दम्पती तदा तत्र स्वस्व कार्यपरायणौ ।। २४ ।।
संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ।।
एवं जातं तदा काले ह्यत्रिश्च ऋषिसत्तमः ।।२५।।
ध्याने च परमे लीनो न व्यबुध्यत किंचन ।।
अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा ।। २६ ।।
नान्यत्परं किंचिज्जानीते स्म च सा सती ।।
तस्यैव तपसा सर्वे तस्याश्च भजनेन च ।।२७।।
देवाश्च ऋषयश्चैव गंगाद्यास्सरितस्तथा।।
दर्शनार्थं तयोः सर्वाः परे प्रीत्या समाययुः ।। २८ ।।
दृष्ट्वा च तत्तपस्सेवां विस्मयं परमं ययुः ।।
तयोस्तदद्भुतं दृष्ट्वा समूचुर्भजनं वरम् ।।२९।।
उभयोः किं विशिष्टं च तपसो भजनस्य च ।।
अत्रेश्चैव तपः प्रोक्तमनसूयानुसेवनम् ।।4.3.३०।।
तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम्।।
पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम् ।। ३१ ।।
एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ।।
धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका ।। ३२ ।।
यदैताभ्यां परप्रीत्या क्रियते सुतपः पुनः ।।
एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम् ।। ३३ ।।
त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ।।
तयोरेव प्रशंसां च कृत्वा ते तु यथागतम्।।३४।।
गतास्ते च तदा तत्र गंगा न गिरिशं विना।
गंगा मद्भजनप्रीता साध्वी धर्मविमोहिता ।।३५।।
कृत्वोपकारमेतस्या गमिष्यामीत्युवाच सा।।
शिवोऽपि ध्यानसम्बद्धो मुनेरत्रेर्मुनीश्वराः ।।३६।।
पूर्णांशेन स्थितस्तत्र कैलासं तं जगाम ह।।
पंचाशच्च तथा चात्र चत्वारि ऋषिसत्तमाः ।।३७।।
वर्षाणि च गतान्यासन्वृष्टिर्नैवाभवत्तदा ।।
यावच्चाप्यत्रिणा ह्येवं तपसा ध्यानमाश्रितम् ।। ३८ ।।
अनसूया तदा नैव गृह्णामीतीषणा कृता ।।
एवं च क्रियमाणे हि मुनिना तपसि स्थिते ।।
अनसूयासुभजने यज्जातं श्रूयतामिति।।३९।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं नाम तृतीयो ऽध्यायः ।। ३ ।।