शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४० शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →

तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः ।।
गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम् ।।१।।
गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् ।।
तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम् ।।२।।
अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् ।।
यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत् ।।३।।
पीडितास्ते गणास्तेन ययुश्चैव दिशो दश ।।
गणेशा वारितास्ते च नाजग्मुस्स्वामिनम्प्रति ।।४।।
शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् ।।
नानाविधैश्चायुधैर्हि महाबलपराक्रमौ ।।५।।
शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् ।।
अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा ।। ६ ।।
आयुधानि शिवस्सो वै ह्यर्जुनस्याच्छिनत्तदा ।।
कवचानि च सर्वाणि शरीरं केवलं स्थितम्।। ७ ।।
तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः ।।
वाहिनीपतिना तेन भयात्क्लिष्टोपि धैर्यवान् ।।८।।
तद्युद्धेन मही सर्वा चकंपे ससमुद्रका ।।
देवा दुःखं समापन्नः किं भविष्यति वा पुनः ।।९।।
एतस्मित्रंतरे देवः शिवो गगनमास्थितः ।।
युद्धं चकार तत्रस्थस्सोर्जुनश्च तथाऽकरोत्।।3.41.१०।।
उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ।।
देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम् ।।११।।
अथार्जुनोत्तरे ज्ञात्वा स्मृत्वा शिवपदांबुजम्।।
दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः ।।१२।।
धृत्वा पादौ तदा तस्य भ्रामयामास सोर्जुनः ।।
विजहास महादेवो भक्तवत्सल ऊतिकृत् ।।१३।।
दातुं स्वदासतां तस्मै भक्तवश्यतया मुने ।।
शिवेनैव कृतं ह्येतच्चरितन्नान्यथा भवेत् ।।१४।।
पश्चाद्विहस्य तत्रैव शंकरो रूपम द्भुतम् ।।
दर्शयामास सहसा भक्तवश्यतया शुभम् ।। १५ ।।
यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तमम्।।
व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम् ।। १६ ।।
तद्दृष्ट्वा सुंदरं रूपं ध्यानप्राप्तं शिवस्य तु ।।
बभूव विस्मितोतीव ह्यर्जुनो लज्जितः स्वयम् ।। १७ ।।
अहो शिवश्शिवस्सोय यो मे प्रभुतया वृतः ।।
त्रिलोकेशः स्वयं साक्षाद्धा कृतं किं मयाऽधुना ।। १८।।
प्रभोर्बलवती माया मायिनामपि मोहिनी ।।
किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम् ।। १९ ।।
धियेति संविचार्य्यैव साञ्जलिर्नतमस्तकः ।।
प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः ।।3.41.२०।।
अर्जुन उवाच ।। देवदेव महादेव करुणाकर शंकर।।
ममापराधः सर्वेश क्षन्तव्यश्च त्वया पुनः ।।२१।।
किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना ।।
धिङ् मां समरकर्तारं स्वामिना भवता प्रभो।।२२।।
नन्दीश्वर उवाच।।
इत्येवं पाण्डवस्सोथ पश्चात्तापमवाप सः ।।
पादयोर्निपपाताशु शंकरस्य महाप्रभोः ।।२३।।
अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् ।।
समाश्वास्येति बहुशो महेशो भक्तवत्सलः ।। २४ ।।
शंकर उवाच ।।
न खिद्य पार्थ भक्तोसि मम त्वं हि विशेषतः।।
परीक्षार्थं मया तेऽद्य कृतमेवं शुचञ्जहि ।। २५ ।।
नंदीश्वर उवाच ।।
इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् ।।
विलज्जं कारयामास गणैश्च स्वामिनो गणैः ।। २६ ।।
पुनश्शिवोऽर्जुनम्प्राह पाण्डवं वीरसम्मतम् ।।
हर्षयन् सर्वथा प्रीत्या शंकरो भक्तवत्सलः ।। २७।।
शिव उवाच ।।
हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोस्मि वरं वृणु ।।
प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया ।। २८ ।।
इच्छया च कृतं मेऽद्य नापराधस्तवाधुना ।।
नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत्।।२९।।
ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् ।।
एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम् ।।3.41.३०।।

नन्दीश्वर उवाच ।।
इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शंकरेण सः।।
उवाच शंकरं भक्त्या सावधानतया स्थितः ।।३१।।
अर्जुन उवाच ।।
भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम्।।
वर्णनीयं मया देव कृपालुस्त्वं सदाशिव ।। ३२ ।।
इत्युक्त्वा संस्तुतिं तस्य शंकरस्य महाप्रभोः ।।
चकार पाण्डवस्सोथ सद्भक्तिं वेदसंमताम् ।।३३।।
अर्जुन उवाच।।
नमस्ते देवदेवाय नमः कैलासवासिने ।।
सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः ।।३४।।
कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते।।
मनः प्रसन्नरूपाय सहस्रवदनाय च ।। ३५ ।।
नीलकंठ नमस्तेस्तु सद्योजाताय वै नमः ।।
वृषध्वज नमस्तेस्तु वामांगगिरिजाय च।।३६।।
दशदोष नमस्तुभ्यन्नमस्ते परमात्मने ।।
डमरुकपालहस्ताय नमस्ते मुण्डमालिने ।। ३७ ।।
शुद्धस्फटिकसंकाशशुद्धकर्पूरवर्ष्मणे ।।
पिनाकपाणये तुभ्यन्त्रिशूलवरधारिणे ।।३८।।
व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ।।
नागांगाय नमस्तुभ्यं गंगाधर नमोस्तु ते।। ३९ ।।
सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ।।
नन्द्यादिगणसेव्याय गणेशाय च ते नमः ।। 3.41.४० ।।
नमो गणेशरूपाय कार्तिकेयानुगाय च ।।
भक्तिदाय च भक्तानां मुक्तिदाय नमोनमः ।। ४१ ।।
अगुणाय नमस्तेस्तु सगुणाय नमोनमः ।।
अरूपाय सरूपाय सकलायाकलाय च ।। ४२ ।।
नमः किरातरूपाय मदनुग्रहकारिणे ।।
युद्धप्रियाय वीराणां नानालीलानुकारिणे ।। ४३ ।।
यत्किंचिद्दृश्यते रूपन्तत्तेजस्तावकं स्मृतम् ।।
चिद्रूपस्त्वं त्रिलोकेषु रमसेन्वयभेदतः ।। ४४ ।।
गुणानान्ते न संख्यास्ति यथा भूरजसामिह ।।
आकाशे तारकाणां हि कणानां वृष्ट्यपामपि।।४५।।
न ते गुणास्तु संख्यातुं वेदा वै सम्भवन्ति हि ।।
मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः ।।४६।।
सोसि योसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि।।
दासोहं ते महेशान स्वामी त्वं मे महेश्वर।।४७।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शंकर ।।
सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम् ।।४८।।
शंकर उवाच।।
वचसा किम्बहूक्तेन शृणुष्व वचनम्मम ।।
शीघ्रं वृणु वरम्पुत्र सर्वन्तच्च ददामि ते ।।४९।।
नन्दीश्वर उवाच।।
इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् ।।
साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम् ।। 3.41.५० ।।
अर्जुन उवाच ।।
किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः ।।
तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो ।।५१।।
शत्रूणां संकटं यच्च तद्गतन्दर्शनात्तव।।
ऐहिकीं च परां सिद्धिम्प्राप्नुयां वै तथा कुरु ।। ५२ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा तं नमस्कृत्य शंकरम्भक्तवत्सलम् ।।
नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः ।। ५३ ।।
शिवोपि च तथाभूतञ्ज्ञात्वा पाण्डवमर्जुनम् ।।
निजभक्तवरं स्वामी महातुष्टो बभूव ह ।। ५४ ।।
अस्त्रम्पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः ।।
ददौ तस्मै महेशानो वचनश्चेदमब्रवीत् ।। ५५ ।।
शिव उवाच ।।
स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ।।
अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ।। ५६ ।।
कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ।।
स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः ।। ५७ ।।
मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ।।
धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ।। ५८ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ।।
पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत ।। ५९ ।।
अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ।।
जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम् ।। 3.41.६० ।।
सर्व्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् ।।
मिलित्वा तं सुखं प्रापुर्द्रौपदी चाति सुव्रता ।। ६१ ।।
शिवं परं च सन्तुष्टम्पाण्डवाः सर्व एव हि ।।
नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः ।। ६२ ।।
आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता ।।
पपात सुकरार्थं च तेषाञ्चैव महात्मनाम् ।।६३।।
धन्यं च शंकरं चैव नमस्कृत्य शिवम्मुदा ।।
अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति ।। ६४ ।।
एतस्मिन्नन्तरे कृष्णश्श्रुत्वार्जुनमथागतम्।।
मेलनाय समायातश्श्रुत्वा सुखमुपागतः ।।६५।।
अतश्चैव मयाख्यातः शंकरः सर्वदुःखहा ।।
स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम् ।। ६६ ।।
इत्युक्तस्ते किराताह्वोवतारश्शंकस्य वै ।।
तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात्।।६७।।
इत्यष्टाशीत्यवताराः (८८)
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः ।।४१।।