शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शृणु लीलाम्परात्मनः ।।
भक्तवात्सल्यसंयुक्तां तद्दृढत्वविदर्भिताम् ।।१।।
शिवोप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ।।
बाणार्थे च तदा तत्रार्जुनोपि समगात्ततः ।। २ ।।
एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ।।
अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा।।३।।
गण प्रोवाच तं तत्र किमर्थं गृह्यते शरः ।।
बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम ।। ४ ।।
इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तमः।।
सोर्जुनः शंकरं स्मृत्वा वचनं च तमब्रवीत् ।। ५ ।।
अर्जुन उवाच ।।
अज्ञात्वा किंच वदसि मूर्खोसि त्वं वनेचर ।।
बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः ।।६।।
रेखारूपं च पिच्छानि मन्नामांकित एव च ।।
त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव ।।७।।
।। नन्दीश्वर उवाच ।।
इत्येवन्तद्वचः श्रुत्वा विहस्य स गणेश्वरः ।।
अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे ।। ८ ।।
तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ।।
वेषतश्च तपस्वी त्वं न यथार्थं छलायते ।। ९ ।।
तपस्वी च कथं मिथ्या भाषते कुरुते नरः ।।
नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम् ।। 3.40.१० ।।
बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसत ।।
समर्थस्सर्वथा कर्तुं विग्रहानुग्रहौ पुनः ।। ११ ।।
वर्तते तस्य वाणीयं यो नीतश्च त्वयाधुना ।।
अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन ।। १२ ।।
तपःफलं कथं त्वं च हातुमिच्छसि तापस ।।
चौर्य्याच्छलार्द्यमानाच्च विस्मयात्सत्य भञ्जनात् ।।१३।।
तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ।।
तस्माच्च तपसस्तेद्य भविष्यति फलं कुतः ।।१४।।
तस्माच्च मुच्यते बाणात्कृतघ्नस्त्वं भविष्यसि ।।
ममैव स्वामिनो बाणस्तवार्थे मोचितो ध्रुवम् ।। १५ ।।
शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ।।
अत्यन्तं च कृतघ्नोसि तपोशुभकरस्तथा ।। १६ ।।
सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ।।
प्रयोजनं चेद्बाणेन स्वामी च याच्यतां मम ।। १७ ।।
ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ।।
राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया।।१८।।
उपकारं परित्यज्य ह्यपकारं समीहसे।।
नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम् ।। १९ ।।
नन्दीश्वर उवाच ।।
इत्येवं वचनन्तस्य श्रुत्वा पार्थोर्जुनस्तदा ।।
क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत्।। 3.40.२० ।।
।। अर्जुन उवाच ।।
शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ।।
यथा जातिस्तथा त्वां च जानामि हि वनेचर ।। २१ ।।
अहं राजा भवांश्चौरः कथं युद्धप्रयुक्तता ।।
युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन ।। २२ ।।
तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ।।
दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः ।। २३ ।।
कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ।।
त्वमेव याचसे नैव बाणं मां किं वनेचरः ।। २४ ।।
ददामि ते तथा बाणान्सन्ति मे बहवो ध्रुवम् ।।
राजा च ग्रहणं चैव न दास्यति तथा भवेत् ।। २५ ।।
किम्पुनश्च तथा बाणान्प्रयच्छामि वनेचर ।।
यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना ।। २६ ।।
यथागच्छतु ते भर्ता किमर्थं भाषतेऽधुना ।।
आगत्य च मया सार्द्धं जित्वा युद्धे च माम्पुनः ।। २७ ।।
नीत्वा बाणमिमं भिल्ल स्वामी ते वाहिनीपतिः।।
निजालयं सुखं यातु विलंबः क्रियते कथम्।।२८।।
नन्दीश्वर उवाच।।
महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि।।
इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत्।।२९।।
भिल्ल उवाच।।
अज्ञोसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम्।।
देहि बाणं सुखन्तिष्ठ त्वन्यथा क्लेशभाग्भवेः ।।3.40.३०।।
नन्दीश्वर उवाच ।।
इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।।
गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ।। ३१ ।।
अर्जुन उवाच।।
मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर।।
आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा ।।३२।।
न शोभते त्वया युद्धं करिष्ये स्वामिना तव।।
उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः ।।३३।।
श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ।।
गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु ।। ३४ ।।
नन्दीश्वर उवाच ।।
इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ।।
शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ।।३५।।
अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात्।।
सर्वं निवेदयामास तस्यै भिल्लपरात्मने ।।३६।।
स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः।।
आजगाम स्वसैन्येन शंकरो भिल्लरूपधृक् ।। ३७ ।।
अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः।।
दृष्ट्वा गृहीत्वा सशरन्धनुः सन्मुख आययौ ।।३८।।
अथो किरातश्च पुनः प्रेषयामास तं चरम्।।
तन्मुखेन जगौ वाक्यम्भारताय महात्मने ।। ३९ ।।
किरात उवाच ।।
पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ।।
मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम्।।3.40.४०।।
भ्रातरस्तव दुःखार्त्ताः कलत्रं च ततः परम् ।।
पृथिवी हस्ततस्तेद्य यास्यतीति मतिर्मम ।।४१।।
।। नन्दीश्वर उवाच ।।
इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ।।
सर्वथार्जुनरक्षार्थं धृतरूपेण शंभुना ।। ४२ ।।
इत्युक्तस्तु तदागत्य सगणश्शंकरश्च तत् ।।
विस्तराद्वृत्तमखिलमर्जुनाय न्यवेदयत् ।।४३।।
तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ।।
वाहिनीपतये वाच्यम्विपरीतम्भविष्यति ।।४४।।
यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ।।
कुलस्य दूषणं चाहं भविष्यामि न संशयः ।। ४५ ।।
भ्रातरश्चैव दुखार्ताः भवन्तु च तथा ध्रुवम् ।।
विद्याश्च निष्फलाः स्युस्तास्तस्मादागच्छ वै ध्रुवम् ।। ४६ ।।
सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ।।
तथा वनेचराद्राजा न बिभेति कदाचन ।। ४७ ।।
नन्दीश्वर उवाच ।।
इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ।।
सर्वं निवेदयामास तदुक्तं हि विशेषतः ।। ४८ ।।
अथ सोपि किराताह्वो महादेवस्ससैन्यकः ।।
तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा ।।४९।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायाम किरातावतारवर्णने भिल्लार्जुनसंवादोनाम चत्वारिंशोऽध्यायः ।।४०।।