शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

नन्दीश्वर उवाच।।
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ।।
ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाऽकरोत् ।।१।।
एकपादतलेनैव तिष्ठन्मुनिवरो यथा ।।
सूर्य्ये दृष्टिं निबध्यैकां मंत्रमावर्तयन्स्थितः ।।२।।
तपस्तेपेति संप्रीत्या संस्मरन्मनसा शिवम् ।।
पंचाक्षरं मनुं शंभोर्जपन्सर्वो त्तमोत्तमम् ।। ३ ।।
तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ।।
पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः ।। ४ ।।
देवा ऊचुः ।।
नरेणैकेन सर्वेश त्वदर्थे तप आहितम्।।
यदिच्छति नरस्सोयं किन्न यच्छति तत्प्रभो ।।५।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ।।
तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ।।६।।
शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ।।
सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ।।७।।
शिव उवाच ।।
स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयः
सर्वथाहं करिष्यामि कार्यं वो नात्र संशय ।।८।।
नंदीश्वर उवाच ।।
तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ।।
परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ।। ९ ।।
एतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ।।
सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ।। ३.३९.१० ।।
दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ।।
यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ।।११।।
शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ।।
शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ।। १२ ।।
अजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ।।
स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ।। १३ ।।
अर्जुन उवाच ।।
कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ।।
ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ।। १४ ।।
ममैवं मन आयाति शत्रुरेव न संशयः ।।
मया विनिहताः पूर्वमनेके दैत्यदानवाः ।। १५ ।।
तदीयः कश्चिदायाति वैरं साधयितुम्पुनः ।।
अथवा च सखा कश्चिद्दुर्योधनहितावहः ।। १६ ।।
यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद्ध्रुवम्।।
यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः ।। १७ ।।
आचारः कुलमाख्याति वपुराख्याति भोजनम् ।।
वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ।। १८ ।।
आकारेण तथा गत्या चेष्टया भाषितैरपि ।।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ।। १९ ।।
उज्ज्वलं सरसञ्चैव वक्रमारक्त कन्तथा ।।
नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः ।। ३.३९.२० ।।
उज्ज्वलं मित्रसंयोगे सरसम्पुत्रदर्शने ।।
वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ।। २१ ।।
अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ।।
अयं शत्रुर्भवेदेव मारणीयो न संशयः ।। २२ ।।
गुरोश्च वचनं मेद्य वर्तते दुःखदस्त्वया ।।
हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा ।। २३ ।।
एतदर्थं त्वायुधानि मम चैव न संशयः ।।
विचार्य्येति च तत्रैव बाणं संस्थाय संस्थितः ।।२४।।
एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ।।
तद्भक्तेश्च परीक्षार्थं शंकरो भक्तवत्सलः।।२५।।
विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ।।
तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ।। २६ ।।
बद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ।।
शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ।। २७ ।।
बाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ।।
गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ।।२८।।
शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ।।
सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ।।२९।।
वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ।।
पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ।।३.३९.३०।।
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह।।
मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ।।३१।।
व्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ।।
शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ।।३२।।
मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ।।
तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ।। ३३ ।।
भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्।।
यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ।। ३४ ।।
तदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ।।
प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ।। ३५ ।।
अथ वा बहु चाल्पं हि भोग्यं निस्तीर्य शंकरः ।।
कदाचिदिच्छया तस्य दूरीकुर्य्यान्न संशयः ।। ।।३६।।
विषं चैवामृतं कुर्यादमृतं विषमेव वा ।।
यदिच्छति करोत्येव समर्थः किन्निषिध्यते ।।३७।।
इत्थं विचार्य्यमाणेऽपि भक्तैरन्यैः पुरातनैः ।।
भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम् ।।३८।।
लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ।।
निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसंक्षयम् ।। ३९ ।।
जयते पुण्यपापाभ्यां शंकरस्सुखदः सदा ।।
कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः ।।३.३९.४०।।
अंते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ।।
यथा चैव सुवर्णं च शोधि तं शुद्धतां व्रजेत् ।। ४१ ।।
एवं चैवं मया पूर्वं श्रुतं मुनिमुखात्तथा।।
अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम् ।। ४२ ।।
इत्येवन्तु विचारं स करोति यावदेव हि ।।
तावच्च सूकरः प्राप्तो बाणसंमोचनावधिः ।।४३।।
शिवोपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ।।
तयोर्मध्ये तदा सोयं दृश्यते शृंगमद्भुतम् ।।४४।।
तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः।।
अर्जुनस्य च रक्षार्थं शंकरो भक्तव त्सलः ।।४५।।
एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ।।
शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा।।४६।।
शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ।।
भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः।।४७।।
पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च।।
सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह ।।४८।।
देवा हर्षं परम्प्रापुः पुष्पवृष्टिं च चक्रिरे ।।
जयपूर्व स्तुतिकराः प्रणम्य च पुनःपुनः।।४९।।
शिवस्तुष्टमना आसीदर्जुनः सुखमागतः।।
दैत्यस्य च तदा दृष्ट्वा क्रररूपं च तौ तदा।।३.३९.५०।।
अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा।।
अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम् ।।५१।।
कृत्वागतो मद्वधार्थैं शिवेनाहं सुरक्षितः ।।
ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः।।५२।।
विचार्य्येत्यर्जुनस्तत्र जगौ शिवशिवेति च ।।
प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः ।। ५३ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधोनामैकोनचत्वारिंशोऽध्यायः ।।३९।।