शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ४२
वेदव्यासः

नन्दीश्वर उवाच ।।
अवताराञ्छृणु विभोर्द्वादशप्रमितान्परान् ।।
ज्योतिर्लिङ्गस्वरूपान्वै नानोति कारकान्मुने ।। १ ।।
सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः ।।
उज्जयिन्यां महाकाल ओंकारे चामरेश्वरः ।।२।।
केदारो हिमव त्पृष्टे डाकिन्याम्भीमशंकरः ।।
वाराणस्यां च विश्वेशस्त्र्यम्बको गौतमीतटे ।। ३ ।।
वैद्यनाथश्चिताभूमौ नागेशो दारुकावने ।।
सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये ।।४।।
अवतारद्वादशकमेतच्छम्भोः परात्मनः ।।
सर्वानन्दकरं पुंसान्दर्शनात्स्पर्शनान्मुने।।५।।
तत्राद्यस्सोमनाथो हि चन्द्रदुःखक्षयंकरः।।
क्षयकुष्ठादिरोगाणां नाशकः पूजनान्मुने ।।६।।
शिवावतारस्सोमेशो लिंगरूपेण संस्थितः।।
सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा ।।७।।
चंद्रकुण्डं च तत्रैव सर्वपापविनाशकम् ।।
तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते।। ८ ।।
सोमेश्वरं महालिंगं शिवस्य परमात्मकम्।।
दृष्ट्वा प्रमुच्यते पापाद्भुक्तिं मुक्तिं च विन्दति ।। ९ ।।
मल्लिकार्जुनसंज्ञश्चावतारश्शंकरस्य वै ।।
द्वितीयः श्रीगिरौ तात भक्ताभीष्टफलप्रदः ।। 3.42.१० ।।
संस्तुतो लिंगरूपेण सुतदर्शनहेतुतः ।।
गतस्तत्र महाप्रीत्या स शिवः स्वगिरेर्मुने ।।११।।
ज्योतिर्लिंगं द्वितीयन्तद्दर्शनात्पूजनान्मुने ।।
महासुखकरं चान्ते मुक्तिदन्नात्र संशयः ।।१२।।
महाकालाभिधस्तातावतारश्शंकरस्य वै ।।
उज्जयिन्यां नगर्य्यां च बभूव स्वजनावनः ।। १३ ।।
दूषणाख्यासुरं यस्तु वेदधर्मप्रमर्दकम् ।।।
उज्जयिन्यां गतं विप्रद्वेषिणं सर्वनाशनम् ।। १४ ।।
वेदविप्रसुतध्यातो हुङ्कारेणैव स द्रुतम् ।।
भस्मसात्कृतवांस्तं च रत्नमाल निवासिनम् ।। १५ ।।
तं हत्वा स महाकालो ज्योतिर्लिंगस्वरूपतः ।।
देवैस्स प्रार्थितोऽतिष्ठत्स्वभक्तपरिपालकः ।। १६ ।। ।
महाकालाह्वयं लिंगं दृष्ट्वाभ्यर्च्य प्रयत्नतः ।।
सर्वान्कामानवाप्नोति लभते परतो गतिम् ।। १७ ।।
ओङ्कारः परमेशानो धृतः शम्भो परात्मनः ।।
अवतारश्चतुर्थो हि भक्ताभीष्टफलप्रदः ।। १८ ।।
विधिना स्थापितो भक्त्या स्वलिंगात्पार्थिवान्मुने ।।
प्रादुर्भूतो महादेवो विन्ध्यकामप्रपूरकः ।। १९ ।।
देवैस्संप्रार्थितस्तत्र द्विधारूपेण संस्थितः ।।
भुक्तिमुक्तिप्रदो लिंगरूपो वै शक्तवत्सल ।। 3.42.२० ।।
प्रणवे चैव चोंकारनामासील्लिंगमुत्तमम् ।।
परमेश्वरनामासीत्पार्थिवश्च मुनीश्वर ।।२१।।
भक्ताभीष्टप्रदो ज्ञेयो योपि दृष्टोर्चितो मुने ।।
ज्योतिर्लिंगे महादिव्ये वर्णिते ते महामुने।।२२।।
केदारेशोवतारस्तु पंचमः परमश्शिवः ।।
ज्योतिर्लिंगस्वरूपेण केदारे संस्थितस्य च ।। २३ ।।
नरनारायणाख्यौ याववतारौ हरेर्मुने ।।
तत्प्रार्थितश्शिवस्तत्स्थैः केदारे हिमभूधरे ।। २४ ।।
ताभ्यां च पूजितो नित्यं केदारेश्वरसंज्ञकः ।।
भक्ताभीष्टप्रदः शम्भुर्दर्शनादर्चनादपि ।।२५।।
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।।
सर्वकामप्रदस्तात सोवतारश्शिवस्य वै ।।२६।।
भीमशंकरसंज्ञस्तु षष्ठः शम्भोर्महाप्रभोः ।।
अवतारो महालीलो भीमासुरविनाशनः ।।२७।।
सुदक्षिणाभिधम्भक्तङ्कामरूपेश्वरन्नृपम्।।
यो ररक्षाद्भुतं हत्वासुरन्तं भक्तदुःखदम् ।।२८।।
भीमशङ्करनामा स डाकिन्यां संस्थितस्स्वयम् ।।
ज्योतिर्लिंगस्वरूपेण प्रार्थितस्तेन शंकरः ।।२९।।
विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः ।।
सर्वब्रह्माण्डरूपश्च भुक्तिमुक्तिप्रदो मुने ।। 3.42.३० ।।
पूजितस्सर्वदेवैश्च भक्त्या विष्ण्वादिभिस्सदा ।।
कैलासपतिना चापि भैरवेणापि नित्यशः ।। ३१ ।।
ज्योतिर्लिंगस्वरूपेण संस्थितस्तत्र मुक्तिदः ।।
स्वयं सिद्धस्वरूपो हि तथा स्वपुरि स प्रभुः ।। ३२ ।।
काशीविश्वेशयोर्भक्त्या तन्नामजपकारकाः ।।
निर्लिप्ताः कर्मभिर्न्नित्यं केवल्यपदभागिनः ।। ३३ ।।
त्र्यंबकाख्योऽवतारो यः सोष्टमो गौतमीतटे ।।
प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः ।।३४।।
गौतमस्य प्रार्थनया ज्योतिर्लिंग स्वरूपतः ।।
स्थितस्तत्राचलः प्रीत्या तन्मुनेः प्रीतिकाम्यया।।३५।।
तस्य सन्दर्शनात्स्पर्शाद्दर्शनाच्च महेशितुः ।।
सर्वे कामाः प्रसिध्यन्ति ततो मुक्तिर्भवेदहो ।।३६।।
शिवानुग्रहतस्तत्र गंगा नाम्ना तु गौतमी ।।
संस्थिता गौतमप्रीत्या पावनी शंकरप्रिया ।। ३७।।।
वैद्यनाथावतारो हि नवमस्तत्र कीर्तितः ।।
आविर्भूतो रावणार्थं बहुलीलाकरः प्रभुः।।३८।।
तदानयनरूपं हि व्याजं कृत्वा महेश्वरः ।।
ज्योतिर्लिंगस्वरूपेण चिताभूमौ प्रतिष्ठितः ।।३९।।
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ।।
दर्शनात्पूजनाद्भक्त्या भुक्तिमुक्तिप्रदः स हि ।।3.42.४०।।
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ।।
पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ।। ४१ ।।
नागेश्वरावतारस्तु दशमः परिकीर्तितः ।।
आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा ।।४२।।
हत्वा दारुकनामानं राक्षसन्धर्मघातकम् ।।
स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ।।४३।।
लोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक्।।
सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः ।। ४४ ।।
तद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ।।
विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ।।४५।।।
रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः ।।
रामचन्द्रप्रियकरो रामसंस्थापितो मुने ।। ४६।।
ददौ जयवरं प्रीत्या यो रामाय सुतोषितः ।।
आविर्भूतस्य लिंगस्तु शंकरो भक्तवत्सलः ।।४७।।
रामेण प्रार्थितोऽत्यर्थं ज्योतिर्लिंगस्वरूपतः ।।
सन्तस्थौ सेतुबन्धे च रामसंसेवितो मुने ।। ४८ ।।
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः।।४९।।
तं च गंगाजलेनैव स्नापयिष्यति यो नरः ।।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ।। 3.42.५० ।।
इह भुक्त्वाखिलान्भोगान्देवतादुर्ल्लभानपि।।
अतः प्राप्य परं ज्ञानं कैवल्यं मोक्षमाप्नुयात् ।। ५१ ।।
घुश्मेश्वरावतारस्तु द्वादशश्शंकरस्य हि ।।
नानालीलाकरो घुश्मानन्ददो भक्तवत्सलः।।५२ ।।
दक्षिणस्यान्दिशि मुने देवशैलसमीपतः ।।
आविर्बभूव सरसि घुश्माप्रियकरः प्रभुः ।।५३।।
सुदेह्यमारितं घुश्मापुत्रं साकल्यतो मुने ।।
तुष्टस्तद्भक्तितश्शम्भुर्योरक्षद्भक्तवत्सलः ।।५४।।
तत्प्रार्थितस्स वै शम्भुस्तडागे तत्र कामदाः।।
ज्योतिर्लिंग स्वरूपेण तस्थौ घुश्मेश्वराभिधः ।।५५।
तन्दृष्ट्वा शिवलिंगन्तु समभ्यर्च्य च भक्तितः।।
इह सर्वसुखम्भुक्त्वा ततो मुक्तिं च विन्दति।।५६।।
इति ते हि समाख्याता ज्योतिर्लिंगावली मया।।
द्वादशप्रमिता दिव्या भुक्तिमुक्तिप्रदायिनी।।५७।।
एतां ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि।।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति।।५८।।
शतरुद्राभिदा चेयम्वर्णिता संहिता मया।।
शतावतारसत्कीर्तिस्सर्वकामफलप्रदा।।५९।।
इमां यः पठते नित्यं शृणुयाद्वा समाहितः ।।
सर्वान्कामानवाप्नोति ततो मुक्तिं लभेद्ध्रुवम् ।।3.42.६०।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सनत्कुमार .नन्दीश्वरसंवादे द्वादशज्योतिर्लिंगावतारवर्णनं नाम द्विचत्वारिंशोध्यायः ।। ४२ ।।
समाप्तेयं तृतीया शतरुद्रसंहिता ।।