शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।।
अवतारं शृणु विभोरश्वत्थामाह्वयं परम् ।। १ ।।
बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ।।
भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान् ।। २ ।।
धनुर्भृतां वरः शूरो विप्रर्षिस्सर्वशास्त्रवित् ।।
बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः ।। ३ ।।
धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः।।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ।।४।।
कौरवाणां स आचर्य्यं आसीत्स्वबलतो द्विज ।।
महारथिषु विख्यातः षट्सु कौरवमध्यतः ।।५।।
साहाय्यार्थं कौरवाणां स तेपे विपुलन्तपः ।।
शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्य्यो द्विजोत्तमः ।।६।।
ततः प्रसन्नो भगवाच्छंकरो भक्तवत्सलः।।
आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम।।७।।
तन्दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ।।
महाप्रसन्नहृदयो नतकस्सुकृताञ्जलिः ।।८।।
तस्य स्तुत्या च तपसा सन्तुष्टः शंकर प्रभुः।।
वरम्ब्रूहीति चोवाच द्रोणन्तं भक्तवत्सलः।।९।।
तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः।।
स्वांशजन्तनयन्देहि सर्वाजेयम्महाबलम्।।3.36.१०।।
तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ।।
अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने ।।११।।
द्रोणोऽपगच्छत्स्वन्धाम महाहृष्टो गतभ्रमः ।।
स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा ।। १२ ।।
अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ।।
स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः।।। १३ ।।
अश्वत्थामेति विख्यातस्तस्य बभूव क्षितौ मुने ।।
प्रवीरः कंजपत्राक्षश्शत्रुपक्षक्षयङ्करः ।। १४ ।।
यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ।।
सहायकृद्बभूवात कौरवाणां महाबलः ।। १५ ।।
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ।।
भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ।। १६ ।।
यद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ।।
आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ।। १७ ।।
कृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ।।
प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ।।१८।।
अश्वत्थामा महावीरो महादेवांशजो मुने ।।
तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ।। १९ ।।
विनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ।।
कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ।। 3.36.२० ।।
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ।।
रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ।। २१ ।।
अस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ।।
ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ।।२२ ।।
प्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ।।
उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ।।२३।।
अर्जुन उवाच ।।
किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ।।
सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ।।२४।।
नन्दीश्वर उवाच ।।
श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ।।
दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ।।२५।।
कृष्ण उवाच ।।
वेत्थेदन्द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ।।
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्।।२६।।
शिवं स्मर द्रुतं शम्भुं स्वप्रभुम्भक्तरक्षकम् ।।
येन दत्तं हि ते स्वास्त्रं सर्वकार्य्यकरम्परम् ।।२७।।
जह्यस्त्रतेज उन्नद्धन्त्वन्तच्छैवास्त्रतेजसा ।।
इत्युक्त्वा च स्वयं कृष्णश्शिवन्दध्यौ तदर्थकः ।।२८।।
तच्छ्रुत्वा कृष्णवचनं पार्थस्स्मृत्वा शिवं हृदि ।।
स्पृष्ट्वापस्तं
प्रणम्याशु चिक्षेपास्त्रन्ततो मुने ।।२९।।
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ।।
शैवास्त्रतेजसा सद्यस्समशाम्यन्महामुने ।।3.36.३०।।
मंस्था मा ह्येतदाश्चर्य्यं सर्वचित्रमये शिवे ।।
यस्स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः ।। ३१ ।।
अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ।।
शैवन्न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने ।। ३२ ।।
अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम्।।
उत्तरागर्भगं बालं नाशितुम्मन आदधे ।।३३।।
ब्रह्मास्त्रमनिवार्य्यं तदन्यैरस्त्रैर्महाप्रभम् ।।
उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः ।। ३४ ।।
ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ।।
कृष्णन्तुष्टाव लक्ष्मीशन्दह्यमाना तदस्त्रतः ।। ३५ ।।
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ।।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ।। ३६ ।।
स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ।।
सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ।। ३७ ।।
स्वरूपं शंकरादेशात्कृतं शैववरेण ह ।।
कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ।। ३८ ।।
ततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ।।
अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ।। ३९ ।।
अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ।।
नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ।। 3.36.४० ।।
इत्थं महेश्वरस्तात चक्रे लीलाम्पराम्प्रभुः ।।
अवतीर्य्य क्षितौ द्रौणिरूपेण मुनिसत्तम ।। ४१ ।।
शिवावतारोऽश्वत्थामा महाबलपराक्रमः ।।
त्रैलोक्यमुखदोऽद्यापि वर्तते जाह्नवीतटे ।। ४२ ।।
अश्वत्थामावतारस्ते वर्णितश्शंकर प्रभोः ।।
सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः ।। ४३ ।।
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ।।
स सिद्धिम्प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत् ।। ४४ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ।।३६।।