शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३५
← अध्यायः ३४ | शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता) अध्यायः ३५ वेदव्यासः |
अध्यायः ३६ → |
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः।।
अवतारं शृणु विभोस्साधुवेषद्विजाह्वयम् ।। १ ।।
मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ।।
चिन्तामापुस्तुरास्सर्वे मन्त्रयामासुरादरात् ।। २ ।।
एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ।।
ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै ।। ३ ।।
अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ।।
रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ।।४।।
अस्थिरत्वम्परित्यज्य दिव्यरूपं विधाय सः ।।
कन्यां शूलभृते दत्त्वा शिवालोकं गमिष्यति ।। ५ ।।
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ।।
तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ।। ६ ।।
इत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ।।
चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ।। ७ ।।
देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ।।
कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ।। ८ ।।
स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ।।
लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ।। ९ ।।
इति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ।। 3.35.१० ।।
गुरुरुवाच ।।
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।।
सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः ।। ११ ।।
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।।
तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति ।। १२ ।।
।। नन्दीश्वर उवाच ।।
तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ।।
सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः ।। १३ ।।
अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिंत्य वै ।।
नाहं करिष्ये तन्निंदां दुःखदां कहरां सदा।।१४।।
सुरा गच्छत कैलासं संतोषयत शङ्करम्।।
प्रस्थापयत तं देवं हिमालयगृहं प्रति ।।१५।।
स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै।।
परनिन्दा विनाशाय स्वनिन्दा यशसे मता ।।१६।।
नन्दीश्वर उवाच ।।
ततस्ते प्रययुः शीघ्रं कैलासं निखिलास्सुराः।।
सुप्रणम्य शिवं भक्त्या तद्द्रुतं निखिला जगुः ।। १७ ।।
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।।
देवान्सुयापयामास तानाश्वास्य विहस्य सः ।। १८।।
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।।
गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान् ।।१९।।
दण्डी छत्री दिब्यवासा बिभ्रत्तिलकमुज्ज्वलम्।।
करे स्फटिकमालां च शालग्रामं गले दधत् ।।3.35.२०।।
जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः।।
हिमाचलं जगामाशु बन्धुवर्गेस्समन्वितम् ।। २१ ।।
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।।
ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम् ।। २२ ।।
ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ।।
उवाच शीघ्रं विप्रेन्द्रस्स योग्यद्रिम्महादरात् ।। २३ ।।
साधुद्विज उवाच ।।
साधु द्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ।।
परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात्।।२४।।
मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम।।
तच्छृणु प्रीतितो वच्मि हित्वा दम्भन्तवांतिकम् ।।२५।।
शङ्कराय सुतान्दातुन्त्वमिच्छसि निजोद्भवाम् ।।
इमाम्पद्मासमां रम्यामज्ञातकुलशीलिने ।।२६।।
इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ।।
निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ।।२७।।
पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ।।
बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम् ।।२८।।
सर्वान्संपृच्छ यत्नेन मेनादीन्पा र्वती विना ।।
रोगिणे नौषधं शैल कुपथ्यं रोचते सदा।।२९।।
न ते पात्रानुरूपश्च पार्वतीदानकर्म्मणि ।।
महाजनः स्मेरमुखः श्रुति मात्राद्भविष्यति ।। 3.35.३० ।।
निराश्रयस्सदासङ्गो विरूपो निगुर्णोऽव्ययः ।।
स्मशानवासी विकटो व्यालग्राही दिगम्बरः ।। ३१ ।।
विभूतिभूषणो व्यालवरावेष्टितमस्तकः ।।
सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा ।। ३२ ।।
ब्रह्मोवाच ।।
इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ।।
जगाम स्वालयं शीघ्रन्नाना लीलाकरः शिवः ।।३३।।
तच्छ्रुत्वा विप्रवचनमभूताञ्च तनू तयोः ।।
विपरीतानर्थपरे किं करिष्यावहे ध्रुवम् ।। ३४ ।।
ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ।।
विवाहयित्वा गिरिजां देवकार्य्यं चकार सः ।। ३५ ।।
इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ।।
शिवावतारो हि मया देवकार्य्यकरः प्रभो ।।३६।।
इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ।।
यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात्।।३७।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।। षडशीत्यवताराः ( ८६)