शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

नन्दीश्वर उवाच ।।
शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ।।
मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ।।१।।
सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते।।
द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ।। २ ।।
तत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ।।
कालं च वाहयामासुस्सुखेन किल पाण्डवाः ।। ३ ।।
छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ।।
सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ।। ४ ।।
छात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ।।
भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ।।५।।
स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ।।
दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ।।६।।
अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ।।
दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ।।७।।
द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ।।
शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत्।।८।।
दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ।।
पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ।।९।।
अथ ते पाण्डवाः कृष्णं पप्रच्छुः किम्भविष्यति ।।
बलवाञ्छत्रुरुत्पन्नः किं कार्य्यन्तद्वद प्रभो ।।3.37.१०।।
नन्दीश्वर उवाच ।।
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ।।
स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ।। ११ ।।
श्रीकृष्ण उवाच ।।
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ।।
मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ।।१२।।
द्वारकां च मया गत्वा शत्रूणां विजिगीषया।।
विचार्य्य चोपदेशांश्च उपमन्योर्महात्मनः ।। १३ ।।
मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ।।
बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ।। १४ ।।
इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ।।
तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ।।१५।।
इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ।।
यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ।।१६।।
नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।।
द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम् ।। १७ ।।
पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ।।
गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च।। १८ ।।
सोपि सर्वं च तत्रत्यन्दुर्योधनगुणोदयम् ।।
समीचीनं च तज्ज्ञात्वापुनः प्राप प्रभून्प्रति।। १९ ।।
तदुक्तन्ते निशम्यैवं दुखम्प्रापुर्मुनीश्वर ।।
परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ।।3.37.२०।।
किङ्कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि।।
समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ।।२१।।
नन्दीश्वर उवाच ।।
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ।।
रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ।।२२।।
पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ।।
तेजसां च स्वयंराशिस्साक्षाद्धर्म इवापरः ।।२३।।
तन्दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ।।
दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ।।२४।।
तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः।।
स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ।। २५ ।।
तपश्चैव सुसन्तप्तं दानानि विविधानि च ।।
तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ।।२६।।
दुःखं च दूरतो जातन्दर्शनात्ते पितामह ।।
दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ।।२७ ।।
श्रीमतान्दर्शने जाते दुःखं चैव गमिष्यति ।।
कदाचिन्न गतं तत्र निश्चयोयं विचारितः ।। २८ ।।
महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ।।
यदि दुःखं न गच्छेतु दैवमेवात्र कारणम्।। २९ ।।
निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ।।
महतां च स्वभावोयं कल्पवृक्षसमो मतः ।। 3.37.३० ।।
तद्गुणानेव गणयेन्महतो वस्तुमात्रतः ।।
आश्रयस्य वशादेव पुंसो वै जायते प्रभो ।।३१।।
लघुत्वं च महत्त्वं च नात्र कार्य्या विचारणा ।।
उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम् ।। ३२ ।।
रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ।।
पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ।। ३३ ।।
अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ।।
एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा ।। ३४ ।।
त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ।।
दिशोपदेशं येनाशु दुःखं नष्टम्भवेच्च नः ।।३५।।
नन्दीश्वर उवाच ।।
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ।।
प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ।।३६ ।।
हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ।।
धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम्।।३७।।
सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ।।
धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ।। ३८ ।।
अस्माकं चैव यूयं च ते चापि समताङ्गताः ।।
तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ।। ३९ ।।
धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ।।
धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ।।3.37.४०।।
तस्य यूयं च ते चापि पुत्रा एव न संशयः।।
पितर्य्युपरते बाला अनुकंप्या महात्मनः ।।४१।।
पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ।।
अनर्थो नैव जायेत यच्चैवं च कृतन्तदा।।४२।।
अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ।।
अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ।।४३।।
तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ।।
यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ।। ४४ ।।
तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ।।
भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ।।४५।।
।। नन्दीश्वर उवाच।।
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः।।
युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ।।४६।।
पाण्डवा ऊचुः ।।
सत्यमुक्तन्त्वया नाथ दुष्टैर्दुःखं निरंतरम् ।।
दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ।।४७।।
तन्नाशयाशुभम्मेद्य किंचिद्देयं शुभं विभो ।।
कृष्णेन कथितं पूर्वमाराध्यश्शङ्करस्सदा ।। ४८ ।।
प्रमादश्च कृतोऽस्माभिस्तद्वचश्शिथिलीकृतम्।।
स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ।।४९।।
नन्दीश्वर उवाच।।
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ।।
उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदांबुजम् ।। 3.37.५० ।।
व्यास उवाच ।।
श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ।।
सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ।।५१ ।।
भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ।।
सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ।। ५२ ।।
।। नंदीश्वर उवाच ।।
अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ।।
अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ।। ५३ ।।
तपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ।।
पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ।। ५४ ।।
।। व्यास उवाच ।।
श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ।।
शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ।।५५।।
ब्रह्मादित्रिपरार्द्धान्तं यत्किंचिद्दृश्यते जगत् ।।
तत्सर्वं शिवरूपं च पूज्यन्ध्येयं च तत्पुनः ।। ५६ ।।
सर्वेषां चैव सेष्योसौ शङ्करस्सर्वदुःखहा ।।
शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः ।।५७।।
सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ।।
भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ।। ५८ ।।
तस्मात्सेव्यस्सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ।।
पुरुषश्शङ्करः साक्षाद्दुष्टहन्ता सतांगतिः ।।५९।।
परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ।।
क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ।।3.37.६०।।
अतोर्जुनश्च प्रथमं शक्रविद्यां जपेद्दृढः ।।
करिष्यति परीक्षाम्प्राक् संतुष्टस्तद्भविष्यति ।। ६१ ।।
सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ।।
पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ।। ६२ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ।।
स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ।। ६३ ।।
पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ।।
प्रत्युवाच च तं व्यासो धनंजयमुदारधीः ।। ६४ ।।
व्यास उवाच ।।
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ।।
जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ।। ६५ ।।
अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ।।
इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः ।। ६६ ।।
धर्म्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ।।
सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ।। ६७ ।।
नन्दीश्वर उवाच ।।
इति दत्त्वाशिषन्तेभ्यः पाण्डवेभ्यो मुनीश्वरः ।।
स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ।। ६८ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ।।३७।।