शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

नन्दीश्वर उवाच ।।
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ।।
नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम् ।। १ ।।
इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ।।
नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः ।। २ ।।
अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ।।
यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः ।। ३ ।।
पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ।।
तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः ।।४।।
नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ।।
चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः ।। ५ ।।
एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ।।
तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ।। ६ ।
स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ।।
अविषादं महाभागा पित्रादेशात्सुबुद्धयः ।। ७ ।।
स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ।।
नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात् ।। ८ ।।
भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ।।
दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने ।।९।।
नभग उवाच ।।
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ।।
सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च ।।3.29.१०।।
तदा विस्मृतमस्माभिरिदानीं पितरं तव ।।
विभजामो वयं भागं तं गृहाण न संशयः ।।११।।
तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ।।
तदोपकण्ठमागत्य पितरं समभाषत ।। १२ ।।
नभग उवाच ।।
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ।।
पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले।।१३।।
तत आगत्य मे पृष्टा दायदानार्थमादरात्।।
ते त्वामूचुर्विभागं मे तदर्थमहमागतः ।।१४।।
नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः।।
आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने ।।१५।।
मनुरुवाच ।।
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ।।
न ह्यहं परमं दायं सर्वथा भोगसाधनम् ।। १६ ।।
तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ।।
तव वै जीवनोपाय वदामि शृणु तत्त्वतः ।। १७ ।।
सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ।।
तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति ।।१८।।
तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ।।
सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत् ।।१९।।
तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ।।
धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम् ।।3.29.२०।।
नन्दीश्वर उवाच ।।
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ।।
जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ।। २१ ।।
तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ।।
सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ।। २२ ।।
समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ।।
तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ।। २३ ।।
तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ।।
विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ।। २४ ।।
सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ।।
भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ।। २५ ।।
अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ।।
उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ।। २६ ।।
ईश्वर उवाच ।।
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ।।
प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ।। २७ ।।
नन्दीश्वर उवाच ।।
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ।।
प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ।। २८ ।।
नभगः उवाच ।।
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ।।
कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम् ।। २९ ।।
नन्दीश्वर उवाच ।।
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ।।
प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ।। 3.29.३० ।।
कृष्णदर्शन उवाच ।।
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ।।
याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः ।। ३१ ।।
नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ।।
आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने ।। ३२ ।।
पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ।।
स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम् ।। ३३ ।।
मनुरुवाच ।।
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ।।
तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः ।। ३४ ।।
अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ।।
इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया ।। ३५ ।।
स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ।।
यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः ।। ३६ ।।
अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ।।
तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः ।। ३७।।
क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ।।
सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः ।। ३८ ।।
विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ।।
तदनुग्रहतस्तात समर्थः सर्वकर्मणि ।। ३९ ।।
किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ।।
प्रसादय महादेवं सर्वथा सकलेश्वरम् ।। 3.29.४० ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ।।
प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम् ।। ४१ ।।
नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ।।
प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः ।। ४२ ।।
नभग उवाच ।।
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ।।
इत्याह मे पिता नूनं किमुताध्वरशेषितम् ।। ४३ ।।
अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ।।
अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये ।। ४४ ।।
इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ।।
तुष्टाव तं महेशानं कृष्णदर्शनमानतः ।। ४५ ।।
श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ।।
तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत् ।। ४६ ।।
एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ।।
वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि ।। ४७ ।।
महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ।।
तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक् ।।४८।।
अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान्।।
उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः ।। ४९ ।।
कृष्णदर्शन उवाच ।।
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ।।
त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः ।।3.29.५०।।
अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ।।
ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम् ।। ५१ ।।
महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ।।
गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना ।। ५२ ।।
इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ।।
सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम ।। ५३ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ।।
सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः ।। ५४ ।।
विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ।।
स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा ।। ५५ ।।
सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ।।
भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ ।। ५६ ।।
इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ।।
कृष्णदर्शननामा वै नभगानन्ददायकः ।।५७।।
इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ।।
पठतां शृण्वतां वापि सर्व कामफलप्रदम् ।। ५८ ।।
य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ।।
कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम् ।। ५९ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः।।२९।।