शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

नन्दीश्वर उवाच ।।
शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ।।
अवतारं पुरानन्दं यातिनाथाह्वयं मुने ।।१।।
अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ।।
आहुकश्च तदभ्याशे वसतिस्म मुनीश्वर ।। २ ।।
तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ।।
उभावपि महाशैवावास्तान्तौ शिवपूजकौ ।।३।।
कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ।।
आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने ।।४।।
एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः।।
भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ ।।५।।
तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ।।
पूजनं च यतीशस्य चकार प्रेमतः सुधीः ।।६।।
तद्भावस्य परीक्षार्थं यतिरूपस्स शंकरः।।
महालीलातरः प्रीत्या भीतं प्रोवाच दीनगीः ।।७।।
यतिनाथ उवाच ।।
अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ।।
यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा ।।८।।
भिल्ल उवाच ।।
त्यम्प्रोक्तं त्वया स्वामिञ्शृणु मद्वचनं च ते ।।
अति स्वल्पं स्थलं मे हि स्यान्निवासः कथन्तव।।९।।
नन्दीश्वर उवाच ।।
इत्युक्तस्स यतिस्तेन गमनाय मतिन्दधे ।।
तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य्य वै ।।3.28.१०।।
भिल्ल्युवाच।।
स्वामिन्देहि यतेःस्थानं विमुखं कुरु मातिथिम् ।।
गृहधर्मं विचार्य्य त्वमन्यथा धर्मसंक्षयः ।। ११ ।।
स्थीयतान्ते गृहाभ्यंतः सुखेन यतिना सह ।।
अहं बहिः स्थितिं कुर्य्यामायुधानि बृहन्त्यपि।।१२।।
नन्दीश्वर उवाच।।
तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ।।
स्वपत्न्या मनसा तेन भिल्लेन च विचारितम् ।।१३।।
स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया बहे ।।
यतेरन्यत्र गमनमधर्म्मकरमात्मनः ।। १४ ।।
द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ।।
यद्भावि तद्भवेदेव मया स्थेयं गृहाद्बहिः ।।१५।।
इत्याग्रहन्तदा कृत्वा गृहान्तः स्थाय तौ मुदा ।।
स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद्गृहाद्बहिः ।। १६ ।।
रात्रौ तम्पशवः क्रूरा हिंसकाः समपीडयन् ।।
तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा ।।१७।।
एवं यत्नं प्रकुर्वाण स भिल्लो बलवानपि ।।
प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः ।।१८।।
प्रातरुत्थाय स यतिर्दृष्ट्वा हिंस्रैश्च भक्षितम् ।।
भिल्लं वने चरंतं वै दुःखितोऽभूदतीव हि ।१९।।
दुखितं तं यतिन्दृष्ट्वा भिल्ली सा दुःखितापि हि ।।
धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत् ।। 3.28.२० ।।
भिल्ल्युवाच ।।
किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ।।
धन्योयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः ।। २१ ।।
अहं चैनं गमिष्यामि भस्म भूत्वानले यते ।।
चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः ।। २२ ।।
इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ।।
चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः ।। २३ ।।
एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ।।
धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत् ।। २४ ।।
हर उवाच ।।
वरं ब्रूहि प्रसन्नोस्मि त्वदाचरणतोऽनघे ।।
तवादेयं न वै किंचिद्वश्योऽहं ते विशेषतः ।।२५।।
नन्दीश्वर उवाच ।।
तच्छुत्वा शम्भुवचनं परमानन्ददायकम् ।।
सुखं प्राप्तं विशेषेण न किंचित्स्मरणं ययौ।।२६।।
तस्यास्तद्गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ।।
उवाच च पुनः शम्भुर्वरं ब्रूहीति ताम्प्रभुः ।। २७।।
शिव उवाच ।।
अयं यतिश्च मद्रूपो हंसरूपो भविष्यति ।।
परजन्मनि वां प्रीत्या संयोग कारयिष्यति ।। २८ ।
भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ।।
महान्पुत्रो नलो नाम भविष्यति न संशयः ।। २९ ।।
त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे।।
दमयन्ती च विख्याता भविष्यसि गुणान्विता ।। 3.28.३० ।।
युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ।।
भुक्त्वा मुक्तिं च योगीन्द्रेर्लप्स्येथे दुर्लभां ध्रुवम् ।। ३१ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा च स्वयं शम्भुर्लिङ्गरूपोऽभवत्तदा ।।
तस्मान्न चलितो धर्मादचलेश इति स्मृतः ।। ३२ ।।
स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ।।
नैषधे नगरे तात नलनामा महानृपः ।।३३।।
आहुका सा महाभिल्ली भीमस्य तनयाऽभवत् ।।
वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता ।। ३४ ।।
यतिनाथाह्वयस्सोपि हंसरूपोऽभवच्छिवः ।।
विवाहं कारयामास दमयन्त्या नलेन वै ।। ३५ ।।
पूर्वसत्काररूपेण महापुण्येन शंकरः ।।
हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः ।। ३६ ।।
शिवो हंसावतारो हि नानावार्ताविचक्षणः ।।
दमयन्त्या नलस्यापि परमानन्ददायकः ।। ३७ ।।
इदं चरितं परमं पवित्रं शिवावतारस्य पवित्रकीर्तेः ।।
यतीशसंज्ञस्य महाद्भुतं हि हंसाह्वयस्यापि विमुक्तिदं हि ।। ३८ ।।
यतीशब्रह्महंसाख्यावतारचरितं शुभम् ।।
शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम्।।३९।।
इदमाख्यानमनघं सर्वकामफलप्रदम् ।।
स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम्।।3.28.४०।।
श्रुत्वैतच्चचरितं शम्भोर्यतिहंसस्वरूपयोः ।।
इह सर्वसुखम्भुक्त्वा सोऽन्ते शिवपुरं व्रजेत् ।। ४१ ।।
इति श्रीशिवमहापुराणे तृ० शतरुद्रसंहि० यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ।। २८ ।।