शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

नन्दीश्वर उवाच ।।
शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ।।
अवधूतेश्वराह्वं वै शक्रगर्वापहारकम् ।। १ ।।
शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ।।
दर्शनं कर्तुमीशस्य कैलासमगमन्मुने ।। २ ।।
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरस्तयोः ।।
परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः ।। ३ ।।
अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ।।
दिगंबरो महाभीमो ज्वलदग्निसमप्रभः ।। .४ ।।
सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ।।
लंबमानपटः शंभुरतिष्ठच्छोभिताकृतिः ।।५।।
अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ।।
अद्राष्टांपुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ।।६।।
अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ।।
पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ।।७।।
शक्र उवाच ।।
कस्त्वं दिगंबराकारावधूतः कुत आगतः ।।
किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम् ।।८।।
स्वस्थाने संस्थितः शंभुः किम्वान्यत्र गतोऽधुना ।।
दर्शनार्थं हि तस्याहं गच्छामि सगुरुस्सुरैः ।। ९ ।।
नन्दीश्वर उवाच ।।
शक्रेणेत्थं स पृष्टश्च किंचिन्नोवाच पूरुषः ।।
लीलागृहीतदेहस्स शङ्करो मदहा प्रभुः ।। 3.30.१० ।।
शक्रः पुनरपृच्छत्तं नोवाच स दिगंबरः ।।
अविज्ञातगतिश्शम्भुर्महाकौतुककारकः ।। ११ ।।
पुनः पुरन्दरोऽपृच्छ्त्त्रैलोक्याधिपतिस्स्वराट् ।।
तूष्णीमास महायोगी महालीलाकरस्स वै ।। १२ ।।
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ।।
नोवाच किंचिद्भगवाञ्शक्रदर्प्पजिघांसया ।। १३ ।।
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्य्यगर्वितः ।।
उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम् ।। १४ ।।
इन्द्र उवाच ।।
पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ।।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ।। १५ ।।
इत्युदीर्य्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ।।
हन्तुन्दिगम्बरं वज्रमुद्यतं स चकार ह ।। १६ ।।
वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ।।
चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ।। १७ ।।
ततः स पुरुषः कुद्धः करालाक्षो भयंकरः ।।
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ।। १८ ।।
बाहुप्रतिष्टम्भभुवा मन्युनान्तश्शचीपतिः ।।
समदह्यत भोगीव मंत्ररुद्धपराक्रमः ।।१९।।
दृष्ट्वा वृहस्पतिस्त्वेनम्प्रज्वलन्तं स्वतेजसा ।।
पुरुषं तं धियामास प्रणनाम हरं द्रुतम्।। 3.30.२० ।।
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ।।
दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः ।। २१ ।।
गुरुरुवाच ।।
देवदेव महादेव शरणागतवत्सल ।।
प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते ।। २२ ।।
मायया मोहितास्सर्वे ब्रह्मविष्ण्वादयोपि ते ।।
त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात् ।। २३ ।।
नन्दीश्वर उवाच ।।
बृहस्पतिरिति स्तुत्वा स तदा शंकरम्प्रभुम् ।।
पादयोः पातयामास तस्येशस्य पुरन्दरम् ।। २४ ।।
ततस्तात सुराचार्य्यः कृताञ्जलिरुदारधीः ।।
बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः।।२५।।
बृहस्पतिरुवाच।।
दीननाथ महादेव प्रणतन्तव पादयोः ।।
समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु।।२६।।
तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ।।
वह्निरेष समायाति भालनेत्रसमुद्भवः ।। २७ ।।
।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ।।
उवाच करुणासिंधुर्विहसन्स सदूतिकृत् ।। २८ ।।
अवधूत उवाच ।।
क्रोधाच्च निस्सृतन्तेजो धारयामि स्वनेत्रतः ।।
कथं हि कंचुकीं सर्पस्संधत्ते चोज्ज्ञितां पुनः ।। २९ ।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ।।
उवाच साञ्जलिर्भूयो भयव्याकुलमानसः ।। 3.30.३० ।।
।। बृहस्पतिरुवाच ।।
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ।।
भक्तवत्सलनामेति स्वं सत्यं कुरु शंकर ।।३१।।
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।।
उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम् ।। ३२ ।।
नन्दीश्वर उवाच ।।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।।
प्रत्युवाच प्रसन्नात्मा सुरेज्यम्प्रणतार्तिहा ।।३३।।
रुद्र उवाच ।।
प्रीतस्तेहं सुराचार्य्य ददामि वरमुत्तमम् ।।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथाम्व्रज ।। ३४ ।।
समुद्भूतोऽनलो योयं भालनेत्रात्सुरा सहः ।।
एनन्त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ।। ३५ ।।
।। नन्दीश्वर उवाच ।।
इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ।।
भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि ।। ३६ ।।
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ।।
क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह ।। ३७ ।।
स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ।।
तं जघान महेशानो देवप्रार्थनया प्रभुः ।।३८।।
इत्थं कृत्वा सुचरितं शंकरो लोकशंकरः ।।
अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत् ।। ३९ ।।
बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ।।
गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम्।। 3.30.४० ।।
यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ।।
कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा।।४१।।
अवधूतेश्वराह्वोऽवतारस्ते कथितो मया।।
परमेशस्य परमानन्ददः खलदण्डदः।।४२।।
इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ।।
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम् ।। ४३ ।।
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।।
इह सर्वसुखं भुक्त्वा सोन्ते शिवगतिं लभेत् ।। ४४ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दी श्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ।। ३० ।।