शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

नन्दीश्वर उवाच।।
पिप्पलादाख्यपरममवतारं महेशितुः ।।
शृणु प्राज्ञ महाप्रीत्या भक्तिवर्धनमुत्तमम्।।१।।
यः पुरा गदितो विप्रो दधीचिर्मुनिसत्तमः ।।
महाशैवस्सुप्रतापी च्यावनिर्भृगुवंशजः।।२।।
क्षुवेण सह संग्रामे येन विष्णुः पराजितः।।
सनिर्जरोऽथ संशप्तो महेश्वरसहायिना।।३।।
तस्य पत्नी महाभागा सुवर्चा नामनामतः।।
महापतिव्रता साध्वी यया शप्ता दिवौकसः ।।४।।
तस्मात्तस्यां महादेवो नानालीलाविशारदः ।।
प्रादुर्बभूव तेजस्वी पिप्पलादेति नामतः ।।५।।
सूत उवाच ।।
इत्याकर्ण्य मुनिश्रेष्ठो नन्दीश्वरवचोऽद्भुतम्।।
सनत्कुमारः प्रोवाच नतस्कन्धः कृताञ्जलिः ।।६।।
सनत्कुमार उवाच ।।
नन्दीश्वर महाप्राज्ञ साक्षाद्रुद्रस्वरूपधृक् ।।
धन्यस्त्वं सद्गुरुस्तात श्रावितेयं कथाद्भुता ।।७।।
क्षुवेण सह संग्रामे श्रुतो विष्णुपुरा जयः ।।
ब्रह्मणा मे पुरा तात तच्छापश्च शिलादज ।।८।।
अधुना श्रोतुमिच्छामि देवशापं सुवर्चया।।
दत्तं पश्चात्पिप्पलादचरितं मङ्गलायनम् ।।९।।
सूत उवाच ।।
इति श्रुत्वाथ शैलादिर्विधिपुत्रवचश्शुभम् ।।
प्रत्युवाच प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम्।।3.24.१०।।
नन्दीश्वर उवाच ।।
एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ।।
वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ।।११।।
स्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ।।
निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः ।। १२ ।।
तदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः।।
ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत् ।।१३।।
तच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ।।
सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ।। १४ ।।
भवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ।।
वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ।। १५ ।।
अथ प्रयत्नः क्रियतां भवेदस्य वधो यथा ।।
तत्रोपायं शृणु प्राज्ञ धर्महेतोर्वदामि ते ।।१६।।
महामुनिर्दधीचिर्यस्स तपस्वी जितेन्द्रियः ।।
लेभे शिवं समाराध्य वज्रास्थित्ववरम्पुरा ।।१७।।
तस्यास्थीन्येव याचध्वं स दास्यति न संशय ।।
निर्माय तैर्दण्डवज्रं वृत्रं जहि न संशयः ।।१८।।
नन्दीश्वर उवाच।।
तच्छ्रुत्वा ब्रह्मवचनं शक्रो गुरुसमन्वितः।।
आगच्छत्सामरः सद्यो दधीच्याश्रममुत्तमम् ।। १९ ।।
दृष्ट्वा तत्र मुनिं शक्रः सुवर्चान्वितमादरात् ।।
ननाम साञ्जलिर्नम्रः सगुरुः सामरश्च तम् ।।3.24.२०।।
तदभिप्रायमाज्ञाय स मुनिर्बुधसत्तमः ।।
स्वपत्नीं प्रेषयामास सुवर्चां स्वाश्रमान्तरम् ।।२१।।
ततस्स देवराजश्च सामरः स्वार्थसाधकः ।।
अर्थशास्त्रपरो भूत्वा मुनीशं वाक्यमब्रवीत् ।। २२ ।।
शक्र उवाच ।।
त्वष्ट्रा विप्रकृताः सर्वे वयन्देवास्तथर्षयः ।।
शरण्यं त्वां महाशैवं दातारं शरणं गताः ।। २३ ।।
स्वास्थीनि देहि नो विप्र महावज्रमयानि हि ।।
अस्थ्ना ते स्वपविं कृत्वा हनिष्यामि सुरद्रुहम् ।। २४ ।।
इत्युक्तस्तेन स मुनिः परोपकरणे रतः ।।
ध्यात्वा शिवं स्वनाथं हि विससर्ज कलेवरम् ।। २५।।
ब्रह्मलोकं गतस्सद्यस्स मुनिर्ध्वस्तबन्धनः ।।
पुष्पवृष्टिरभूत्तत्र सर्वे विस्मयमागताः ।।२६।।
अथ गां सुरभिं शक्र आहूयाशु ह्यलेहयत् ।।
अस्त्रनिर्मितये त्वाष्ट्रं निदि देश तदस्थिभिः ।। २७ ।।
विश्वकर्मा तदाज्ञप्तश्चक्लृपेऽस्त्राणि कृत्स्नशः ।।
तदस्थिभिर्वज्रमयस्सुदृढैश्शिववर्चसा ।। २८ ।।
वंशोद्भवं वज्रं शरो ब्रह्मशिरस्तथा।।
अन्यास्थिभिर्बहूनि स्वपराण्यस्त्राणि निर्ममे ।।२९।।
तमिन्द्रो वज्रमुद्यम्य वर्द्धितः शिववर्चसा ।।
वृत्रमभ्यद्रवत्क्रुद्धो मुने रुद्र इवान्तकम् ।।3.24.३०।।
ततः शक्रस्सुसन्नद्धस्तेन वज्रेण स द्रुतम् ।।
उच्चकर्त शिरो वार्त्रं गिरिशृंगमिवौजसा ।। ३१ ।।
तदा समुत्सवस्तात बभूव त्रिदिवौकसाम्।।
तुष्टुवुर्निर्जराश्शक्रम्पेतुः कुसुमवृष्टयः ।।३२।।
इति ते कथितन्तात प्रसंगाच्चरि तन्त्विदम्।।
पिप्पलादावतारम्भे शृणु शम्भोर्महादरात्।।३३।।
सुवर्चा सा मुनेः पत्नी दधीचस्य महात्मनः ।।
ययौ स्वमाश्रमाभ्यन्तस्तदाज्ञप्ता पतिव्रता ।।३४।।
आगत्य तत्र सा दृष्ट्वा न पतिं स्वन्तपस्विनी ।।
गृहकार्यं च सा कृत्वाखिलम्पतिनिदेशतः ।। ३५ ।।
आजगाम पुनस्तत्र पश्यन्ती बह्वशोभनम् ।।
देवांश्च तान्मुनिश्रेष्ठ सुवर्चा विस्मिताभवत्।।३६।।
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीञ्च चुकोप साध्वी ।।
ददौ तदा शापमतीव रुष्टा तेषां सुवर्चा ऋषिवर्यभार्या ।।३७।।
सुवर्चोवाच ।।
अहो सुरा द्रुष्टतराश्च सर्वे स्वकार्यदक्षा ह्यबुधाश्च लुब्धाः ।।
तस्माच्च सर्वे पशवो भवन्तु सेन्द्राश्च मेऽद्यप्रभृतीत्युवाच ।।३८।।
एवं शापन्ददौ तेषां सुराणां सः तपस्विनी ।।
सशक्राणां च सर्वेषां सुवर्चा मुनिकामिनी ।।३९।।
अनुगन्तुम्पतेर्लोकमथेच्छत्सा पतिव्रता।।
चितां चक्र समेधोभिः सुपवित्रैर्मनस्विनी ।। 3.24.४० ।।
ततो नभोगिरा प्राह सुवर्चान्ताम्मुनिप्रियाम् ।।
आश्वासयन्ती गिरिशप्रेरिता सुखदायिनी ।। ४१ ।।
आकाशवाण्युवाच ।।
साहसं न कुरु प्राज्ञे शृणु मे परमं वचः ।।
मुनितेजस्त्वदुदरे तदुत्पादय यत्नतः ।।४२।।
ततः स्वाभीष्टचरणन्देवि कर्तुन्त्वमर्हसि ।।
सगर्भा न दहेद्गात्रमिति ब्रह्मनिदेशनम् ।।४३।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा सा नभोवाणी विरराम मुनीश्वर ।।
तां श्रुत्वा सा मुनेः पत्नी विस्मिताभूत्क्षणं च सा।।४४।।
सुवर्चा सा महासाध्वी पतिलोकमभीप्सती।।
उपविश्याश्मना भूयः सोदरं विददार ह।।४५।।
निर्गतो जठरात्तस्या गर्भो मुनिवरस्य सः।।
महादिव्यतनुर्दीप्तो भासयंश्च दिशोदश।।४६।।
साक्षाद्रुद्रावतारोऽसौ दधीच वरतेजसः।।
प्रादुर्भूतस्स्वयन्तात स्वलीलाकरणे क्षमः।।४७।
तन्दृष्ट्वा स्वसुतन्दिव्यं स्वरूपम्मुनिकामिनी।।
सुवर्चाज्ञाय मनसा साक्षाद्रुद्रावतारकम्।।४८।।
प्रहृष्टाभून्महासाध्वी प्रणम्याशु नुनाव सा।।
स्वहृदि स्थापयामास तत्स्वरूपम्मुनीश्वर।।४९।।
सुवर्चा तनयं तं च प्रहस्य विमलेक्षणा।।
जननी प्राह सुप्रीत्या पतिलोकमभीप्सती ।। 3.24.५० ।।
सुवर्चोवाच।।
हे तात परमेशान चिरन्तिष्ठास्य सन्निधौ ।।
अश्वत्थस्य महाभाग सर्वेषां सुखदो भवेः।।५१।।
मामाज्ञापय सुप्रीत्या पतिलोकाय चाधुना ।।
तत्रस्थाहं च पतिना त्वां ध्याये रुद्ररूपिणम्।।५२।।
नन्दीश्वर उवाच ।।
इत्येवं सा बभाषेऽथ सुवर्चा तनयम्प्रति ।।
पतिमन्वगमत्साध्वी परमेण समाधिना ।। ९३ ।।
एवन्दधीचपत्नी सा पतिना संगता मुने ।।
शिवलोकं समासाद्य सिषेवे शङ्करम्मुदा ।।५४ ।।
एतस्मिन्नन्तरे देवास्सेन्द्राश्च मुनिभिस्सह ।।
तत्राजग्मुस्त्वरा तात आहूता इव हर्षिताः ।। ५५ ।।
हरिर्ब्रह्मा च सुप्रीत्यावतीर्णं शंकरं भुवि ।।
सुवर्चायां दधीचाद्वा ययतुस्स्वगणैस्सह ।।५६।।
तत्र दृष्ट्वावतीर्णन्तं मुनिपुत्रत्वमागतम् ।।
रुद्रं सर्वे प्रणेमुश्च तुष्टुवुर्बद्धपाणयः ।। ५७।।
तदोत्सवो महानासीद्देवानां मुनिसत्तम ।।
नेदुर्दुन्दुभयस्तत्र नर्तक्यो ननृतुर्मुदा ।।५८।।
जगुर्गन्धर्वपुत्राश्च किन्नरा वाद्यवादकाः ।।
वादयामासुरमराः पुष्प वृष्टिं च चक्रिरे ।।५९।।
पिप्पलस्य शर्वपितुर्विलसन्तं सुतं च तम्।।
संस्कृत्य विधिवत्सर्वे विष्ण्वाद्यास्तुष्टुवुः पुनः ।। 3.24.६० ।
पिप्पलादेति तन्नाम चक्रे ब्रह्मा प्रसन्नधीः ।।
प्रसन्नो भव देवेश इत्यूचे हरिणा सुरैः ।। ६१ ।।
इत्युक्त्वा तमनुज्ञाय ब्रह्मा विष्णुस्सुरास्तथा ।।
स्वंस्वं धाम ययुस्सर्वे विधाय च महोत्सवम् ।। ६२ ।।
अथ रुद्रः पिप्पलादोऽश्वत्थमूले महाप्रभुः ।।
तताप सुचिरं कालं लोकानां हितकाम्यया।।६३।।
इत्थं सुतपतस्तस्य पिप्पलादस्य सम्मुखे।।
महाकालो व्यतीयाय लोकचर्यानुसारिणः ।।६४।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारवर्णनं नाम चतुर्विशोऽध्यायः ।। २४ ।।