शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

नन्दीश्वर उवाच ।।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ।।
महालीलां चकारेशस्तामहो सन्मुने शृणु ।। १ ।।
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।।
ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ।।२।।
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ।।
जगाम भुवनाचारी लोकतत्त्वविचक्षणः ।। ३ ।।
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ।।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।। ४ ।।
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ।।
मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ।। ५ ।।
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ।।
अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ।।६।।
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ।।
तेजसा पिप्पलादस्य दाधीचस्य महामुने ।। ७ ।।
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ।।
कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ।। ८ ।।
पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ।।
पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ।। ९ ।।
तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ।।
उवाच नार्या स तया तपस्वीनातिलम्पटः ।।3.25.१०।।
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।।
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ।। ११।।
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ।।
रेमे तया युवत्या च युवाभूय स्वलीलया ।। १२ ।।
दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ।।
मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ।।१३।।
एवं लीलावतारो हि शंकरस्य महाप्रभोः ।।
पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ।। १४ ।।
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ।।
दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ।। १५ ।।
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ।।
तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ।। १६ ।।
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ।।
तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ।। १७ ।।
इति तद्भयतस्तात विकृतोपि शनैश्चरः ।।
तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ।। १८ ।।
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ।।
कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ।। १९ ।।
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ।।
शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ।। 3.25.२० ।।
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ।।
यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ।। २१ ।।
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ।।
यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ।। २२ ।।
धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ।।
अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ।। २३ ।।
इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ।।
सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ।। २४ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।।