शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

नन्दीश्वर उवाच ।।
ततो वृषभरूपेण गर्जमानः पिनाकधृक् ।।
प्रविष्टो विवरं तत्र निनदन्भैरवान्रवान् ।। १ ।।
निपेस्तुतस्य निनदैः पुराणि नगराणि च ।।
प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम् ।। २ ।।
ततो वृषो हरेः पुत्रान्संग्रामोद्यतकार्मुकान् ।।
शिवमायाविमूढात्ममहाबलपराक्रमान् ।। ३ ।।
हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ।।
प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराश्शंकरसन्मुखम् ।। ४ ।।
आयातांस्तान्हरेः पुत्रान्रुद्रो वृषभरूपधृक् ।।
प्राकुप्यद्विष्णुपुत्रांश्च खुरैश्शृंगैर्व्यदारयत् ।। ५ ।।
विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ।।
नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ।। ६ ।।
हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ।।
निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम् ।। ७ ।।
दृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम्।।
शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः।। ८।।
ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ।।
अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ।।९।।
अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ।।
विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ।।3.23.१०।।
तत विष्णोश्च तरसा खुरैश्शृंगैर्व्यदारयत् ।।
विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम्।।११।।
ततस्स शिथिलात्मा हि व्यथितांगो बभूव ह।।
तत्प्रहारमसह्याशु हरिर्मायाविमोहितः।।१२।।
गतगर्वोहरिश्चैव विचेता गतचेतनः।।
ज्ञातवान्परमेशानं विहरन्तं वृषात्मना।।१३।।
अथ विज्ञाय गौरीशमागतं वृषरूपतः ।।
प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः ।।१४।।
हरिरुवाच ।।
देवदेव महादेव करुणासागर प्रभो।।
मायया ते महेशान मोहितोहं विमूढधीः ।।१५।।
कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ।।
कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम् ।। १६ ।।
नन्दीश्वर उवाच ।।
तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ।।
भगवाञ्छंकरः प्राह रमेशं भक्तवत्सलः ।।१७।।
हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ।।
युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्व्वं च विस्मृतम्।।१८।।
आत्मानं किन्न जानासि मदधीनपराक्रमम् ।।
त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः ।। १९ ।।
कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ।।
नोचितन्तव देवेश स्मरणं विश्वतारणम्।।3.23.२०।।
तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात्।।
व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम्।।२१।।
विष्णुरुवाच।
ममात्र विद्यते चक्रं तद्गृहीत्वे तदादरात्।।
गमिष्यामि स्वलोकन्तन्त्वदाज्ञापरिपालकः ।।२२।।
नन्दीश्वर उवाच ।।
तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ।।
प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम् ।।२३।।
न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते।।
मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम्।।२४।।
सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि।।
अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते ।। २५ ।।
नन्दीश्वर उवाच ।।
एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ।।
परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम् ।। २६ ।।
विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ।।
सर्वामरमुनीन्द्राणां रक्षकाय महात्मने ।। २७ ।।
लब्ध्वा सुदर्शनं चान्यञ्चक्रं परमदीप्तिमित् ।।
उवाच विबुधांस्तत्र विष्णुर्बुद्धिमतां वरः ।। २८ ।।
सर्वदेववरा यूयं मद्वाक्यं शृणुतादरात् ।।
कर्तव्यन्तत्तथा शीघ्रं ततश्शं वो भविष्यति ।।२९।।
दिव्या वरांगनास्सन्ति पाताले यौवनान्विताः।।
ताभिः सार्द्धं महाक्रीडां यः करोतु करोतु सः।।3.23.३०।।
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ।।
प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह ।।३१।।
विचारमथ विज्ञाय तन्तदा भगवान्हर ।।
क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च ।। ३२ ।।
हर उवाच ।।
वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ।।
इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ।।३३।।
श्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ।।
प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः ।। ३४ ।।
एवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ।।
स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत् ।। ३५ ।।
वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ।।
इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ।। ३६ ।।
वृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ।।
विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः ।। ३७ ।।
पवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ।।
स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ।। ३८ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ।।
स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ।।
तथा पठिति यो हीदं पाठयेत्सुधियो नरान् ।।३९।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं नाम त्रयोविंशोऽध्यायः ।।२३।।