शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २२
← अध्यायः २१ | शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता) अध्यायः २२ वेदव्यासः |
अध्यायः २३ → |
नन्दीश्वर उवाच ।।
शृणु ब्रह्मसुत प्राज्ञ वृषेशाख्यं मुनीश्वर ।।
शिवावतारं सल्लीलं हरिगर्वहरं वरम् ।। १ ।।
पुरा देवासुराः सर्वे जरामृत्युभयार्दिताः ।।
परस्परं च संधाय रत्नान्यादित्सवोऽभवन् ।। २ ।।
ततः सुराऽसुराः सर्वे क्षीरोदं सागरोत्तमम् ।।
उद्यता मथितुं तं च बभूवुर्मुनि नन्दन ।। ३ ।।
आसञ्छुचिस्मितास्सर्वे केनेदं मन्थनं भवेत् ।।
स्वकार्यसिद्धये तस्य ब्रह्मन्निति सुरासुराः ।। ४ ।।
तदा नभोगता वाणी मेघगम्भीरनिस्वना ।।
उवाच देवान्दैत्यांश्च श्वासयन्तीश्वराज्ञया ।। ५ ।।
नभोवाण्युवाच ।।
हे देवा असुराश्चैव मन्थध्वं क्षीरसागरम् ।।
भवताम्बलबुद्धिर्हि भविष्यति न संशयः ।। ६ ।।
मन्दरं चैव मन्थानं रज्जुं कुरुत वासुकिम् ।।
मिथस्सर्वे मिलित्वा तु मंथनं कुरुतादरात् ।। ७ ।।
नन्दीश्वर उवाच ।।
नभोगता तदा वाणीं निशम्याथ सुरासुरः ।।
उद्योगं चक्रिरे सर्वे तत्कर्तुं मुनिसत्तम ।। ८ ।।
सुसन्धायाखिलास्ते वै [१]मन्दरम्पर्वतोत्तमम् ।।
कनकाभं च सरलं नानाशोभार्चितं ययुः ।। ९ ।।
सुप्रसाद्य गिरीशं तं तदाज्ञप्ताः सुरासुराः ।।
बलादुत्पाटयामासुर्नेतुकामाः पयोऽर्णवम् ।। 3.22.१० ।।
भुजैरुत्पाट्य ते सर्व्वे जग्मुः क्षीरार्णव पुरे ।।
अशक्ता अभवंस्तत्र तमानेतुं हतौजसः ।। ११ ।।
तद्भुजैस्स परिभ्रष्टः पतितो मंदरो गिरिः ।।
सहसातिगुरुस्सद्यो देवदैत्योपरि ध्रुवम्।।१२।।
एवम्भग्नोद्यमा भग्नाः सम्बभूवुस्सुरासुरा।।
चेतनाः प्राप्य च ततस्तुष्टुवुर्जगदीश्वरम् ।।१३।।
तदिच्छयोद्यतास्सर्वे पुनरुत्थाय तं गिरिम्।।
निचिक्षिपुर्जले नीत्वा क्षीरोदस्योत्तरे तटे ।। १४ ।।
ततस्सुरासुरगणा रज्जुं कृत्वा च [२]वासुकिम् ।।
रत्नान्यादातुकामास्ते ममंथुः क्षीरसागरम् ।। १५ ।।
क्षीरोदे मथ्यमाने तु श्रीस्स्वर्लोकमहेश्वरी ।।
समुद्भूता समुद्राच्च भृगुपुत्री हरिप्रिया ।।१६।।
धन्वन्तरिः शशांकश्च पारिजातो महाद्रुमः ।।
उच्चैश्श्रवाश्च तुरगो गज ऐरावतस्तथा ।।१७।।
सुरा हरिधनु श्शङ्खो गावः कामदुघास्ततः ।।
कौस्तुभाख्यो मणिश्चैव तथा पीयूषमेव च ।।१८।।
पुनश्च मथ्यमाने तु कालकूटं महाविषम् ।।
युगान्तानलभ जातं सुरासुरभयावहम ।। १९ ।।
पीयूषजन्मकाले तु बिन्दवो ये बहिर्गताः ।।
तेभ्यः कान्ता समुद्भूता बह्वयो ह्यद्भुतदर्शनाः ।।3.22.२०।।
शरत्पूर्णेन्दुवदनास्तडित्सूर्य्यानलप्रभाः ।।
हारकेयूरकटकैर्दिव्यरत्नैरलङ्कृताः ।।२१।।
लावण्यामृततोयेन तास्सिंचन्त्यो दिशो दश ।।
जगदुन्मादयन्त्येव भ्रूभङ्गायतवीक्षणाः ।। २२ ।।
कोटिशस्तास्समुत्पन्नास्त्वमृतात्कामनिस्सृताः ।।
ततोऽमृतं समुत्पन्नं जरामृत्युनिवारणम् ।। २३ ।।
लक्ष्मीं शंखं कौस्तुभं च खड्गं जग्राह केशवः ।।
जग्राहार्को हयं दिव्यमुच्चैःश्रवसमादरात् ।। २४ ।।
पारिजातं तरुवरमैरावतमिभेश्वरम् ।।
शचीपतिश्च जग्राह निर्जरेशो महादरात ।। २५ ।।
कालकूटं शशांकं च देवत्राणाय शंकरः ।।
स्वकण्ठे धृतवाञ्छम्भुस्स्वेच्छया भक्तवत्सलः ।। २६ ।।
दैत्यास्सुराख्यां रमणीमीश्वराज्ञाविमोहिताः ।।
जगृहुः सकला व्यास सर्वे धन्वन्तरिं जनाः।।२७।।
जगृहुर्मुनयस्सर्वे कामधेनुम्मुनीश्वराः ।।
सामान्यतस्त्रियस्ताश्च स्थिता आसन्विमोहिताः ।।२८।।
अमृतार्थं महायुद्धं संबभूव जयैषिणाम्।।
सुराणामसुराणां च मिथः संक्षुब्धचेतसाम् ।।२९।।
हृतं सोमं च दैतेयैर्बलाद्देवान्विजित्य च ।।
बलिप्रभृतिभिर्व्यास युगान्ताग्न्यर्कसुप्रभैः ।। 3.22.३० ।।
देवाश्शंकरमापन्ना विह्वलाश्शिवमायया ।।
सर्वे शक्रादयस्तात दैतेयैरर्दिता बलात् ।। ३१ ।।
ततस्तदमृतं यत्नात्स्त्रीस्वरूपेण मायया ।।
शिवाज्ञया रमेशेन दैत्येभ्यश्च हृतम्मुने ।।३२।।
अपाययत्सुरांस्तांश्च मोहिनीस्त्रीस्वरूपधृक् ।।
मोहयित्वा सुरान्सर्वान्हरिर्मायाविनां वरः।।३३।।
गत्वा निकटमेतस्या ऊचिरे दैत्यपुंगवाः ।।
पाययस्व सुधामेतां मा भूद्भेदोऽत्र पंक्तिषु।।३४।।
एतदुक्त्वा ददुस्तस्मै विष्णवे छलरूपिणे ।।
ते दैत्या दानवाः सर्वे शिवमायाविमोहिताः ।।३५।।
एतस्मिन्नन्तरे दृष्ट्वा स्त्रियो दानवपुंगवाः ।।
अनयन्नमृतोद्भूता यथास्थानं यथासुखम् ।।३६।।
तासाम्पुराणि दिव्यानि स्वर्गाच्छगुणान्यपि।।
घोरैर्यन्त्रैस्सुगुप्तानि मयमायाकृतानि च।।३७।।
सुरक्षितानि सर्वाणि कृत्वा युद्धाय निर्ययुः।।
अस्पृष्टवक्षसो दैत्याः कृत्वा समयमेव हि।।३८।।
न स्पृशामः स्त्रियश्चेमा यदि देवैर्विनिर्जिताः ।।
इत्युक्त्वा ते महावीरा दैत्यास्सर्वे युयुत्सवः ।।३९।।
सिंहनादन्ततश्चक्रुश्शंखान्दध्मुः पृथक्पृथक्।।
पूरयन्त इवाकाशं तर्पयन्तो बलाहकान्।।3.22.४०।।
युद्धं बभूव देवानामसुरैस्सह भीकरम् ।।
देवासुराख्यमतुलं प्रसिद्धं भुवनत्रये।।४१।।
जयं प्रापुस्सुरास्सर्वे विष्णुना परिरक्षिताः।।
दैत्याः पलायितास्तत्र हताः सामरविष्णुना ।।४२।।
दैत्याः संमोहिता देवैर्विष्णुना च महात्मना ।।
हतावशिष्टाः पातालं विविशुर्विवराणि च ।।४३।।
अनुवव्राज तान्विष्णुश्चक्रपाणिर्महाबलः ।।
पातालं परमं गत्वा संस्थितान्भीतभीतवत् ।। ४४ ।।
एतस्मिन्नन्तरे विष्णु ददर्शामृतसम्भवाः ।।
कान्ताः पूर्णेन्दुवदना दिव्यलावण्यगर्विताः ।। ४५ ।।
संमोहितः कामबाणैर्लेभे तत्रैव निर्वृतिम् ।।
ताभिश्च वरनारीभिः क्रीडमानो बभूव ह ।। ४६ ।।
ताभ्य पुत्रानजनयद्विष्णुर्वरपराक्रमान् ।।
महीं सर्वां कंपयतो नानायुद्धविशारदान् ।। ४७ ।।
ततो वै हरिपुत्रास्ते महाबलपराक्रमाः ।।
महोपद्रवमाचेरुस्स्वर्गे भुवि च दुःखदम् ।। ४८ ।।
लोकोपद्रवमालक्ष्य निर्जरा मुनयोऽथ वै ।।
चक्रुर्निवेदनन्तेषां ब्रह्मणे प्रणिपत्य च ।। ४९ ।।
तच्छ्रुत्वादाय तान्ब्रह्मा ययौ कैलासपर्वतम् ।।
तत्र दृष्ट्वा शिवं देवैः प्रणनाम पुनः पुनः ।। 3.22.५० ।।
तुष्टाव विविधैस्तोत्रैर्नत स्कन्धः कृताञ्जलिः ।।
जय देव महादेव सर्वस्वामिन्निति ब्रुवन् ।। ५१ ।।
ब्रह्मोवाच ।।
देवदेव महादेव लोकान्रक्षाखिलान्प्रभो ।।
उपद्रुतान्विष्णुपुत्रैः पातालस्थैर्विकारिभिः ।। ५२।।
नारीष्वमृतभूतासु संसक्तात्मा हरिर्विभो ।।
पाताले तिष्ठतीदानीं रमते हि विकारवान् ।। ५३ ।।
नन्दीश्वर उवाच ।।
इत्थं बहुस्तुतः शम्भुर्ब्रह्मणा सर्षिनिर्जरैः ।।
लोकसंरक्षणार्थाय विष्णोरानयनाय च ।। ५४ ।।
ततस्स भगवाञ्छम्भुः कृपासिंधुर्महेश्वरः ।।
तदुपद्रवमाज्ञाय वृषरूपो बभूव ह।।५५।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां विष्णूपद्रववृषावतारवर्णनं नाम द्वाविंशोऽध्यायः ।। २२ ।।