शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

।।नन्दीश्वर उवाच ।।
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ।।
शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ।।१।।
एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ।।
विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ ।।२।।
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ।।
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ।।३।।
चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ।।
बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ।।४।।
अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ।।
आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा।।५।।
तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ।।
निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ।। ६ ।।
नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ।।
कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका ।। ७ ।।
।। शिवोवाच ।।
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ।।
अतो भव धरायां हि मानुषस्त्वं च भैरव ।। ८ ।।
नन्दीश्वर उवाच ।।
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ।।
हाहाकारो महानासीद्दुःखमाप स लीलया ।। ९ ।।
ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ।।
आश्वासयद्भैरवं हि नानाऽनुनयकोविदः ।। 3.21.१० ।।
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ।।
मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ।। ११ ।।
तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ।।
शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ।। १२ ।।
महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ।।
सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ।। १३ ।।
इति ते कथितं तात महेशचरितं वरम् ।।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ।। १४ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ।। १५ ।।
इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः।।२१।।