शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

नन्दीश्वर उवाच।।
अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने।।
यथा चकाराशु हरो लीलास्तद्रूपतो वराः ।।१।।
चकार सुहितं प्रीत्या रामस्य परमेश्वराः ।।
तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम् ।। २ ।।।
एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ।।
ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः? ।। ३ ।।
चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ।।
स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः ।।४।।
तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ।।
प्रेरिता मनसा तेन रामकार्यार्थ मादरात ।।५।।
तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः।।
कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम् ।।६।।
ततश्च समये तस्माद्धनूमा निति नामभाक् ।।
शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ।।७।।
हनूमान्स कपीशानः शिशुरेव महाबलः ।।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ।।८।।
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।।
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ।। ९ ।।
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।।
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्।।3.20.१०।।
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्।।११।।
सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ।।
मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः ।।१२।।
ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ।।
ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता ।। १३ ।।
ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः ।।
सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः ।। १४ ।।
तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ।।
कारयामास रामेण तस्य सख्यं सुखावहम् ।।१५।।
घातयामास रामश्च वालिनं कपिकुञ्जरम् ।।
भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम् ।। १६ ।।
ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः ।।
स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः ।। १७ ।।
ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ।।
द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै ।। १८ ।।
चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ।।
अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम् ।। १९ ।।
सीताशोकं जहाराशु स वीरः कपिनायकः ।।
श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम् ।। 3.20.२० ।।
तदभिज्ञानमादाय निवृत्तो रामसन्निधिम्।।
रावणाऽऽराममाहत्य जघान बहुराक्षसान्।।२१।।
तदेव रावणसुतं हत्वा सबहुराक्षसम् ।।
स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः ।।२२।।
यदा दग्धो रावणेनावगुंठ्य वसनानि च ।।
तैलाभ्यक्तानि सुदृढं महाबलवता मुने।।२३।। ।।
उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ।।
ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि ।। २४ ।।
दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः ।।
अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः ।।२५।।
स्वपुच्छ तत्र निर्वाप्य प्राप तस्य परन्तटम् ।।
अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः ।।२६।।
अविलंबेन सुजवो हनूमान् कपिसत्तमः ।।
रामोपकण्ठमागत्य ददौ सीताशिरोमणिम् ।। २७ ।।
ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् ।।
वानरस्स समानीय बहून्गिरिवरान्बली ।।२८।।
गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।।
शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ।। २९ ।।
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।।
लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः ।। 3.20.३० ।।
जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ।।
शक्ति क्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत् ।। ३१ ।।
सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ।।
सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः ।।३२।।
रावणं परिवाराढ्यं नाशयामास विश्रमः ।।
सुखीचकार देवान्स महाबलग्रहः कपि।।३३।।
महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ।।
तत्स्थानादानयामास स्वस्थानम्परिपाल्य च ।।३४ ।।
रामकार्यं चकाराशु सर्वथा कपिपुंगवः ।।
असुरान्नमयामास नानालीलां चकार च ।। ३५ ।।
स्थापयामास भूलोके रामभक्तिं कपीश्वरः।।
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः।।३६।।
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।।
रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ।।३७।।
हनुमान्स महावीरो रामकार्यकरस्सदा।।
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः।।३८।।
इति ते कथितं तात हनुमच्चरितम्वरम्।।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्।।३९।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः।।
स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम् ।।3.20.४०।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ।।२०।।