शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १२
← अध्यायः ११ | शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता) अध्यायः १२ वेदव्यासः |
अध्यायः १३ → |
सनत्कुमार उवाच ।।
नन्दीश्वर महाप्राज्ञ विज्ञातन्तदनन्तरम् ।।
ममोपरि कृपां कृत्वा प्रीत्या त्वन्तद्वदाधुना ।। १।।
नन्दीश्वर उवाच।।
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ।।
निनदन्ननु वेगेन तं ग्रहीतुम्प्रचक्रमे ।।२।।
अत्रान्तरे महाघोरं प्रत्यक्षभयकारणम् ।।
गगनव्यापि दुर्धर्षं शैवतेजस्समुद्भवम् ।।३।।
वीरभद्रस्य तद्रूमदृश्यन्तु ततः क्षणात् ।।
तद्वै हिरण्मयं सौम्यं न सौरन्नाग्निसम्भवम् ।।४।।
न तडिच्चन्द्रसदृशमनौपम्यम्महेश्वरम् ।।
तदा तेजांसि सर्वाणि तस्मिँल्लीनानि शंकरे ।।५।।
न तद्व्योम महत्तेजो व्यक्तान्तश्चाभवत्ततः ।।
रुद्रसाधारणं चैव चिह्नितं विकृताकृति ।।६।।
ततस्संहाररूपेण सुव्यक्तं परमेश्वरः ।।
पश्यतां सर्वदेवानां जयशब्दादिमंगलैः ।।७।।
सहस्रबाहुर्जटिलश्चन्द्रार्द्धकृतशेखरः ।।
समृद्धोग्रशरीरेण पक्षाभ्याञ्चञ्चुना द्विजः ।।८।।
अतितीक्ष्णो महादंष्ट्रो वज्रतुल्यनखायुधः ।।
कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसन्निभः ।।९।।
युगान्तोद्यतजीमूतभीमगम्भीरनिस्वनः।।
महाकुपितकृत्याग्निव्यावृत्तनयनत्रयः।।3.12.१०।।
स्पष्टदंष्ट्राधरोष्ठश्च हुंकारसंयुतो हरः ।।
ईदृग्विधस्वरूपश्च ह्युग्र आविर्बभूव ह ।।११।।
अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ।।
बिभ्रद्धाम सहस्रांशोरधः खद्योतविभ्रमम् ।। १२ ।।
अथ विभ्रम्य पक्षाभ्यां नाभिपादान्विदारयन् ।।
पादान्बबंध पुच्छेन बाहुभ्याम्बाहु मण्डलम् ।।१३।।
भिन्दन्नुरसि बाहुभ्यान्निजग्राह हरो हरिम् ।।
ततो जगाम गगनन्देवैस्सह महर्षिभिः ।।१४।।
सहसैवाभयाद्विष्णुं स हि श्येन इवोरगम् ।।
उत्क्षिप्योत्क्षिप्य संगृह्य निपात्य च निपात्य च ।। १५ ।।
उड्डीयोड्डीय भगवान्पक्षघातविमोहितम् ।।
हरीं हरस्तं वृषभं विवेशानन्त ईश्वरः ।।१६।।
अनुयान्तं सुरास्सर्वे नमोवाक्येन तुष्टुवुः ।।
प्रणेमुस्सादरं प्रीत्या ब्रह्माद्याश्च मुनीश्वराः ।। १७ ।।
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ।।
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ।। १८ ।।
नाम्नामष्टशतेनैव स्तुत्वा ताम्मृडमेव च ।।
पुनश्च प्रार्थयामास नृसिंहः शरभेश्वरम् ।। १९।।
यदायदा ममाज्ञेयं मतिस्स्याद्गर्वदूषिता ।।
तदातदाऽपनेतव्या त्वयैव परमेश्वर ।।3.12.२०।। ।।
नन्दीश्वर उवाच।।
एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी।।
नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः ।।२१।।
तद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम्।।
शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः ।।२२।।
नन्दीश्वर उवाच।।
अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम्।।
तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम् ।।२३।।
।। देवा ऊचुः ।।
ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ।।
दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर ।।२४।।
ब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ।।
त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ।।२५।।
यतो हरसि संसारं हर इत्युच्यते बुधैः।।
निगृहीतो हरिर्यस्माद्धर इत्युच्यते बुधैः।।२६।।
यतो बिभर्षि सकलं विभज्य तनुमष्टधा।।
अतोऽस्मान्पाहि भगवन् सुरादानैरभीप्सितैः।।२७।।
त्वं महापुरुषः शम्भुः सर्वेशस्सुरनायकः ।।
निःस्वात्मा निर्विकारात्मा परब्रह्म सतां गतिः।।२८।।
दीनबन्धुर्दया सिन्धुऽरद्भुतोतिः परात्मदृक्।।
प्राज्ञो विराट्विभुस्सत्यः सच्चिदानन्दलक्षणः।।२९।।
।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शम्भुर्देवानां परमेश्वरः ।।
उवाच तान् सुरान्देवमहर्षींश्च पुरातनान् ।। 3.12.३० ।।
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।।
एक एव तदा विष्णुः शिवे लीनो न चान्यथा ।। ३१ ।।
एको विष्णुर्नृसिंहात्मा सदर्पश्च महाबलः ।।
जगत्संहारकरणे प्रवृत्तो नरकेसरी ।। ३२ ।।
प्रार्थनीयो नमस्तस्मै मद्भक्तैस्सिद्धिकारिभिः ।।
मद्भक्तप्रवरश्चैव मद्भक्तवर दायकः ।। ३३ ।।
नन्दीश्वर उवाच ।।
एतावदुक्त्वा भगवान् पक्षिराजो महाबलः ।।
पश्यतां सर्वदेवानान्तत्रैवान्तरधीयत ।। ३४ ।।
वीरभद्रोऽपि भगवान्गणाध्यक्षो महाबलः ।।
नृसिंहकृत्तिं निष्कृष्य समादाय ययौ गिरिम् ।। ३५ ।।
नृसिंहकृत्तिवसनस्तदाप्रभृति शंकरः ।।
तद्वक्त्रं मुण्डमालायां नायकत्वेन कल्पितम् ।। ३६ ।।
ततो देवा निरातङ्का कीर्त्तयन्तः कथामिमाम् ।।
विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ।। ३७ ।।
य इदम्परमाख्यानं पुण्यं वेदरसान्वितम् ।।
पठति शृणुयाच्चैव सर्व्वान्कामानवाप्नुयात् ।। ३८ ।।
धन्यं यशस्यमायुष्यमारोग्यम्पुष्टिवर्द्धनम् ।।
सर्वविघ्रप्रशमनं सर्वव्याधिविनाशनम् ।। ३९ ।।
दुःखप्रशमनं वाञ्छासिद्धिदं मंगलालयम् ।।
अपमृत्युहरं बुद्धिप्रदं शत्रुविनाशनम् ।।3.12.४०।।
इदन्तु शरभाकारं परं रूपम्पिनाकिनः ।।
प्रकाशनीयं भक्तेषु शंकरस्य चरेषु वै ।। ४१ ।।
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ।।
नवधा भक्तिदं दिव्यमन्तःकरणबुद्धिदम् ।।४२।।
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ।।
पठेत्प्रतिष्ठाकाले तु शिवसन्निधिकारणम् ।। ४३ ।।
चौरव्याघ्रनृसिंहात्मकृत राजभयेषु च ।।
अन्येषूत्पातभूकम्पदस्य्वादिपांसुवृष्टिषु ।। ४४ ।।
उल्कापाते महावाते विनावृष्ट्यतिवृष्टिषु ।।
पठेद्यः प्रयतो विद्वाञ् शिवभक्तो दृढव्रतः ।। ४५ ।।
यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ।।
रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ।। ४६ ।।
रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ।।
ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने ।। ४७ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।