शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

( अथ गृहपत्यवतारकथा ।।)

नन्दीश्वर उवाच ।।
शृणु ब्रह्मसुत प्रीत्या चरितं शशिमौलिनः ।।
सोऽवतीर्णो यथा प्रीत्या विश्वानरगृहे शिवः ।। १ ।।
नाम्ना गृहपतिः सोऽभूदग्निलोकपतिर्मुने ।।
अग्निरूपस्तेजसश्च सर्व्वात्मा परमः प्रभुः ।। २ ।।
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ।।
पुरारिभक्तः पुण्यात्मा भवद्विश्वानरो मुनिः ।। ३ ।।
ब्रह्मचर्य्याश्रमे निष्ठो ब्रह्मयज्ञरतस्सदा ।।
शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्व्वशी ।। ४ ।।
विज्ञाताखिलशास्त्रार्थस्सदाचाररतस्सदा ।।
शैवाचारप्रवीणोऽति लौकिकाचारविद्वरः ।। ५ ।।
चित्ते विचार्य्य गृहिणीगुणान्विश्वानरः शुभान् ।।
उदुवाह विधानेन स्वोचितां कालकन्यकाम् ।। ६ ।।
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ।।
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ।। ७ ।।
एवम्बहुतिथे काले गते तस्याग्रजन्मनः ।।
भार्य्या शुचिष्मती नाम भर्तारम्प्राह सुव्रता ।। ८ ।।
नाथ भोगा मया सर्वे भुक्ता वै त्वत्प्रसादतः ।।
स्त्रीणां समुचिता ये स्युस्त्वां समेत्य मुदावहाः ।। ९ ।।
एवम्मे प्रार्थितन्नाथ चिराय हृदि संस्थितम् ।।
गृहस्थानां समुचितं त्वमेतद्दातुमर्हसि ।। 3.13.१० ।।
विश्वानर उवाच ।।।
किमदेयं हि सुश्रोणि तव प्रियहितैषिणी ।।
तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम् ।। ११ ।।
महेशितुः प्रसादेन मम किञ्चिन्न दुर्लभम् ।।
इहामुत्र च कल्याणि सर्वकल्याणकारिणः ।। १२ ।।
नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः पत्युस्तस्य सा पतिदेवता ।।
उवाच हृष्यद्वदना करौ बद्ध्वा विनीतिका ।। १३ ।।
शुचिष्मत्युवाच ।।
वरयोग्यास्मि चेन्नाथ यदि देयो वरो मम ।।
महेशसदृशम्पुत्रन्देहि नान्यं वरं वृणे ।। १४ ।।
।। नन्दीश्वर उवाच ।।
इति तस्या वचः श्रुत्वा ब्राह्मणस्स शुचिव्रतः ।।
क्षणं समाधिमाधाय हृद्येतत्समचिन्तयत् ।। १५ ।।
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ।।
मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत् ।। १६ ।।
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ।।
व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम् ।। १७ ।।
नन्दीश्वर उवाच ।।
इति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ।।
ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः ।। १८ ।।
नन्दीश्वर उवाच ।।
इत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ।।
यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति ।। १९ ।।
प्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ।।
तत्याज तापत्रितयमपि जन्मशतार्जितम् ।। 3.13.२० ।।
दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ।।
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ।। २१ ।।
नत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ।।
सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम् ।। २२ ।।
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।।
आदिकेशवमुख्यांश्च केशवम्परितोष्य च ।। २३ ।।
लोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ।।
कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ।। २४ ।।
सहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ।।
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ।। २५ ।।
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ।।
यत्र निश्चलतामेति तपस्तनयकाम्यया ।। २६ ।।
क्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ।।
क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह ।। ।। २७ ।।
असंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ।।
सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम् ।। २८ ।।
वीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ।।
आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ।। २९ ।।
अहमप्यत्र वीरेशं समाराध्य त्रिकालताः ।।
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ।। 3.13.३० ।।
नन्दीश्वर उवाच ।।
इति कृत्वा मतिन्धीरो विप्रो विश्वानरः कृती ।।
चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती ।। ३१ ।।
एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ।।
अयाचिताशनो मासम्मासन्त्यक्ताशनः पुनः ।। ३२ ।।
पयोव्रतोऽभवन्मासम्मासम्मासं शाक फलाशनः ।।
मासम्मुष्टितिलाहारो मासं पानीयभोजनः ।। ३३ ।।
पञ्चगव्याशनो मासम्मासञ्चान्द्रायणव्रती ।।
मासं कुशाग्रजलभुग्मासं श्वसनभक्षणः ।। ३४ ।।
एवमब्दमितं कालन्तताप स तपोऽद्भुतम् ।।
त्रिकालमर्चयद्भक्त्या वीरेशं लिङ्गमुत्तमम् ।। ३५ ।।
अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ।।
प्रत्यूष एव वीरेशं यावदायाति स द्विजः ।। ३६ ।।
तावद्विलोकयाञ्चक्रे मध्ये लिंगन्तपोधनः ।।
विभूतिभूषणम्बालमष्टवर्षाकृतिं शिशुम् ।। ३७ ।।
आकर्णायतनेत्रञ्च सुरक्तदशनच्छदम् ।।
चारुपिंगजटामौलि न्नग्नप्रहसिताननम् ।। ३८ ।।
शैशवोचितनेपथ्यधारिणञ्चितिधारिणम् ।।
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ।। ३९ ।।
तमालोक्य मुदम्प्राप्य रोमकञ्चुकितो मुनिः ।।
प्रोच्चचार हृदालापान्नमोस्त्विति पुनः पुनः ।। 3.13.४० ।।
अभिलाषप्रदैः पद्यैरष्टभिर्बालरूपिणम् ।।
तुष्टाव परमानन्दं शंभुं विश्वानरः कृती ।। ४१ ।।
।। विश्वानर उवाच ।।
एकम्ब्रह्मैवाद्वितीयं समस्तं सत्यंसत्यं नेह नानास्ति किञ्चित्।।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकन्त्वाम्प्रपद्ये महेशम्।।४२।।
कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः।।
यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यन्त्वां विनेशम्प्रपद्ये।।४३।।
रज्जो सर्पश्शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।।
यद्यत्सद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तम्प्रपद्ये महेशम् ।।४४।।
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः।।
पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वाम्प्रपद्ये।।४५।।
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रस्यप्राणस्त्वं त्र्यंघ्रिरायासि दूरात् ।।
त्र्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वाम्प्रपद्ये ।।४६।।
नो वेद त्वामीश साक्षाद्धि वेदो नो वा विष्णुर्नो विधाताखिलस्य।।
नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वाम्प्रपद्ये।।४७।।
नो ते गोत्रं नो सजन्मापि नाशो नो वा रूपं नैव शीलन्न देशः ।।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्यास्सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ।। ४८ ।।
त्वत्तस्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां नतोऽहम्।।४९ ।।
नन्दीश्वर उवाच ।।
स्तुत्वेति विप्रो निपपात भूमौ संबद्धपाणिर्भवतीह यावत्।।
तावत्स बालोऽरिबलवृद्धवृद्धः प्रोवाच भूदेवमतीव हृष्टः ।। 3.13.५० ।।
बाल उवाच ।।
विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै।।
तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ।। ५१ ।।
तत उत्थाय हृष्टात्मा सुनिर्विश्वानरः कृती।।
प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ।।५२।।
विश्वानर उवाच ।।
महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ।।
सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ।। ५३ ।।
याच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ।।
इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ।। ५४ ।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ।।
शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ।। ५५ ।।
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।।
अचिरेणैव कालेन स भविष्यत्यसंशयम् ।। ५६ ।।
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते।।
ख्यातो गृहपतिर्नाम्ना शुचिस्सर्व्वामरप्रियः ।।५७।।
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।।
अब्दत्रिकालपठनात्कामदं शिवसन्निधौ ।। ५८ ।।
एतत्स्तोत्रप्रपठनं पुत्रपौत्रधनप्रदम् ।।
सर्व्वशान्तिकरश्चापि सर्व्वापत्तिविनाशनम् ।। ५९ ।।
स्वर्गापवर्गसम्पत्तिकारकन्नात्र संशयः ।।
सर्व्वस्तोत्रसमं ह्येतत्सर्व्वकामप्रदं सदा ।। 3.13.६० ।।
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शाम्भवम् ।।
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।। ६१ ।।
अभिलाषाष्टकमिदन्न देयं यस्य कस्यचित् ।।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।। ६२ ।।
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ।।
अब्दजप्तमिदं स्तोत्रम्पुत्रदन्नात्र संशयः ।। ६३ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे शम्भुर्बालरूपः सतां गतिः।।
सोऽपि विश्वानरो विप्रो हृष्टात्मा स्वगृहं ययौ।।६४।।
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां गृहपत्यवतावर्णनंनाम त्रयोदशोऽध्यायः ।।१३।।