शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

नंदीश्वर उवाच ।।
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपा लयः ।।
महातेजो नृसिंहाख्यं संहर्त्तुं परमेश्वरः ।। १ ।।
तदूर्द्ध्वं स्मृतवान्रुद्रो वीरभद्रम्महाबलम् ।।
आत्मनो भैरवं रूपं प्राह प्रलयकारकम् ।। २ ।।
आजगाम ततस्सद्यो गणानामग्रणीर्हसन् ।।
साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः ।। ३ ।।
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ।।
माद्यद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः ।। ४ ।।
क्रीडद्भिश्च महावीरैर्ब्रह्माद्यैः कन्दुकैरिव ।।
अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः ।।५।।
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ।।
अशस्त्रो हि जटाजूटी ज्वलद्बालेन्दुमण्डितः ।।६।।
बालेन्दुवलया कारतीक्ष्णदंष्ट्रांकुरद्वयः ।।
आखण्डलधनुःखण्डसंनिभभ्रूलतान्वितः ।।७।।
महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः ।।
नीलमेघाञ्जन श्यामो भीषणः श्मश्रुलोद्भुतः ।। ८ ।।
वाद्यखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ।।
वीरभद्रोऽपि भगवान्वरशक्तिविजृम्भितः ।। ९ ।।
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ।।
आज्ञापय जगत्स्वामिन् प्रसादः क्रियताम्मयि ।। 3.11.१० ।।
नन्दीश्वर उवाच ।।
इत्याकर्ण्य महेशानो वीरभद्रोक्तमादरात् ।।
विलोक्य वचनम्प्रीत्या प्रोवाच खल दण्डधृक् ।। ११ ।।
।। शंकर उवाच ।।
अकाले भयमुत्पन्नं देवानामपि भैरवम् ।।
ज्वलितस्य नृसिंहाग्निश्शमयैनं दुरासदम् ।।१२।।
सान्त्वयन्बोधयादौ तं तेन किन्नोपशाम्यति ।।
ततो मत्परमं भावं भैरवं सम्प्रदर्शय ।। १३ ।।
सूक्ष्मं संहृत्य सूक्ष्मेण स्थूलं स्थूलेन तेजसा ।।
वक्त्रमानाय कृत्तिं च वीरभद्र ममाज्ञया ।। १४ ।।
नन्दीश्वर उवाच ।।
इत्यादिष्टो गणाध्यक्षो प्रशान्तं वपुरास्थितः।।
जगाम रंहसा तत्र यत्रास्ते नरकेसरी ।। १५ ।।
ततस्तम्बोधयामास वीरभद्रो हरो हरिम् ।।
उवाच वाक्यमीशानः पितापुत्रमिवौरसम् ।। १६ ।।
वीरभद्र उवाच ।।
जगत्सुखाय भगवन्नवतीर्णोसि माधव ।।
स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना ।।१७।।
जन्तुचक्रं भगवता प्रच्छिन्नं मत्स्यरूपिणा ।।
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा।।१८।।
बिभर्षि कर्मरूपेण वाराहेणोद्धृता मही ।।
अनेन हरिरूपेण हिरण्यकशिपुर्हतः ।।१९।।
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ।।
त्वमेव सर्व्वभूतानां प्रभवः प्रभुरव्ययः ।।3.11.२०।।
यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।।
तदातदावतीर्णस्त्वं करिष्यसि निरामयम्।।२१।।
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।।
त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ।।२२।।
यदर्थमवतारोऽयं निहतस्स हि दानवः ।।
हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ।।२३।।
अतीव घोरं भगवन्नरसिंहवपुस्तव ।।
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ।।२४।।
नन्दीश्वर उवाच ।।
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।।
ततोऽधिकं महाघोरं कोपञ्चक्रे महामदः ।। २५ ।।
उवाच च महाघोरं कठिनं वचनन्तदा ।।
वीरभद्रम्महावीरं दंष्ट्राभिर्भीषयन्मुने ।। २६ ।।
नृसिंह उवाच ।।
आगतोसि यतस्तत्र गच्छ त्वम्मा हितं वद ।।
इदानीं संहरिष्यामि जगदेतच्चराचरम् ।। २७ ।।
संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ।।
शासितम्मम सर्व्वत्र शास्ता कोऽपि न विद्यते ।।२८।।
मत्प्रसादेन सकलमभयं हि प्रवर्त्तते ।।
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।। २९ ।।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।।
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ।। 3.11.३० ।।
देवतापरमार्थज्ञं मामेव परमम्विदुः ।।
मदंशाश्शक्तिसम्पन्ना ब्रह्मशक्रादयस्सुराः ।।३१।।
मन्नाभिकमलाज्जातः पुरा ब्रह्मा जगत्करः ।।
सर्वाधिकस्स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः ।।३२।।
इदन्तु मत्परं तेजः किं पुनः श्रोतुमिच्छसि ।।
अतो मां शरणम्प्राप्य गच्छ त्वं विगतज्वरः ।। ३३ ।।
अवेहि परमं भावमिदम्भूतं गणेश्वर ।।
मामकं सकलं विश्वं सदेवासुरमानुषम् ।।३४।।
कालोऽस्म्यहं लोकविनाशहेतुर्लोकान्समाहर्तुमहम्प्रवृत्तः ।।
मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः ।३५।।
नन्दीश्वर उवाच ।। ।।
साहङ्कारं वचः श्रुत्वा हरेरमितविक्रमः ।।
विहस्योवाच सावज्ञन्ततो विस्फुरिताधरः ।। ३६ ।
वीरभद्र उवाच ।।
किन्न जानासि विश्वेशं संहर्तारम्पिनाकिनम् ।।
असद्वादो विवादश्च विनाशस्त्वयि केवलः ।। ३७ ।।
तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ।।
कृतानि येन केनैव कथाशेषो भविष्यति ।। ३८ ।।
दोषं तं वद येन त्वमवस्थामीदृशी गतः ।।
तेन संहारदक्षेण दक्षिणाशेषमेष्यसि ।।३९ ।।
प्रकृतिस्त्वं पुमान्रुद्रस्त्वयि वीर्य्यं समाहितम् ।।
त्वन्नाभिपङ्कजाज्जातः पञ्च वक्त्रः पितामहः ।। 3.11.४० ।।
जगत्त्रयीसर्जनार्थं शंकरं नीललोहितम् ।।
ललाटेऽचिन्तयत्सोयन्तपस्युग्रे च संस्थितः ।। ४१ ।।
तल्ललाटादभूच्छम्भुः सृष्ट्यर्थे तेन भूषणम् ।।
अतोऽहं देवदेवस्य तस्य भैरवरूपिणः ।। ४२ ।।
त्वत्संहारे नियुक्तोऽस्मि विनयेन बलेन च ।।
देवदेवेन रुद्रेण सकलप्रभुणा हरे ।। ४३ ।।
एकं रक्षो विदार्यैव तच्छक्तिकलया युतः ।।
अहंकारावलेपेन गर्जसि त्वमतन्द्रितः ।। ४४ ।।
उपकारो हि साधूनां सुखाय किल संमतः ।।
उपकारो ह्यसाधूनामपकाराय केवलम् ।। ४५ ।।
यन्नृसिंह महेशानं पुनर्भूतं तु मन्यसे ।।
तर्ह्यज्ञानी महागर्वी विकारी सर्वथा भवान् ।। ४६ ।।
न त्वं स्रष्टा न संहर्ता भर्तापि न नृसिंहक ।।
परतन्त्रो विमूढात्मा न स्वतन्त्रो हि कुत्रचित् ।। ४७ ।।
कुलालचक्रवच्छक्त्या प्रेरितोसि पिनाकिना ।।
नानावतारकर्ता त्वं तदधीनस्सदा हरे ।। ४८ ।।
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ।।
हर हारलतामध्ये दग्धः कश्चिन्न बध्यते ।। ४९ ।।
विस्मृतिः किं तदंशेन दंष्ट्रोत्पातनपीडितम् ।।
वाराहविघ्नहस्तेऽद्य याक्रोशन्तारकारिणा ।। 3.11.५० ।।
दग्धोसि पश्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ।।
दक्षयज्ञे शिरश्छिन्नं मया तेजःस्वरूपिणा ।। ५१ ।।
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ।।
छिन्नं न सज्जितं भूयो हरे तद्विस्मृतन्त्वया ।।५२।।
निर्जितस्त्वं दधीचेन संग्रामे समरुद्गणः ।।
कण्डूयमाने शिरसि कथं तद्विस्मृतन्त्वया ।। ५३ ।।
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ।।
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम् ।। ५४ ।।
ये मया सकला लोका गृहीतास्त्वं पयोनिधौ ।।
निद्रापरवशश्शेषे स कथं सात्त्विको भवान् ।।५५।।
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ।।
शक्तिमानभितस्त्वं च ह्यनलात्त्वं विमोहितः ।।५६।।
तत्तेजसो हि माहात्म्यं पुमान्द्र ष्टुन्न हि क्षमः ।।
अस्थूला ये प्रपश्यन्ति तद्विष्णोः परमम्पदम् ।।५७।।
द्यावापृथिव्या इन्द्राग्नेर्यमस्य वरुणस्य च ।।
ध्वान्तोदरे शशांके च जनित्वा परमेश्वरः ।। ५८ ।।
कालोसि त्वं महाकालः कालकालो महेश्वर ।।
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि ।। ५९ ।।
स्थिरोद्य त्वक्षरो वीरो वीरो विश्वावकः प्रभुः ।।
उपहन्ता ज्वरं भीमो मृगः पक्षी हिरण्मयः ।। 3.11.६० ।।
शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ।।
नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः ।६१।।
इत्थं सर्वं समालोक्य संहारात्मानमात्मना ।।
न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध ।।६२।।
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ।।
वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ।। ६३ ।।
नन्दीश्वर उवाच।।
इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ।।
दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ।। ६४ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नामैकादशोऽध्यायः ।। ११ ।।