शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

नंदीश्वर उवाच ।।
विध्वंसी दक्षयज्ञस्य वीरभद्राह्वयः प्रभो ।।
अवतारश्च विज्ञेयः शिवस्य परमात्मनः ।।१।।
सतीचरित्रे कथितं चरितं तस्य कृत्स्नशः ।।
श्रुतं त्वयापि बहुधा नातः प्रोक्तं सुविस्तरात्।।२।।
अतः परं मुनिश्रेष्ठ भवत्स्नेहाद्ब्रवीमि तत्।।
शार्दूलाख्यावतारं च शङ्करस्य प्रभोः शृणु।।३।।
सदाशिवेन देवानां हितार्थं रूपमद्भुतम्।।
शारभं च धृतन्दिव्यं ज्वलज्ज्वालासमप्रभम् ।।४।।
शिवावतारा अमिता सद्भक्तहितकारकाः ।।
सङ्ख्या न शक्यते कर्तुं तेषां च मुनिसत्तमाः ।।५।।
आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ।।
आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ।।६।।
सङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ।।
शिवावताराणां नैव सत्यं जानीहि मद्वचः ।। ७।।
तथापि च यथाबुद्ध्या कथयामि कथाश्रुतम्।।
चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम् ।। ८ ।।
जयश्च विजयश्चैव भवद्भिः शापितौ यदा ।।
तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ।। ९ ।।
हिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ।।
देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ ।। 3.10.१० ।।
पृथ्व्युद्धारे विधात्रा व प्रार्थितो हि पुरा प्रभुः ।।
हिरण्याक्षं जघानासौ विष्णुर्वाराहरूपधृक् ।।१ १।।
तं श्रुत्वा भ्रातरं वीरं निहतं प्राणसन्निभम् ।।
चुकोप हरयेऽतीव हिरण्यकशिपुर्मुने ।। १२ ।।
वर्षाणामयुतं तप्त्वा ब्रह्मणो वरमाप सः ।।
न कश्चिन्मारयेन्मां वै त्वत्सृष्टाविति तुष्टतः ।। १३ ।।
शोणिताख्यपुरं गत्वा देवानाहूय सर्वतः ।।
त्रिलोकीं स्ववशे कृत्वा चक्रे राज्यमकण्टकम् ।। १४ ।।
देवर्षिकदनं चक्रे सर्वधर्म विलोपकः ।।
द्विजपीडाकरः पापी हिरण्यकशिपुर्मुने ।। १५ ।।
प्रह्लादेन स्वपुत्रेण हरिभक्तेन दैत्यराट् ।।
यदा विद्वेषमकरोद्धरिर्वैरं विशेषतः ।। १६ ।।
सभास्तम्भात्तदा विष्णुरभूदाविर्द्रुतम्मुने ।।
सन्ध्यायां क्रोधमापन्नो नृसिंहवपुषा ततः ।। १७ ।।
सर्वथा मुनिशार्दूल करालं नृहरेर्व्वपुः ।।
प्रजज्वालातिभयदं त्रासयन्दैत्यसत्तमान् ।। १८ ।।
नृसिंहेन तदा दैत्या निहताश्चैव तत्क्षणम् ।।
हिरण्यकशिपुश्चाथ युद्धञ्चक्रे सुदारुणम् ।। १९ ।।
महायुद्धं तयोरासीन्मुहूर्त्तम्मुनिसत्तमाः ।।
विकरालं च भयदं सर्वेषां रोमहर्षणम् ।। 3.10.२० ।।
सायं चकर्ष देवेशो देहल्यां दैत्यपुङ्गवम् ।।
व्योम्नि देवेषु पश्यत्सु नृसिंहश्च रमेश्वरः ।। २१ ।।
अथोत्संगे च तं कृत्वा नखैस्तदुदरन्द्रुतम् ।।
विदार्य मारयामास पश्यतां त्रिदिवौकसाम् ।। २२ ।।
हते हिरण्यकशिपौ नृसिंहे नैव विष्णुना।।
जगत्स्वास्थ्यन्तदा लेभे न वै देवाविशेषतः ।।२३।।
देवदुन्दुभयो नेदुः प्रह्लादो विस्मयं गतः।।
लक्ष्मीश्च विस्मयं प्राप्ता रूपं दृष्ट्वाऽद्भुतं हरेः ।।२४।।
हतो यद्यपि दैत्येन्द्रस्तथापि न पुरं सुखम् ।।
ययुर्देवा नृसिंहस्य ज्वाला सा न निवर्तिता ।। २५ ।।
तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ।।
देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः ।।२६।।
इत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ।।
नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ।। २७ ।।
प्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ।।
सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ।।२८।।
उरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ।।
हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ।। २९ ।।
तथापि न निवृता रुड्ज्वाला नरहरेर्यदा ।।
इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः ।। 3.10.३० ।।
तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ।।
शंकरं स्तवयामासुर्लोकानां सुखहेतवे ।। ३१ ।।
देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ।।
पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च ।। ३२ ।।
नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ।।
पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ।।३३।।
समुद्रो मथितश्चैव रत्नानां च विभागशः ।।
कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया ।। ३४ ।।
रक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ।।
विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ।। ३५ ।।
प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ।।
तदा त्वन्नाममात्रेण सर्वदुःखं विलीयते ।। ३६ ।।
इदानीं नृहरिज्वालापीडितान्नस्सदाशिव ।।
तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम् ।। ३७ ।।
नन्दीश्वर उवाच ।।
इति स्तुतस्तदा देवैश्शंकरो भक्तवत्सलः ।।
प्रत्युवाच प्रसन्नात्माऽभयन्दत्त्वा परप्रभुः ।। ३८ ।।
शंकर उवाच ।।
स्वस्थानं गच्छत सुरास्सर्व्वे ब्रह्मादयोऽभयाः ।।
शमयिष्यामि यद्दुःखं सर्वथा हि व्रतम्मम ।। ३९ ।।
गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ।।
मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः ।।3.10.४०।।
नन्दीश्वर उवाच।।
इति श्रुत्वा तदा देवा ह्यानन्दम्परमं गताः ।।
यथागतं तथा जग्मुस्स्मरन्तश्शंकरं मुदा ।। ४१ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शार्दूलावतारे नृसिंहचरितवर्णनं नाम दशमोऽध्यायः ।। १० ।।