शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

सनत्कुमार उवाच ।।
ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् ।।
संनह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम् ।। १ ।।
शंभवेऽसौ निवेद्याधिरोपयामास शूलिनम् ।।
बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसमतम् ।। २ ।।
ततस्तस्मिन्रथे दिव्ये रथप्राकारसंयुते ।।
सर्वदेवमयः शंभुरारुरोह महाप्रभुः ।। ३ ।।
ऋषिभिः स्तूयमानश्च देवगंधर्वपन्नगैः ।।
विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह ।।४।।
उपावृतश्चाप्सरसां गणैर्गीतविशारदः ।।
शुशुभे वरदश्शम्भुस्स तं प्रेक्ष्य च सारथिम् ।। ५ ।।
तस्मिन्नारोऽहतिरथं कल्पितं लोकसंभृतम् ।।
शिरोभिः पतिता भूमौ तुरगा वेदसंभवाः ।।६।।
चचाल वसुधा चेलुस्सकलाश्च महीधराः ।।
चकंपे सहसा शेषोऽसोढा तद्भारमातुरः ।७।।
अथाधः स रथस्यास्य भगवान्धरणीधरः ।।
वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम् ।। ८ ।।
क्षणांतरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ।।
रथारूढमहेशस्य सुतेजस्सोढुमक्षमः ।। ९ ।।
अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा ।।
स्थापयामास देवस्य पचनाद्वैरथं वरम्।।2.5.9.१०।।
ततोऽसौ नोदयामास मनोमारुतरंहसः ।।
ब्रह्मा हयान्वेदमयान्नद्धान्रथवरे स्थितः ।।११।।
पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि।।
अधिष्ठिते महेशे तु दानवानां तरस्विनाम्।।१२।।
अथाह भगवान्रुद्रो देवानालोक्य शंकरः।।
पशूनामाधिपत्यं मे धद्ध्वं हन्मि ततोऽसुरान्।।१३।।
पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः।।
कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः ।। १४ ।।
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः ।।
विषादमगमन्सर्वे पशुत्वं प्रतिशंकिताः ।। १५ ।।
तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः ।।
विहस्य कृपया देवाञ्छंभुस्तानिदमब्रवीत् ।। १६ ।।
शंभुरुवाच ।।
मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः ।।
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ।। १७ ।।
यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ।।
पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः ।। १८ ।।
ये चाप्यन्ये करिष्यंति व्रतं पाशुपतं मम ।।
मोक्ष्यंति ते न संदेहः पशुत्वात्सुरसत्तमाः ।। १९ ।।
नैष्ठिकं द्वादशाब्दं वा तदर्थं वर्षकत्रयम् ।।
शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ।। 2.5.9.२० ।।
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ।।
पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः ।।२१।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः ।।
तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा ।। २२ ।।
तस्माद्वै पशवस्सर्वे देवासुरवराः प्रभोः ।।
रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ।। २३ ।।
तदा पक्षुपतीत्येतत्तस्य नाम महेशितुः ।।
प्रसिद्धमभवद्वध्वा सर्वलोकेषु शर्मदम् ।। २४ ।।
मुदा जयेति भाषंतस्सर्वे देवर्षयस्तदा ।।
अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च ।।२५।।
तस्मिंश्च समये यच्च रूपं तस्य महात्मनः ।।
जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि ।।२६।।
एवं विधो महेशानो महेशान्यखिलेश्वरः ।।
जगाम त्रिपुरं हंतुं सर्वेषां सुखदायकः ।। २७ ।।
तं देवदेवं त्रिपुरं निहंतुं तदानु सर्वे तु रविप्रकाशाः ।।
गजैर्हयैस्सिंहवरै रथैश्च वृषैर्ययुस्तेऽमरराजमुख्याः।।२८।।
हलैश्च शालैर्मुशलैर्भुशुण्डैर्गिरीन्द्रकल्पैर्गिरिसंनिभाश्च।।
नानायुधैस्संयुतबाहवस्ते ततो नु हृष्टाः प्रययुस्सुरेशाः ।। २९ ।।
नानायुधाढ्याः परमप्रकाशा महोत्सवश्शंभुजयं वदंतः ।।
ययुः पुरस्तस्य महेश्वरस्य तदेन्द्रपद्मोद्भवविष्णुमुख्याः।।2.5.9.३०।।
जहृषुर्मुनयस्सर्वे दंडहस्ता जटाधराः ।।
ववृषुः पुष्पवर्षाणि खेचरा सिद्धचारणाः ।। ३१ ।।
पुत्रत्रयं च विप्रेन्द्रा व्रजन्सर्वे गणेश्वराः ।।
तेषां संख्या च कः कर्तुं समर्थो वच्मि कांश्चन ।। ३२ ।।
गणेश्वरैर्देवगणैश्च भृङ्गी समावृतस्सर्वगणेन्द्रवर्यः ।।
जगाम योगांस्त्रिपुरं निहंतुं विमानमारुह्य यथा महेन्द्रः ।।३३।।।
केशो विगतवासश्च महाकेशो महाज्वरः ।।
सोमवल्लीसवर्णश्च सोमदस्सनकस्तथा ।। ३४ ।।
सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा ।।
सूर्याक्षस्सूरिनामा च सुरस्सुन्दर एव च।।३५।।
प्रस्कंदः कुन्दरश्चंडः कंपनश्चातिकंपनः ।।
इन्द्रश्चेन्द्रजवश्चैव यंता हिमकरस्तथा।।३६।।
शताक्षश्चैव पंचाक्षः सहस्राक्षो महोदरः ।।
सतीजहुश्शतास्यश्च रंकः कर्पूरपूतनः ।।३७।।
द्विशिखस्त्रिशिखश्चैव तथाहंकारकारकः।।
अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः ।।३८।।
इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः ।।
प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः।।३९।।
समावृत्य महादेवं तदापुस्ते पिनाकिनम् ।।
दग्धुं समर्था मनसा क्षणेन सचराचरम् ।। 2.5.9.४० ।।
दग्धुं जगत्सर्वमिदं समर्थाः किंत्वत्र दग्धुं त्रिपुरं पिनाकी ।।
रथेन किं चात्र शरेण तस्य गणैश्च किं देवगणैश्च शम्भोः ।।४१।।
स एव दग्धुं त्रिपुराणि तानि देवद्विषां व्यास पिनाकपाणिः ।।
स्वयं गतस्तत्र गणैश्च सार्द्धं निजैस्सुराणामपि सोऽद्भुतोतिः ।।४२।।
किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम ।।
लोकेषु ख्यापनार्थं वै यशः परमलापहम् ।।४३।।
अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै।।
सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते।।४४।।

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शिवयात्रावर्णनं नाम नवमोऽध्यायः।।९।।