शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

व्यास उवाच ।।
दैत्यराजे दीक्षिते च मायिना तेन मोहिते ।।
किमुवाच तदा मायी किं चकार स दैत्यपः ।। १ ।।
सनत्कुमार उवाच ।।
दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः।।
शिष्यैस्सेवितपादाब्जो दैत्यराजानमब्रवीत् ।। २ ।।
अरिहन्नुवाच ।।
शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् ।।
वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ।।३।।
अनादिसिद्धस्संसारः कर्तृकर्मविवर्जितः ।।
स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ।। ४ ।।
ब्रह्मादिस्तंबपर्यन्तं यावद्देहनिबंधनम् ।।
आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता।। ५ ।।
यद्ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ।।
आख्यायथास्मदादीनामरिहन्नादिरुच्यते ।। ६ ।।
देहो यथास्मदादीनां स्वकालेन विलीयते ।।
ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ।। ७ ।।
विचार्यमाणे देहेऽस्मिन्न किंचिदधिकं क्वचित् ।।
आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ।। ८ ।।
निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ।।
सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्।।९।।
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।।
तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ।। 2.5.5.१ ०।।
संतु नार्यः सहस्राणि रूपलावण्यभूमयः ।।
परं निधुवने काले ह्यैकेवेहोपयुज्यते ।। ११ ।।
अश्वाः परश्शतास्संतु संत्वेनेकैप्यनेकधा।।
अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ।। १२।।
पर्यंकशायिनां स्वापे सुखं यदुपजायते।।
तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ।। १३।।
यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ।।
ब्रह्मादिकीटकांतानां तथा मरणतो भयम्।।१४।।
सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ।।
इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ।। १५।।
धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।।
तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ।।१६।।
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।।
घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ।।१७।।
अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ।।
अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम् ।।१८।।
पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ।।
तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः ।। १९ ।।
न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ।।
हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ।। 2.5.5.२० ।।
संति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ।।
अभीतिसदृशं दानं परमेकमपीह न ।। २१ ।।
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।।
विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ।। २२ ।।
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् ।।
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ।।२३।।
यानि यानीह दानानि बहुमुन्युदितानि च ।।
जीवाभयप्रदानस्य कलां नार्हंति षोडशीम् ।। २४ ।।
अविचिंत्य प्रभावं हि मणिमंत्रौषधं बलम् ।।
तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ।। २९ ।।
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।।
परितः परिपूज्यानि किमन्यैरिह पूजितैः ।। २६ ।।
पंचकर्मेन्द्रियग्रामाः पंच बुद्धींद्रियाणि च ।।
मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ।। २७ ।।
इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।।
सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि ।। २८ ।।
सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् ।।
अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।।२९।।
वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् ।।
अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।। 2.5.5.३० ।।
प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ।।
न हिंस्यात्सर्वभूतानि नान्या हिंसा प्रवर्तिका ।। ३१ ।।
अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह ।।
न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ।। ३२ ।
वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।।
दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ।। ३३ ।।
इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् ।।
श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ।।३४।।
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् ।।
बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः ।।३५।।
आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ।।
तत्तथैव ह मंतव्यं मिथ्या नानात्वकल्पना ।।३६।।
यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ।।
यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ।।३७।।
अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतस्सुखम् ।।
शरीरमपि दातव्यमर्थिभ्योऽतस्सुखेप्सुभिः ।। ३८ ।।
याचमानमनोवृत्तिप्रीणने यस्य नो जनिः ।।
तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ।। ३९ ।।
सत्वरं गत्वरो देहः संचयास्सपरिक्षयाः ।।
इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ।। 2.5.5.४० ।।
श्ववाय सकृमीणां च प्रातर्भोज्यमिदं वपुः ।।
भस्मांतं तच्छरीरं च वेदे सत्यं प्रपठ्यते ।। ४१ ।।
मुधा जातिविकषोयं लोकेषु परिकल्प्यते ।।
मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः ।। ४२ ।।
ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ।।
तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ।। ४३ ।।
मारीचेन कश्यपेन दक्षकन्यास्सुलोचनाः ।।
धर्मेण किल मार्गेण परिणीतास्त्रयोदश ।। ४४ ।।
अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ।।
अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ।। ४५ ।।
मुखबाहूरुसञ्जातं चातुर्वर्ण्य सहोदितम् ।।
कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ।। ४६ ।।
एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ।।
चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ।। ४७ ।।
वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते ।।
अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ।। ४८ ।।
सनत्कुमार उवाच ।।
इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने ।।
सशिष्यो वेदधर्माश्च नाशयामास चादरात् ।। ४९ ।।
स्त्रीधर्मं खंडयामास पातिव्रत्यपरं महत् ।।
जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ।। 2.5.5.५० ।।
देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च ।।
मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः ।। ५१ ।।
शिवपूजां विशेषेण लिंगाराधनपूर्विकाम् ।।
विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ।। ५२ ।।
स्नानदानादिकं सर्वं पर्वकालं विशेषतः ।।
खंडयामास स यतिर्मायी मायाविनां वरः ।। ५३ ।।
किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना ।।
वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ।। ५४ ।।
पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुरांगनाः ।।
भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ।। ५५ ।।
अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि ।।
पुरुषास्सफलीचक्रुः परदारेषु मोहिताः ।। ५६ ।।
अंतःपुरचरा नार्यस्तथा राजकुमारकाः ।।
पौराः पुरांगनाश्चापि सर्वे तैश्च विमोहिताः ।।५७ ।।
एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा।।
पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ।। ५८ ।।
माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो ।।
अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ।। ५९ ।।
या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादरात् ।।
बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ।। 2.5.5.६० ।।
बुद्धिमोहं तथाभूतं विष्णो र्मायाविनिर्मितम् ।।
तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ।। ६१ ।।
नारदोपि तथारूपो यथा मायी तथैव सः ।।
तथापि विकृतो नाभूत्परमेशादनुग्रहात् ।।६२।।
आसीत्कुंठितसामर्थ्यो दैत्यराजोऽपि भो मुने ।।
भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ।। ६३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ।। ५ ।।