शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

सनत्कुमार उवाच ।।
असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् ।।
एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ।। १ ।।
मुंडिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ।।
दधानं पुंजिकां हस्ते चालयंतं पदेपदे ।। २ ।।
वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ।।
धर्मेति व्याहरंतं हि वाचा विक्लवया मुनिम् ।। ३ ।।
स नमस्कृत्य विष्णुं तं तत्पुरस्स स्थितोऽथ वै ।।
उवाच वचनं तत्र हरिं स प्रांजलिस्तदा ।। ४ ।।
अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ।।
कानि नामानि मे देव स्थानं वापि वद प्रभो ।। ५ ।।
इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ।।
प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ।। ६ ।।
।। विष्णुरुवाच ।।
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ।।
मदंगज महाप्राज्ञ मद्रूपस्त्वं न संशयः ।।७।।
ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ।।
मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ।। ८ ।।
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ।।
स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ।। ९ ।।
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ।।
श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम् ।। 2.5.4.१० ।।
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।।
रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ।। ११ ।।
ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ।।
माया च विविधा शीघ्रं त्वदधीना भविष्यति ।। १२ ।।
तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।।
नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ।। १३ ।।
मुण्ड्युवाच ।।
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।।
त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ।। १४।।
सनत्कुमार उवाच ।।
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।।
इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ।।१५।।
तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदांबुजम्।।
मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ।।१६।।
कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ।।
मदाज्ञया न दोषस्ते भविष्यति महामते ।। १७ ।।
धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ।।
अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ।। १८ ।।
गंतुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ।।
तमोधर्मं संप्रकाश्य नाशयस्व पुरत्रयम् ।। १९ ।।
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ।।
स्थातव्यं च स्वधर्मेण कलिर्यावत्समा व्रजेत् ।। 2.5.4.२० ।।
प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।।
शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ।। २१ ।।
मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।।
मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ।। २२ ।।
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।।
शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः ।।२३।।
ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ।।
यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ।। २४ ।।
यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ।।
नमस्कृत्य स्थितास्तत्र हरये परमात्मने ।। २५ ।।
हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।।
उवाच परमप्रीतश्शिवाज्ञापरिपालकः ।। २६ ।।
यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।।
धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः।।२७।।
चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ।।
हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः ।।२८।।
मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ।।
धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः ।।२९।।
मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ।।
शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ।। 2.5.4.३० ।।
ते सर्वे च तदा देवं भगवंतं मुदान्विताः ।।
नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ।। ३१ ।।
हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ।।
अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ।। ३२ ।।
यथा त्वं च तथैवैते मदीया वै न संशयः ।।
आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ।। ३३ ।।
ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ।।
इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ।। ३४ ।।
ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ।।
अरिहन्निति तन्नामध्येयं पापप्रणाशनम् ।। ३५ ।।
भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ।।
लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ।। ३६ ।।
।। सनत्कुमार उवाच ।।
ततः प्रणम्य तं मायी शिष्ययुक्तस्स्वयं तदा ।।
जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ।। ३७ ।।
प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।।
महामायाविना तेन ऋषिर्मायां तदाकरोत् ।।३८।।
नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितितदा ।।
मायां प्रवर्तयामास मायिनामपि मोहिनीम् ।।३९।।
शिवार्चनप्रभावेण तन्माया सहसा मुने।।
त्रिपुरे न चचालाशु निर्विण्णोभूत्तदा यतिः ।। 2.5.4.४० ।।
अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ।।
नष्टोत्साहो विचेतस्को हृदयेन विदूयता ।। ४१ ।।
तत्स्मृतस्त्वरितं विष्णुस्सस्मार शंकरं हृदि ।।
प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ।। ।।४२ ।।
स्मृतमात्रेण विष्णोश्च नारदस्समुपस्थितः ।।
नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्सांजलिस्तदा ।।४३।।
अथ तं नारदं प्राह विष्णुर्मुनिमतां वरः ।।
लोकोपकारनिरतो देवकार्यकरस्सदा ।।४४।।
शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ।।
ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ।। ४५ ।।
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ।।
गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः।।४६।।
नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः।।
प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ।। ४७ ।।
ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ।।
क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ।। ४८ ।।
नारद उवाच ।। कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ।।
सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ।। ४९ ।।
दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः।।
वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम् ।। 2.5.4.५० ।।
तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ।।
तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ।। ५१ ।।
सनत्कुमार उवाच ।।
तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ।।
विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ।। ५२ ।।
नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः ।।
इत्येवं च विदित्वा वै जगाम स्वयमेव ह ।। ५३ ।।
तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा ।।
उवाच वचनं तस्मै नमस्कृत्य महात्मने ।। ५४ ।।
त्रिपुराधिप उवाच ।।
दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ।।
अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ।। ५५ ।।
इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ।।
प्रत्युवाच सुयत्नेन ऋषिस्स च सनातनः ।। ५६ ।।
मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ।।
तदा देया मया दीक्षा नान्यथा कोटियत्नतः ।। ५७ ।।
इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ।।
उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः ।। ५८ ।।
दैत्य उवाच ।।
यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ।।
त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः ।।५९।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ।।
दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः ।। 2.5.4.६० ।।
दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ।।
ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ।। ६१ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ।।
ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ।।६२।।
दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ।।
सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ।। ६३ ।।
मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्द्रुतं तदा ।।
महामायाविनस्तत्तु त्रिपुरं सकलं मुने ।। ६४ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ।।४।।