सामग्री पर जाएँ

शान्तिकमलाकरः/चतुर्थः भागः

विकिस्रोतः तः
← तृतीयः भागः शान्तिकमलाकरः
चतुर्थः भागः
[[लेखकः :|]]
पञ्चमः भागः →

श त मू ला नि

शतमूलानि दैवज्ञ मनोहरेण पुराण समुच्चये.


प्रदर्शितानीमानि -----

1. बर्हिश्शिखा 29. शमी 60. मातलुंगी
2. हरिक्रांता 30. प्लक्ष 61. जयन्ती
3. पुनर्नवा 31. पलाश 62. यवाजी
4. शारपुंखा 32. अश्वत्थ 63. पुंडकी
5. वराहीच 33. चूत 64. द्रोणपुष्पी
6. काकजंघा 34. औदुंबर 65. कुंभी
7. सुलक्ष्मणा 35. जंबू 66. श्रीपर्णी
8. तुंबिका 36. नदीवृक्षा 67. दमनः
9. कर्कंधुः 37. वेतस 68. चंपकः
10. कर्चूरी 38. पुन्नाग 69. पद्मकं
11. कारवल्लिका 39. अर्जुनः 70. कांचनपुष्पिका
12. कर्कोचका 40. शोकः 71. सिद्धेश्वरी
13. चक्रंत 41. वकुळः 72. बदरी
14. श्वेतार्क 42. शमंतक 73. राजवक्षः
15. व्याघ्रपत्रिका 43. साल 74. धवः
16. रुदन्ती 44. ताळ 75. कुंदः
17. अश्वगंधा 45. मूल 76. मुचुकुंदः
18. मुनली 46. पाटल 77. गोजीह्वा
19. गरिकर्णिका 50. श्रीवृक्षः 78. क्षीरकुंदुका
20. इंदुवारु 51. बृहतीद्वयं 79. दाडिवी
21. अपामार्ग 52. बला 80. बीजपूरि
22. शंखपुष्पी 53. अतिबला 81. ब्राह्मी
23. कुमारिका 54. चैवपाठ 82. मल्लिका
24. पल्लकी 55. नागबल 83. भृंगराज
25. गंधारी 56. जाती 84. अधोपुप्पी
26. निर्गुंडी 57. वकुळ 85. मत्प्याक्षी
27. देवराशिका 58. केतकी 86. चाटरूपका
28. वटः 59. कदळी 87. तरंगिणी
88. गुडूची 93. काकजंघा 97. काश
89. निशाद्वे 94. बर्बरी 98. इक्षुमाला
90-91. शतमूलिका 95. तुलसी 99. नर्षपमूलकं
92. वागुजी 96. कुळ
100. श्लो ।। अलाभेचोक्त वृक्षाणां सद्वृक्षाणां सामा हरेत् ।।
मदनरत्ने गार्ग्यस्तु अन्यदा आह ---
स्वयमुल्पौटये त्प्राज्ञः मूलानां च शतं पिता ।।
श्लो ।। लक्ष्मणां शतमूलंच शिरेपो वेत सस्तथा ।
सहसाश्वेत मूलाच विष्णुक्रांताथ शंखिनी ।। 102
श्लो ।। सर्पाक्षी मीन नेत्राच पुत्रपाणि कृतांजली ।
पलाशो बिल्वकश्चैव रोचनं चंदन द्वयं ।। 103
श्लो ।। कृष्णमांसी मुरोशीरं बालकं च तथामला ।
गोजिह्व तुळसी इष्या शत पुष्पा सलांगली ।। 104
श्लो ।। ब्रह्मदंडी द्रोणपुष्पी प्रियंगुसित सर्षपः ।
पिप्पलाकाक जंघाच त्रायमाणा हुहूस्तथा ।। 105
श्लो ।। ज्योतिष्मतीच गांधारेति गंधः पूर्ण कौशिकी ।
भगक्षमा सुभच्राच गुडूची इंद्र वारुणी ।। 106
श्लो ।। अलाबुका रुदंतीच कदळी केतकी तथा ।
गोक्षुरं शत पर्वीच अरिष्टीका पराजिता ।। 107
श्लो ।। छिन्न रुद्रा शथ पत्रानि कुंभाच सुवर्चला ।
अश्वगंधा हस्ति कर्णी हरिद्रा द्वितीयं तथा ।। 108
श्लो ।। उष्ट्रवौ मधुकारश्च अश्वत्थो वकुळस्तथा ।
बर्बरा चापमार्गंच मंदार श्चाति मुक्तकः ।। 109
श्लो ।। मालती स्वर्ण पुष्पाच श्रीपर्णीश्र फलं तथा ।
दर्बमूलं करवीरं मुदयंती विकंतकः ।। 110
श्लो ।। पाटला मुरदारुश्च अर्थ सूदनिक स्तथा ।
फलं मन्मथ वृक्षन्य पलाशस्यच पल्लवः ।। 111
श्लो ।। रास्नानदी वृक्षमूलं सुरदारु निदारिका ।
श्वेतवीर्या श्वेतपाका तथा नीलोत्पलानिच ।। 112
श्लो ।। नागकेसर मिंदीरी कुमारीचैव निक्षिपेत् ।। 113

शतमूला शतावरी । सहका सहदेनी ।। श्वेतमूला पुनर्नवा । मीननेत्रा मत्स्याक्षी । पुत्रपारा पुत्रजीवः । कृतांजलिः । अंजलिनि हाता । होदा इति प्रसिद्धा । पलाश कटुमूलं । श्वेत पीतंच ।। उशीवीरण आमलक्या भूम्या मलकी । गो जिह्व गळकुं भीति प्रसिद्धा ।। ब्रह्मदंडी अथःपुष्पी द्रोणपुष्पीच कंचुकः । काक जंघा एकांगी । ज्योतिष्मती माल कांगुणी गांधारी पूर्णौ । कौशिकाको शातकी ।। भगक्षमा शिग्रुः । सुभद्रा सारिवा ।। आलंबुका तुंबी । शतपर्वाव चारिष्टका नागवल्ली ।। छिन्नरुद्धापीडगुडूची । शत पत्राक मालिनी ।। निकुंभास दंतिभेधः ।। सुवर्चला सूर्यफला ।। हस्तकर्णी हेरंडः । उष्ट्रपिटः ।। सर्जरा बीजकः । आतिमुक्तकः ।। माधवी जाति स्वर्णा पुष्पाकुशली । दमयंती युधिका । अर्धसूदनीच वालक्य । मन्मध वृक्षः आद्रुः सुरदारुः = देवदारुः । विदारिका = भू कूष्मांडी ।। श्वेतवीर्या = गिरिकर्णी । श्वेतपाका = गुंजा । न्प,्टमन्यत् ।।
स र्वौ ष ध्य स्तु :---
श्लो ।। मुरामांसीवचा कुष्टं शैलेयं रजनाद्वयं ।
सटी चंपक मुस्ताच सर्वौषधि गण स्मृतः ।।
मूरा = ऐकांगी = मांसी = जटामांसी शैलेयं = मनीश्शिला = सचीकचोरा - स्वष्टमन्यत् ।।
का त्या य नः :---
मूलनक्षत्रे मूल विधानं कुर्या त्सर्वौषध्या सर्वगंधै श्च संयुक्तं चत्रोदक कुंभं कृत्वा, सवस्त्र गंध पुष्प सहितं श्वेत सिद्धार्ध कुसुम संयुक्तं कुर्यात्. तस्मिन् रुद्रान् जपित्वा. अप्रति रथं रक्षोघ्नच, द्विती मोद कुंभं कृत्वा. चतुः प्रस्रवण संयुक्तं मुपरिष्टा न्मूलानि धारयेत् ।। वंशपात्रे कृत्वा. वस्त्रे बध्वा, तस्मिन् प्रधानानि मूलानि वक्ष्यामि अष्टदश माष हिरण्ययं = मूलं, सप्तधान्यानि, काष्मर्या सहदेव्या पराजिता बाला पाठा शंख पुष्प्यधो पुष्पी मधु यष्टिका चक्रांगिका मयूर शिखा काक जंघा कुमारिकाद्वय जीवंत्यपा मार्ग भृंग राजलक्ष्मणा जाती व्याघ्रपत्रं चक्र मर्दकी सिद्धेश्वराश्वत्थो दुंबर पलाश प्लक्ष वटार्क दूर्वारोहित कशमी शतावरी इत्यादि मूलशतं पूरयित्वा, तस्मिन्नि षद्धानि वक्ष्यामि बैल्वधन निंब कदंब राज वृक्षोच्छ शाला प्रिया सूदधिक पित्थकोविदार श्लेष्मातक विभीतक शाल्मली सरळ सर्वंकंटकि वर्ज्यं तत्राभिषेकं कुर्यात् ।।
पितुः, शिशोः, जनन्याः देवस्य त्वेत्वौदुंबर्वा संदीं उद गग्रां आस्तृणाति
तत्रासीनां संपातेनाभिषिंचति, शिरसीः अनुलोमं शिरोमेश्रीः । र्यराशोमुखं इत्यादिभिः यथा लिंगमंगानि संस्पृशेत् ।। स्नानादूर्ध्वां नै ऋत्यां पायसं श्रवमित्वा, काष्मर्यमयं स्रुक्स्रुवं प्रतप्य; संमृज्यच, आघाराज्यभागौ हुत्वा, असुन्वन्त मिति च तस्रः स्थालीपाकेन जुहुयात् । कृणुष्वपाज इति पंचदशाज्य हुतीः चतुर्गहीतेन जुहुयात् ।।
मानस्तोक इति द्वाभ्यां, यातेरुद्र शिवा तनूरितिषट्, अग्ने रक्षांसिसेधति शुक्रज्योति रमर्त्यः शुचिः पावक ईड्य इति, त्वन्नः सोम विश्वतोरक्षा राजन्नषूयतः ।। सरिष्येत्वावतस्सखेति स्विष्टकृदादि प्राशनांते, कृष्णागौः, कृष्णाश्चतिलाः हेममयमूलं सप्तधान्य संयुक्तं आचार्याय दद्यात् ।। कृष्णोनड्वान् ब्रह्मणे, नक्षत्र सूचकेभ्योवासो दद्यात् - अन्येभ्यो ब्राह्मणेभ्यः सुवर्णं दद्यात् - कृसरान्न पायसेन ब्राह्मणान् भोजयेत् - सार्पदैवते गंड जात एषविधिः कात्यायनेनोक्तः कृते शांतिर्भवतीति ।।
अष्टादशमाष मितं सुवर्णं कृतमूलं. केचित्‌तु अष्टदश माष मितिन पठंति.
मथुयष्टका जेष्ठी मथु । चक्रांकिता अतिबला । मूलनामानितु । काष्मर्या । वालाउशीरं । अथः पुष्पी । काकजंघा । चिद्रुचिरा । सुलक्ष्मणा पुत्तलीसदृशी । व्राषुपत्री । सिद्धेश्वराजाती । रोहितकं सुगंधतृणं । अन्याचि प्रसिद्धानिच । एतादृशानिद्वा त्रिंशदावश्यकानि । अन्यानि शतमूलान्तर्गतानिग्राह्याणि । तदभावेकानि चिदप्रितिषिद्धानियानि विहितानि निषद्धानिचतेषु भविकल्पः ।।
अथ शौनकोक्त मूलाशांति प्रयोगः उक्तकाले गोमुख प्रसवं कृत्वा देशकालौ संकीर्त्या.
शौनकोक्तविधिना मूलनक्षत्र शांतिं करिष्ये इति संकल्प्य, गणेश पूजन पूण्याहवाचन नांदीश्राद्धानि कृत्वा, आचार्यं ब्राह्मणं सदस्यं ऋत्विजंश्चाष्टौ चतुरोवा वृत्वा. मधुपर्कैः वस्त्रालंकारादिभिः यदाथा विभव मर्चयेत् ----
ततः आचार्यः प्राणानायम्य, अस्मन् कर्मणि आचार्य कर्म करिष्ये इति संकल्प्य, यदत्र संस्थितमिति सर्षपान् विकीर्य, अपोहिष्ठादि मंत्रैः कर्मभूमिं संप्रोक्ष्य, सलक्षण मंडप देवतापूजादि कुर्यात् -----
ततः तत्र ईशानभागे वर्णकैः स्वस्तिकंविलिख्य.
तत्र महीद्यौरिति भूमिं स्पृष्ट्व, ओषधयः समितिद्रोण प्रमाणान् व्रीहीन् प्रक्षिप्य, तत्र आकलशेश्विति नवकुंभान् निधाय, इमंमे गंगे इति तीर्धवारिणापूर्य, गंधद्वारामिति गंधं, या औषधीय इत्योषधीः ओषधयः समितियवान्, कांडा त्कांडादिति दूर्वाः, अश्वत्थेव इति पंचपल्लवांश्च, स्योना पृथिवीति पंचमृदः, याः फलिनीरिति फलं, सहिरत्ना नीति पंचरत्नानि, आपोहिष्ठेतित्यृचापंच गव्यं, हिरण्यरूपमिति सुवर्णंच प्रक्षिप्य, युवासुवासा इति वस्त्रेण कलशमावेष्ट्य, पूर्णदर्वीति ताम्र वंशादि मयं पूर्ण पात्रंनि दध्यात् --
केचित्वा पाततो मूलवाक्यालोचनेन वस्त्रवेष्टतवारि पूर्णपंचगव्य सुवर्ण पल्लवयुतं कलशं व्रीहिषु निधाय, फल रत्नौषध्यादि प्रक्षेपं गंधपुष्पर्चनादि बाहुस्तद सांप्रदायकं । ततो रुद्र कलशान् चतुर्दिक्षु महीद्वौरिति भूमिं स्पृष्ट्वा, शक्त्यायवान् प्रक्षिव्य, चतुरः कलशान् स्थापमित्वा पूर्णपात्र निधानांतं कुर्यात् । तत्र
प्रतिकलशं मंत्रावृत्तिः ।।
ततः पूर्णपात्रो परिवस्त्रे सौवर्ण निर्मितां रुद्र प्रतिमां त्र्यंबकमिति मंत्रेणा वाह्यचेनैव षोडशोपचारैः पूजयेत् ।।
अस्य वसिष्ठो रुद्रोनुष्टुप् - ततः एक ऋत्वाक् कुंभंस्पृष्ट्वा, रुद्रैकादशिनीं जपेद्यदि याजुषः - बह्वृचस्तु चत्वारि रुद्रसूक्तानि - छंदोगस्तु रुद्र सामानि - अत्रो भयत्र शक्तितः एकादशाष्टौ त्रिद्व्येकं सख्या ग्राह्यः - केचिद्रुद्र स्सर्व साथारणः - बह्वृच छंदोगयोस्तु सुसाम्ने रुद्रेण सह विकल्प इत्याहुः - तत्र रुद्रन्यासादि अस्मद्गुरु कृत रुद्र पद्ध तौद्रष्टव्यं ।।
रुद्र सूक्तानितु - कद्रुद्रायेति नवर्चं आघोरक एको रुद्रो गायत्री रुद्रसूक्त जपे विनियोगः - इमारुद्रा यत्यादि द्वादशर्चं कुत्सऋषिः - रुद्रो देवता - आद्या नवजगत्योंते त्रिष्टुभोजपे विनियोगः - आते पितरिति पंच दशर्चांगृत्स मदो रुद्रस्त्रिष्चुन् जपेविनियोगः - इमा रुद्राय स्थिर धन्वन इति चतसृणां वसिष्टो रुद्र जगत्योंत्या नुष्टुप् जपेवि - ं - ः (विनियोगः).
अवो राजान मित्येकादशाना मिंद्र साम्नांवा मदेव ऋ - 0 - रुद्रोदे - 0 - आदंस्य साम्नः त्रिष्टुन् - तत श्चतुर्णां गायत्री ततस्त्रयाणां त्रिष्टुन् - ततस्त्रयाणां उत्कृति छंदः । जपेवि - ं - (विनियोगः).
ततः एक ः ऋत्विक् मध्यकुंभे त्र्यंबक मिति मंत्र मष्टोत्तर सहस्रं जपेत् ।।
अस्यस्तु क्रमेण चत्वारि सूक्तानि जपेत् - तानिच आशुः शिशान इति त्रयोदशर्चां, इंद्रोsप्रतिरथ ऋषिः, इंद्रो देवता, चतुर्ध्वा बृहस्पति स्त्रिष्टुन् छंदः, अंत्यानुष्टुपे - जपे विनियोगः ।।
त्वमग्ने रुद्र इत्यनुवाकस्य हव्यवादृषिः, आग्न्यात्मा, रुद्रो जगती, जपे विनियोगः - 0 - 0 ।।
विनियोगः त्वमग्न इति रक्षा मंत्रस्य वामदेवोग्निः, त्रिष्टुन् - जपेवि - 0 - (विनियोगः).
रक्षोहणमिति पंचविंशत्यृक्सुक्तस्य आंगीरसः वायुरग्नि स्त्रिष्टुन् - चतस्रोंत्या नुष्टुभः जपेविनियोगः - अत्र संख्या पुर्वोक्तरीत्या यधाशक्ति ग्रह्या - चतुर्धेतु पवमान मप्यकवारं जपेत् यद्वा एतेषा मपि रुद्र किंबे एव जपः - चतुर्षु शांति जप इति केचित् - एवं पंच कुंभा संभवे कुंभद्वयं संस्थाप्य - अस्मिन् पक्षे रुद्र कुंभे पूर्वोक्त रुद्र मंत्रादि
सर्व जपः - अस्य कुंभेतु वरुण मावाह्य शांति रुद्र जपं कुर्यात् ।।
अथवा पंच कुंभस्थाने एकैकः एवं चतुः प्रस्रवणः तत्र मथ्य कुंभ कार्याणि मध्यमुखे - कुंभ चतुष्टय कार्याणि चतुर्षु प्रस्रवणेष्विति विवेकः - ततः पूर्व स्थापित कुंभोत्तर तश्चतुर्विंशति दश पंच वर्णैः - शुक्ल तंडुल पिष्टेनवा कृत्वा, तत्र कर्णिकायां ।।
महीद्वौरित्यादिना कुंभं संस्थाप्य, तत्र इमंमे गंगे इति जलमापूर्य, गंधद्वारा मिति गंधं क्षिप्त्वा, तत्र शतमालानि निक्षिपेत् :---
तदभावे विष्णुक्रांते, सहदेवी, तुळसी, शतावरीः प्रक्षिप्य, कुशान्, कुंकुमंच प्रक्षिप्य, याओषधीरित्यादि पूर्णपात्र निधानांतं कृत्वा, उपरिवस्त्रेष्टदसं कृत्वा, कर्णिकायां मोषुण इति निष्कादर्ध निर्मितं निऋरुति प्रतिमां पंचामृतेन स्नापयित्वा, संस्थाप्य, तद्दक्षिणतः, इंद्रंवो मथुछंदा इंद्रो गायत्री अनेनेंद्रं, तदु त्तरत श्चाप्सुमे - मेधातिथिरापोनुष्टुप् इत्यपः स्थापयेत् - देवताश्च विश्वेदेवाः विष्णुः, वसवः, वरुणः, अचैकपाते, अहिर्बुध्न्य-, पूषा, अश्वानौ, यमः, अग्निः, प्रजापतिः, सोमः रुद्रः, अदितिः, बृहस्पतिः, सर्पाः, पितरः, भगः, अर्यमा, सविता, त्वष्टा, वायुः, इंद्रग्नी, मित्रइति, ततो लोगपालका नावाहयेत् --
ततो नै ऋरुतेग्नि स्थापनं कृत्वा, तदीशान्ये सपग्रहान् तत्तस्मंत्रै रावाह्य, अन्वाधानं कुर्यात् ---
तद्याथा --- समिद्द्वयमादाय, चक्षुष्याज्येने त्यंतमुक्त्वा, नवग्रहान मुकसंख्याभिः, समुच्चर्वाज्याहुतिभिः, अधिदेवता प्रत्यधि देवता लोकपालात्, विनायकादींश्च, प्रत्येक ममुकसंख्याभिः, समिच्चर्वाज्याहुतिभिः, निऋरुतिं प्रतिद्रव्येणाष्टोत्तर शतसंख्याकाभिः, घृतसम्मिश्र पायस चरुसमिदाज्याहुतिभिः, इंद्रमापश्च प्रतिद्रव्य मष्टाविंशति पंचदशऋग्भिः, प्रत्यृत मष्टसंख्याभिः, कृसराहुतिभिः, अग्निं, क्षेत्राधिपितं, मित्रावरुणी, अग्निं, एताः अष्ट संख्याभिः, कृसराहुतिभिः, समिदाज्य चर्वाहुतिभिः. सोमं त्रयोदश वारं पायसाहुतिभिः, रुद्रं चतुर्गृहीतेनाज्येन, अग्निं, वायुं, सूर्यं, प्रजापतिंचाज्येन, शेषेण स्विष्टकृत मित्यादि पूर्ण पात्र निधानास्तं कृत्वा, स्वस्वमंत्रैः निऋरुत्यादि पूजां कुर्यात् -- तत्र वस्त्रयुग्मं रक्तचंदन गंध कृष्ण सुरभि पुष्पाणि धूपोमेष शृंगस्य, आजस्यदीपः परुषाहाराय होळिकाः -----
ब्राह्मणस्य सूरास्थाने नैंधव मिश्रितं क्षीरं, मांसस्थाने लवणयुक्तं पायसं - क्षत्रियादीनांसति संभवे मुख्यमेव एतावन्नैवेद्यां - आचमानादि पुष्पांजल्यं तां पूजां कृत्वा, अमुष्मैत्येत्याद अन्वाधान क्रमेण पायस कृसरचरून् श्रपमित्वा, आज्यभागान्तं कुर्यात् ---
ततो यजमान दक्षिणतः सर्व देवतो द्देश त्यागं कुर्यात् ---
ततः ऋत्विक्सहितः आचार्यः जुहुयात् तद्यथा ----
नवग्रहाधि देवता प्रत्यधि देवता विनायका दीनो तत्त स्मंत्रैः समिदाज्यचरुन् पूर्वोक्त संख्यया हुत्वा, निऋरुतेः इंद्रस्य आपाच मंत्रेः क्रमेण द्रव्य चतुष्टयं ऋत्विग्भिः जुहुयात् ---
कृणुष्वेति पंचदश सूक्तस्य गोतमो वामदेवो रक्षोहात्रिष्टुप् कृसपहोमे विनियगः -- प्रत्यृच मष्ट संख्यया जाहुयात् ---
ग्रायत्र्या अष्ट संख्यया समुत्रे कृसराहुतीः हूत्वा, जात वेदसे कश्यपो दुर्गात्रिष्टुप्, कृसरं, त्र्यंबकं वसिष्यो रुद्रो नुष्टुप् कृसरः सीरायुंजंत्यस्य बुध सौम्य ऋषिः ऋत्विक्त्सु तिर्देवता गायत्री च्छंदः कृसर वोमे विनियोगः - तामगि वर्णां सौभरी दुर्गा त्रिष्टुप् कृसर मष्ट संख्याभिः, अग्निं काणवो मेधांथिः अग्निः गायत्री कृसर मष्ट संख्याभिः, क्षत्रस्य वामदेवः क्षेत्रपालो नुष्टुप् कृसर मष्ट संख्याभि-, दृणाना जमदग्निः मित्रा वरुणा गायत्री कृसर मष्टसंख्याभिः, अग्निं दूत मित्यस्यांगिरसो वुरूपांगारको गायत्री कृसर मष्ट संख्याभिः, हिरण्य वर्णामिति पंचदश सुक्तस्य आनंदः कर्द मर्चिक्लीतेंदिरा सुता ऋषयः श्री देवता द्यास्तिस्रो नुष्टुभः चतुर्धी प्रस्तार पंक्तिः पंचम षष्ठयोः त्रिष्टुबौ दतोष्टा वनुष्टुभः अंत्या प्रस्तार पंक्तिः होमे विनियोगः ----
प्रत्यृच समिदाज्य चरून् अष्टा विंशत्यष्टान्यतम संख्यया जुहुयात् ---
त्वन्नः सोम विश्वत इत्यस्य, प्रगाधिः, सोमस्त्रिष्टुप्, पायसहोमे विनियोगः - तवन्नः सोम विश्वतोगोपा इतिवा मंत्रतः--- त्वन्नः जक्रतुरितिवा - अनयो रिंद्रोविमदः, सोमः प्रस्तरपंक्तिः --- ततश्चतुर्गृहीत माज्यं गृहीत्वा, याते रुद्रेति कश्यपो रुद्रः, स्वराडनुष्टुप् -- अनेन जुहुयात् ।।
ततः स्रुवेणव्यस्त समस्त व्याबृतिभि राज्यं हुत्वा, स्विष्ट कृदादि प्रायश्चित्तं कुर्यात् ---
ततः दिक्पालेभ्यो नवग्रहेभ्यो विनायकादिभ्यो निऋरुतये, इंद्राय, अद्भः, रुद्राय, क्षेत्रपालाच, सदीपमाष बलीन् दद्यात् ।।
ततः आचार्यो यजमानोवा स्रुचं पूरयित्वा, तत्र फलादि कमाधाय, पूर्णाहुतिं जुहुयात् ---
तत्र मंत्राः :---- समिद्रा दूर्मिरित्येकादशमाक्तस्य, गौतम वामदेवोग्निः, त्रिष्टुपे, अंत्या जगतीपूर्णाहुति होमे विनियोगः ---
प्रजोपते हिरण्यगर्भः प्रजापति स्तृष्टुपे पूर्णादर्वी विश्वेदेवाः, शत्‌क्रतु रनुष्टुप्, पूर्णाहुति होमे विनोयोगः -- सप्तते अग्ने सप्तवादग्नर्जगती पूर्णाहुति होमे विनियोगः -- एवं पूर्णा हुतिं हुत्वा, प्रणीतानयनादि कर्मशेषं समाप्य, अग्नौ शांतिकरण पक्षे
अस्मिन्काले समारोप्य, शांत्या सहनवग्रह मख करणे इदानीं तस्मिन्नेवाग्नौ पृधके नवग्रह मुखः कार्यः ---
ततः चतुः कुंभं मध्यवर्ति कुंभ दक्षिणतः स्पृष्ट्वा, त्र्यंबकमिति मंत्रं शतवारं जपेत् ---
बह्वृचश्चे द्रुद्रसूक्तानि -- सामगश्चे द्रुद्रसामानि- अधर्वणश्चे त्र्यंबक मंत्र मात्रं - अधवा एकादशाष्ट त्रिद्व्येकसंख्यया संपूज्य, त्र्यंबकं मेषुण इत्युपस्नाय, सर्व कलशोदकं पात्रांतरे गृहीत्वा, सर्त्विगाचार्यो यजमानं सर्वेषढीभिः अनुलिप्तांगं, धृत नववस्त्रं, तद्वामतो धृत नववस्त्रं सपुत्रां पत्नीं अपवेश्य, वक्ष्यामाणै- मंत्रैः अभिषिंचेत् - त्रिभिष्ठ्वं देवेति सस्तानां वसिषठ ऋषिः - आद्यानां त्रयाणां अग्निर्देवता - ततश्च तुर्णां विश्वे देवाः - आद्या गायत्री - दितीयानुष्टुप् - तिस्रो गायत्र्यः - अंत्येद्ये अनुष्टुभौ - अभिषेके विनियोगः ---
आपोहिष्ठेति नवर्चां आंबरीष स्सिंधुः द्वीप आपो गायत्री, अंत्येद्वे अनुष्टुभौ, पंचमी वर्धमाना सप्तमी प्रतिष्ठा आभिषेके विनियोगः ----
आप इद्वेति द्वयस्य सप्तर्षयः, विश्वे देवनुष्टुप् अभिषेके विनियोगः ---
सहस्राक्षेणेति प्राजापत्यो यक्षनाळो यक्षहा त्रिष्टुप् अभिषेके विनियोगः ----
देवस्यत्वेत्वाप स्तंबशाखागतैः त्रिभिर्मंत्रैः यज्ञग्रत इित षण्णां प्रजापति मनु स्तृष्टुपे अभिषेके विनियोगः -----
ततः :---
श्लो ।। योसा वज्रधरोदेवः - महेंद्रो गजवाहनः ।
मूलजात शिशोर्दोषं * माता पित्रो र्व्यपोहतु ।।
श्लो ।। योसौ शक्तिधरोदेवः - हुतभूज्केष वाहनः ।
सप्तजिह्वश्च दवोग्निः - मूलदोषं व्यपोहतु ।।
श्लो ।। योसौ दंडधरोदेवः - धर्मोमबहिष वाहनः ।
मूलजात शिशोर्दोषं - व्यपोहतु यमो मम ।।
श्लो ।। योसौ खड्गधरोदेवः - निऋरुती राक्षसाधिपः ।
प्रशामयतु मूलोत्थं - दोषं गंडांत संभवं ।।
श्लो ।। योसौ पाश धरोदेवः - वरुणश्च जलेश्वरः ।
नक्रवाह प्रचेतानः - मूलोत्थाघं व्यपोहतु ।।
श्लो ।। योसौ देवो जगत्प्राणः - मारुतो मृग वाहनः ।
प्रशामयतु मूलोत्थं - दोषं बालस्य शांतिदः ।।
श्लो ।। योसौ विधिपति र्देवः - खड्गभृत् वाजि वाहनः ।
माता पित्रो श्चिशोश्चैव - मूल दोषं व्यपोहतु ।।
श्लो ।। योसौ पशुपति र्देवः - पिनाके वृष वाहनः ।
आश्लेष मूल गंडांत - दोषमाशु व्यपोहतु ।।
श्लो ।। विष्नोशः क्षेत्रपो दुर्गा - लोकपाला नवग्रहा ।
सर्वदोष प्रशमनं - सर्वे कुर्वंतु शांतिथाः ।।
ततः सुरास्त्वेत्यादिभिः अभिषिंचेत् - तच्छं योःशं युर्विश्वे देवाः शक्वरी आभिषेके विनियोगः - ततो रुद्र निऋरुति शांति कलशोदकेन अन्येन शतच्छिद्र मंतर्थास्याभिषिक्तो यजमानोधौते वाससी परिधाय, तिलकं कृत्वा, विभूतिं धृत्वा, संकल्पपूर्वक माचार्यादीन् पूजयित्वा, तेभ्यो दक्षिणां दद्यात् ---
तत्राचार्याय सवत्सांदोग्ध्रीं धेनुं दक्षिणांच दद्यात् --
कश्यपेनतु :---
आचार्य वृषं लोह पिंडं दद्यात्सदक्षिणं इत्युक्तं - ब्रह्मणे वृषं - रुद्र जापिने कृष्ण मनड्वाहं - ऋत्विग्भ्यश्च यथाशक्ति दक्षिणां दत्व,ा भूयसीं दत्वा, नुऋरुत्यादीनां उत्तर पूजां विधाय, उत्तिष्ठ (अभ्यार मिंद्रंवा) यांतुदेव गणाः इति नुसृज्याचार्य हस्तेन प्रति पद्य आक्षदान् आशिषः, अग्निं संपूज्य, गच्छ गच्छेति वसृत्य, शतं तदर्धंवा दशवा विप्राने संभोज्य, शांति सूक्त जपंकारयत्वा, यस्यस्मृत्येति जपित्वा, कर्मेश्वरार्पणं कृत्वा, भुंजीत ।।
इति कमलाकरभट्ट कृते शांति रत्ने मूलशांति प्रयोगः.

अथ मदनरत्ने पितामह संहितोक्ता
मू ल श्ले षा शा ं तिः
श्लो ।। मूलादौ च द्विघटिका ज्येष्ठांते च तथैवच ।
अभुक्तमूलं तद्‌ज्ञेयं तत्र जातं शिशुंत्यजेत् ।। 1
श्लो ।। मूलस्यादौ पितुर्गंडं मातुर्गंडं द्वितीयकं ।
तृतीयं धनधान्यस्य अंत्यपादः शूभावहः ।। 2
श्लो ।। विपरीतं फलं सर्वं आश्लेषास्वपिमूलवत् ।
शूलोव्याघात वज्रेच व्यतीपातश्च वैधृतिः ।। 3
श्लो ।। परिषं वारदोषश्च विष्टिश्च विषनाडिकाः ।
अपयोगादिकैर्युक्ते मूलदोषोधिकोभवेत् ।। 4
श्लो ।। अधातः संप्रवक्ष्यामि शांतिकर्म विधिं शुभं ।
निष्केणवायवानष्टौ सुवर्णेन च नै ऋरुतिं ।। 5
श्लो ।। सर्पभोयदि गंडं च कुर्या त्सर्पाकृतिं बुधः ।
कुंडं कुर्या द्धस्तमात्रं आयामेच तथैवच ।।
मेखलात्रय संयुक्तं योन्याचैव समन्वितं ।। 6
श्लो ।। मंडपंकारयेत्तत्र यथा विभव सारतः ।
पुण्यहंवाच यित्वातु सुसंकल्प्य च यथाविधि ।। 7
श्लो ।। अलंकृतांश्छतु संख्यान् ऋत्ाजो वरयेद्बुधः ।
आचार्यं वरयेत्पश्चात् वप्त्रदिभि कलंकृतं ।। 8
श्लो ।। आनीय चतुरः कुंभान् कृष्णवर्णान् सुशोभितान् ।
शतच्छद्र समायुक्तं बृहत्कुंभं शुशोभितं ।। 9
श्लो ।। सूत्रेणवेष्टितं मध्ये धान्यस्यो परि विन्यसेत् ।
शतमूलादि पुष्पाणि रत्नानि नवसंख्यया ।। 10
श्लो ।। मृतिका दशसंख्याकैः तथा पल्लवपंचकं ।
पंचवृक्ष कषायाणि पंचगव्यं तथैवच ।। 11
श्लो ।। पंचसौगंधिकंचैव पण्यं लोहत्रयं तथा ।
धान्यानि सर्वाणि तथा कुशादूर्वा स्तथैवच ।। 12
श्लो ।। तीर्थोदकानि सर्वाणि सर्वकुंभेषु विन्यसेत् ।
मूलानि नामतोवक्ष्ये शतसंख्यानि यानिच ।। 13
श्लो ।। सहदेवी शिखा पुंखा विष्णुक्रांतै पुनर्नवा ।
चंद्रवृक्षा सितागुंजा दुग्धिकाच तथा बला ।। 14
श्लो ।। काकबंधुर्वायदुर्वा काकमाची शतावरी ।
कर्करं सुरसंब्राह्मी निर्गुंडी मुसलीवचा ।। 15
श्लो ।। वर्षाभूः शंखिनीपाठा समंगा बृहतीद्वयं ।
अपामार्गः कुशाभृंगः कासखंदक रूपकाः ।। 16
श्लो ।। श्रीवृक्षेंद्र यवःप्लक्षा ब्रह्मवृक्षोधचाम्रकाः ।
जंबूबिल्वो मुरामांसी मुस्तारिष्टा निशाद्वयं ।। 17
श्लो ।। कदळी केतकेताळः श्रीपर्णी सल्लकीतथा ।
पाटलालोध्रकोशरं कोशातत्यग्नि मंथकः ।। 18
श्लो ।। जीवंती दाडिमिशाल तमालं बीजपूरकं ।
पुन्नागो वकुळः कुंदः मथुरो मुचुकुंदकः ।। 19
श्लो ।। मुद्गमाष बलाचैव नंद्यावर्तः कुरंटकः ।
चंपक न्युब्जकाकुष्ठं गुडूच्यामलकी तथा ।। 20
श्लो ।। उशीरं बालखदिरं करंजं च तथैवच ।
कंदपोश्वत्थ वृक्षश्च कराह्वाद्ग्रंधि पर्णिका ।। 21
श्लो ।। रशनाशंखिनीचै व नागाह्वापोतकी तथा ।
कमलं कुमुदं कोशो नीलोल्पल बृहद्वयं ।। 22
श्लो ।। एतश्शतामि मूलानि सर्वारिष्ट हराणिच ।
अभावे शतमूलानां सर्वेषध्यो विनिक्षिपेत् ।। 23
श्लो ।। सर्वौषधीनांचा भावे दशौशध्यो विनिक्षपेत् ।
अभावे सर्वमूलानां हेममात्रं विनिक्षिपेत् ।। 24
श्लो ।। देवदारु र्निशायुग्मीं पद्मं नीलोत्पलं तथा ।
कुष्ठं रौद्रं प्रियंगुश्च तगरं मूलमेवच ।। 25
श्लो ।। धात्रीफलं वचाकर्णी नर्षपानागरं तथा ।
मूपामांसी तथा चंडी उशीरं वाळकं तथा ।। 26
श्लो ।। शैलजा गृध्रपर्णीच श्रीखंडं तारकं तथा ।
सिद्धि वृद्धि समायुक्तः सर्वौषध्यः प्रकीर्तिताः ।। 27
श्लो ।। कुष्ठं मांसी हरिद्रेद्वे मूराशैलेय चंदनं ।
वचा कर्पारमुस्ताच सर्वौषध्यो दशस्मृताः ।। 28
श्लो ।। याओषधेति मंत्रेण औषधादीनि निक्षिपेत् ।
सहिरत्नानि मंत्रेण नवरत्नानि निक्षिपेते ।। 29
श्लो ।। उधृतासीति मंत्रेण मृदमादाय विन्यसेत् ।
प्रवोयज्ञेति मंत्रेण पल्लवांश्च विनिक्षिपेत् ।। 30
श्लो ।। याश्चेदमिति मंत्रेण त्वकृचकं विनिक्षिपेत् ।
गायत्र्यदैः पंचगव्यं कांडात्कांडाच्च दूर्वकान् ।। 31
श्लो ।। मधुवातेति मधुस्वादः पवप्येति च शर्करां ।
कलशस्य मुखे ब्रह्म मध्ये रुद्रो अथोहरिः ।। 32
श्लो ।। सर्वे समुद्राः सरितः तीर्धानि जलदानदाः ।
आयांतु यजमानस्य दुरितक्षयकारकाः ।। 33
श्लो ।। इमंमे वरणेत्याद्यं त्वायामि द्वितीयकं ।
त्वन्नो अग्ने तृतीयंच सत्वन्नोग्ने ततः परं ।। 34
श्लो ।। आचार्यो मूलमंत्रेण बृहत्कुंभ प्रपूजयेत् ।
मूलं प्रजांतु मूलंचं सर्वेदं सर्प इत्यपि ।। 35
श्लो ।। शतच्छिद्रस्य पुरंतः देवं तत्रैवपूजयेत् ।
निऋरुतिं सर्पनाथंच वस्त्रयुग्मेन वेष्टयेत् ।। 36
श्लो ।। इंद्रादिलोकपालांश्च स्वेन मंत्रेण पूजयेत् ।
एवं पूजांच निर्वर्त्य होमकर्म ततस्छरेत् ।। 37
श्लो ।। समिधाज्येन चरुणा तिलै स्सम्यक्चहावयेत् ।
अष्टोत्तर सहस्रंवा अष्टोत्तर शतंतुवा ।। 38
श्लो ।। मूलं प्रजांतुचाष्टौच होमवाक्यं यथाक्रमं ।
अनुहोमं ततः कुर्यात् आज्येन चरुणासह ।। 39
श्लो ।। प्रजापतये स्वाहेत सर्पेभ्यस्वेति मंत्रकैः ।
व्याहृति होमंच कारयोत्सु समाहितः ।। 40
श्लो ।। पूर्णहुतिंच जुहुयात् अभिषेकं च कारयेत् ।
उक्षिप्यच शतच्छिद्रं धारये न्मस्तकोपरि ।। 41
श्लो ।। शतच्छिद्रेक्षिपेयुन्ते मंत्रै र्वारुणसंभवैः ।
समुद्रज्येष्टाभि मंत्रैः देवस्यत्वा तथैवच ।। 42
श्लो ।। शिरोमे श्रीरिति मंत्रेण आपोहिष्ठादिभिः त्रिभिः ।
पुनंतुमा देवाजना मंत्रैः त्रातारमेवच ।। 43
श्लो ।। द्वेश्शांतेत्यादिभि र्मंत्रैः मात्स्योक्तैरपि मंत्रकैः ।
आर्द्यवासांसि संत्यज्य आचार्याय निवेदयेत् ।। 44
श्लो ।। आज्यावलोकनं कृत्वा सद्विप्राय प्रदापयेत् ।
आचार्याय वृषंदद्यात् अयःपिंडं तथैवच ।। 45
श्लो ।। सर्वालंकार संयुक्तं गांसवत्साप दक्षिणां ।
तदर्धं ब्रह्मणे दद्यात् ऋत्विग्भ्यो पितदर्धतः ।। 46
श्लो ।। ब्रह्मणान् भोजयोत्पश्चात् यथाशक्तनुसारतः ।
अनेनविधाना शांतिं यःकुर्यात् प्रीतिमान्नरः ।। 47
श्लो ।। आयुरारोग्य मैश्वर्यं तस्य ख्यातिर्भवेद्ध्रुवं ।
इति कमलाकरभट्टकृतौ मूलाश्लेषा शांतः ।। 48

अथाश्लेषाशांतिः
तत्र पाद फलं प्रागुक्तं = जयार्णवे

मूर्थान्य नेत्र गळ कर्ण युगं च भाहु
हृज्जानु गुह्य पद मित्य हिदेह भागः ।। 1
बाणाद्रि नेत्र हुत भुक् श्रुति नाग रुद्र
षण्णंद पंच शिरसः क्रमशस्तु नाड्यः ।। 2
राज्यं पितृक्षयो मातृनाशः काम क्रियारतिः ।
पितृभक्तो बलीस्वष्नुस्त्यागी भोगि धनी क्रमात् ।। 3
विशेषस्तु निर्णय सिंधौ ज्ञेयः शांति मह शौनकः - यथा :---
आश्लेषा यांतु जातानां शांतिं वक्ष्याम्यतः वरं ।
जातस्य द्वादशाहेच शांति होमं समाचरेत् ।। 4
असंभवेतु जन्मर्क्षे अन्यस्मिन्वा शुभेहानि ।
स्नातोभ्यंगादि भिस्तस्मिन् वरयोत्तु द्विजो त्तमान् ।। 5
विभवे पंचकुंभास्तु द्वयंवा तद लाभतः ।
देवता स्थापने चैकं मेकं रुद्रभि मंत्रणे ।। 6
मूलर्क्षोक्त प्रकारेण कुंभे निक्षिप्य पूजयेत् ।
गोमया लेपिते देशे मंटपैः परिशोभिते ।। 7
पंकजंकारये त्तत्र चतुर्विंश द्दशान्वितं ।
तंडुलैः कारयेद्यद्वारक्तपीत सिता सितैः ।। 8
कर्णिकायां न्यसेद्धीमान् स्थापयेत्तेषु कुंभकं ।
आ कलषेषु मंत्रेण कलशे स्थापनं स्मृतं ।। 9
इमंमे गंगेति मंत्रेण पूरयेत्तीर्थवारिणा ।
कुंभंच गंथ वप्त्रद्यैः तत्तन्मत्रैः प्रपूजयेत् ।। 10
याः पलिनीःस्तु मंत्रेण क्षिपेद्रत्नौषधीदिकान् ।
कुंभो परिस्थ पात्रेतु आश्लेषा प्रतिमां यजेत् ।। 11
निष्कार्थ पाद पादैर्वा कारयित्वा स्वशक्तितः ।
तत्पुर्वोत्तर नक्षत्रे दक्षिणोत्तर योर्यजेत् ।। 12
ऐंद्रा दीशान पर्यन्त मितरर्क्षाणि पूजयेत् ।
मूलोक्तेन विधानेन कुंभयो रभि मंत्रणं ।। 13
रुद्रार्चा रुद्र कुंभेतु पूर्व वच्चेष माचरेत् ।
नयो अस्तु सर्पोभ्यः पूजा मंत्र इतीरितः ।। 14
सर्पो रक्तस्त्री नेत्रश्च द्विभुजः पीत वस्त्रकः ।
फलकासि धर स्तीक्ष्णो दिव्यभरण भूषितः ।। 15
एवं ध्यात्वा ततोभ्यर्च्य होमकर्म समारभेत् ।
कर्तुः शाखोक्त मार्गेण आचार्य स्याथ वाचरेत् ।। 16
मुखांतं कर्म निर्माय हविरादाय शास्त्रतः ।
इदं सर्पेभ्यो जुहु यात्साधि प्रत्यधि समाचरेत् ।। 17
अष्टोत्तर शंतवाथ अष्टाविशति मेववा ।
मूल नक्षत्र वच्चेषं होमक्रम समाचरेत् ।। 18
पूर्णा हुत्यंत कर्माणि कृत्वा संपातकं तथा ।
कुंभे जपेषु प्रक्षिप्य आभिषेक मथाचरेत् ।। 19
दार पुत्र समेतस्य यजमानस्य पूर्ववत् ।
अभिषिंचेततथाचार्यः ऋत्विग्भिः स्सपितस्तथा ।। 20
अभिमंत्रित कुंभाद्भिः अभिषेचन माचरेत् ।
तथा पौराण मंत्रैश्च पल्लवैरभिषेचयेत् ।। 21
आश्लेषा ऋक्ष जातस्य माता पित्रोर्धनसन्यच ।
भ्रातृज्ञति कुलस्थानां धोषं सर्वं प्यपोहतु ।। 22
योसौ वागेश्वरोनाम आधिदेवो बृहस्पतिः ।
माता पित्रोः शिशोश्चैव गंडांतंच व्यपोहतु ।। 23
पितरः सर्व भातानां रक्षंतु पितरं स्सदा
सार्पनक्षत्र जातस्य वित्तंच ज्ञाति बांधवान् ।। 24
एवं कृतेभिषेकेतु सार्पशांतिर्भवेद्ध्रुवं ।
तत श्शुक्लांबरधरो यजमानः सुभूपितः ।। 25
दक्षिणाभि स्ततो विप्रान् मूल वच्च प्रतोषयेत् ।
इत्युक्तेव विदानेन सर्वारिष्टं व्यपोहतु ।। 26
सर्वे कामाश्च सिध्यंति वेदोक्त युर्भविष्यति । 27
अर्घ्य मंत्र माह
सर्पाधीश नमस्तुभ्यं नागानांच गणाधिप ।
गृहाणार्घ्यं मयादत्तं सर्वारिष्ट प्रशांतये ।। 28
मूल नक्षत्र वत्कुर्यात् सर्पगंडे स्वनायतः ।। 29
अभिषेके आश्लेषा मूल गंडांतर्क्षजात स्वदोष शांति मित्यूहः कर्यः
इति शौनके या आश्लेषा शांतिः.
अथ प्रयोगः :-----
इक्तकालेकर्त गोमुखप्रसवं कृत्वा, देशकालौ संकीर्त्य, मम अस्य कुमारस्य आश्लेषा नक्षत्र जननेन सूचित पित्राद्यरिष्टादि शांतिद्वार श्री परमेश्वर प्रीत्यर्धं नवग्रहोमखं आश्लेषा नक्षत्र जनन शांति करिष्ये, इति संकल्प्य, गणेशपूजा, पुण्याहवाचन, मातृ,ा पूजन, नांदी श्राद्धाकृत्वा, आचार्यं, ऋत्विजश्च, वृणुयात् । ततः आचार्यः- अस्सिन् कर्मणि आचार्यकर्म करिष्ये, इति संकल्प्य, यदत्र संस्थितिमिति सर्षपान् विकीर्य, आपोहिष्ठेति मंत्रैः कर्मभूमि प्रोक्ष्य, ईशानदेशे पंचवर्णैः स्वस्तिकं विलिख्य,तत्र महीद्यौरिति भूमि स्पृष्ट्वा, ओषदयः समिति द्रोणप्रमाणान् व्रीहीन्क्षिप्त्वा, तत्रा कलशेश्विति कुंभं निधाय, इमंमे, गंगेत्यापूर्य, गंधद्वारामिति गंधपुष्पैः, याओषधीरित्यौषधी रोषदयः समिति यवान्, कांडात्कांडादिति, द्वार्वाः अश्वेत्थेव इतिपंचपल्लवान्, स्योनेति सप्तमृदः, याफलिनी रितिफलं, सहिरत्नानीति
पंचरत्नानि, आपोहिष्ठेतितिसृभिः पंचगव्यं, हिरण्यरूप इति हिरण्यं प्रक्षिप्य, वस्त्रैः युवासुवासा इत्यावेष्ठ्य, पूर्णादर्विति पूर्ण पात्रं निदध्यात् --
ततः पूर्णपात्रो परिस्थपस्त्रे सुवर्ण रुद्र प्रतिमायां त्र्यंबकमिति मंत्रेण मृत्युंजय मावाह्य पूजयेत् -- अस्य वसिष्ठो रद्रो नुष्टुप् ---
ततः एकऋत्विक् कुंभं स्पृष्ठ्वा, रुद्रैकादशनीं जपेत् - यदियाजुषो यजमानः - बह्वृचश्चेत् चत्वारि रुद्रसूक्तानि - छंदोगश्चेते रुद्रसामानि सूक्तसाम्नोः एकादशाष्टत्रिद्वेक संख्या ग्राह्य - केचित् रुद्रः सर्वसाधारणः - बह्वृच छंदोगयोस्तु सूक्तसाम्नोः रुद्रेम सहविकल्प इत्याहुः - इत्थमेव शिष्टः कुर्वंति तत्र रुद्रान्यासादि श्रीगुरु रुद्रपद्धतौद्रष्टव्यं -
रुद्र नूक्तानितु - कुद्रुद्रायेति नवर्चाम घोरः, कण्वो रुद्रो गायत्री, इमारद्रायेत्ये कर्चकुत्सो रुद्रः आद्या सव जगत्योंत्ये, द्वेत्रिष्टुभे, आते पितरित पंचदश शर्चं गृत्सयदो रुद्र स्त्रिष्ठुवे, तमुष्टुहिभौयोत्री रुद्र स्त्रिष्टुप्, भुवनस्य पितरिऋजिजा रुद्र स्त्रिष्टुप्, त्र्यंबकं वसिष्टो रुद्रो नुष्टपे, रुद्रसाम ऋष्यादि तुला पुरुष पद्धतौ द्रष्टव्यं - तत स्त्र्यंबक मित्यष्टोत्तर सहस्रं, पावमानीश्च मध्यम कुंभे जपेत् --
ततः प्राक्कुंभे आशुः शिशान इति त्रयोदशर्चां, इंद्रो अप्रति रथ ऋषिः, इंद्रो देवता त्रिष्टुपे, छंदोंत्या नुष्टुप्, दक्षिण कुंभेत्व मग्ने रुद्र इत्यनुवाकस्य, हव्यवाडृषिः, अग्न्यात्मा,रुध्रो देवता, जगतीच्छंदः, पश्चिमकुंभे रक्षोहण इत्यस्य वामदेवोग्निः, त्रिष्टुप् --
उत्तरकुंभे - रक्षोहणमिति पंच विंशर्चामंगिरसः वायुवग्नि स्त्रिष्टपे, अंत्याश्चतस्रोनुष्टुभः, जपे विनियोगः ----
अत्रापि पूर्वोक्त संख्या यथा शक्ति ग्राह्य - पंचकुंभा संभवे चतुः प्रस्रवणं पंच वक्त्रं कुंभं स्थापयित्वा, सर्वं तत्रैव कुर्यात् ---
ततः कुंभस्य उत्तरतः चतुर्विंशद्दळं पंकजं पंचवर्णं कृत्वा, करिणिकायां पूर्व वत्कलशे स्थापयेत् ---
तत्र व्रीहिषु अनि यमः :---
याः फलिनीरिति रत्नौषदी प्रक्षिपेत् - ततः कुंभो परिस्थ पूर्ण पात्रोपरि सर्पोख्या माश्लेष प्रतमां, नमेस्त सर्पेभ्योः इति मंत्रेण आवाहयेत् ।।
श्लो ।। ततः सर्वो रक्तः त्रिनेत्रश्च द्विभुजः नील वस्त्रकः ।
फलकासि थरस्तीक्ष्णः दिव्याभरण भूषितः ।।
इति सर्पंध्यात्वा, तद्दक्षिणतः "बृहस्पते गृत्समदो, बृहस्पति स्त्रिष्टुप्" इति मंत्रेण प्रतिमायां बृहस्पति मावाह्यउत्तरतश्च "उदीरतां शंखः पितरस्वथा त्रिष्टुप्" अनेन पितृ प्रतिमा यां पितृ नावाह्य, प्रागादितः चतुर्विंशति पंकज दळेषु पूर्वा मारभ्य पुनर्वसु
पर्यंतं नक्षत्राणि तद्देवताश्च आवाहयेत् ।।
यथा अर्यमा - भंगः सविता - त्वष्टा - वायः - इंद्राग्नी - मित्रः - इंद्रः - निऋरुतिः - आपः - विश्वेदेवाः - विष्णुः - वसवः - आजैकपात् - अहिर्बुद्न्यः - पूषा - अस्विनौ - यमः - अग्निः - प्रजापतिः - सोमः - रुद्रः - अदितिरिति ।।
ततो लोकपाला नावाह्य, ततः आचार्यः अग्निं प्रतिमां, ग्रहांश्च, प्रतिष्ठाव्य, आन्वादध्यात् - नवग्रहन् प्रतेक ममुक संख्याभिः समिच्चर्वा ज्याहुतिभिः, बृहस्पतिं, पितरान्च, प्रतिद्रव्य मष्टाविंशति संख्याभिः, घृत मिश्र पायसान्न समिदा ज्याहुतिभिः, भगादि चतुर्विंशति देवताः प्रत्येक मष्ट संख्याभिः पायसाज्याहुतिभिः रक्षोहणं कृणुष्वेति पंचदश ऋग्भिः, प्रत्यचृ मष्ट संख्याभिः, कृसराहुतिभिः, सवितारं, दुर्गां ; त्र्यंबकं, ऋत्विक्स्तुतिं, वास्तोष्पतिं, अग्निं, क्षेत्राथिपतिं, मित्रावरिणे, अग्निं एताः प्रत्येक मष्ट संख्याभिः कृसराहुख्याभिः समिदाज्यचर्वाहुतिभिः, सोमंत्रयो दश संख्याभिः, पायसाहुतिभिः, रुद्रं चतुर्गृहीतेन आज्येन, अग्निं, वायुं, सूर्यं, प्रजापतिंच, आज्येन, शेषेणस्वि,्ट कृत मित्यादि, पूर्णपात्र निधानांतं कृत्वा, पायस कृसंचरूने श्रपयत्वा, आज्यभागान्तं कुर्यात् ।। ततो यजमानो दक्षिमतः सर्वदेवतोद्देश त्यागं कुर्यात् ।।
चचः ऋत्विक्सहितः आचार्यः होमं कुर्यात् । तद्यथा - नवग्रहान्, अधिदेवता प्रत्यधिदेवता विनायकादीन्, लोकपालांश्च, तत्तस्मंत्रैः हुत्वा, सर्वोभ्यो "नमोस्तु सर्पेभ्यो" इति मंत्रेण, बृहस्पतये पितृभ्यश्च, तत्तन्नंत्रैः द्रव्य चतुष्टयं तत्तत्संख्यया हुत्वा, भगादि चतुर्विंशति देवेभ्यः नाममंत्रेण, अष्ट संख्यया जुहुयात् --
ततः कृणुष्वेति पंचदशर्या गोतमो वामदेवो रक्षोहण स्त्रिष्टुपे कृसर होमे विनियोगः ---
गायत्री, सवितारं, जातवेदसे, कश्यपोदुर्गा, त्रिष्टुपे कृसरहोमे विनियोगः ---
त्र्यंबकं वसिष्टो रुद्रोनुष्टुपे कृसर होमे विनियोगः ---
सीरायुंजंतीत्यस्य बुधः सौम्यऋ -ं - ऋषयः - ऋक्त्सुतिर्देवता, गायत्री - ं - च्छंदः कृसर होमे विनियोगः ---
तामग्निवर्णां सौभरि दुर्गा त्रिष्टुप् कृसर - ं - होमे विनियोगः -
वास्तोष्पतेर्वसि ष्ठोवा वस्तोष्पति स्त्रिष्पुप्, कृसर - ं - होमे विनियोगः ---
गृणाना जमदग्नि र्मित्रावरुणौ गायत्री कृसरं - ं - होमे विनियोगः --
अग्निं दूतमित्यस्य अंगीरसो विरूपोग्निः, गायत्री कृसर - ं - होमे विनियोगः--
हिरण्यवर्णामिति पंचदशर्चस्य सुक्तस्य, आनंदः कर्दमश्चीक्ली तेंदिरासुता ऋषयः, श्रीर्देवता, आद्यास्तिस्रोनुष्टुभः - चतुर्दे प्रस्तार पंक्तिः ---
पंचमी षष्ट्यात्रिष्टुभौ, ततोष्टावनुष्टुभः अंत्या प्रस्तारपंक्तिः होमे विनियोगः ---
प्रतृन्चं समिदाज्य चरूनष्ट शतसष्टस्य तमसंख्यया जुहुयात् --
त्वन्नः सोम इत्यस्य चरूनष्ट शथष्टान्य तमसंख्यया जुहुयात् --
त्वन्नः सोम विश्वतोगोपा इतिवा मंत्रः - तवन्नः सोम सुक्रतुरितिवा - अनयोरैंद्रो विमदः सोम प्रस्तारपंक्तिः - तत श्चतुर्गृहीत माज्यं गृहीत्वा, यातरुद्रेति कश्यपो रुद्रः स्वराडनुष्टुप् । अनेन जुहुयात् - ततः स्रुवेणवस्त समस्त व्याहृतिभिः आज्यं हुत्वा स्विष्टकृदादि प्रायश्चित्त होमांतं कुर्यात् ।।
ततो दिक्पालकेभ्यो नवग्रहेभ्यो विनायकादिब्यः, निऋरुतये इंद्राये अद्भ्यो रुद्राय क्षेत्रपालायलाच, सदीपसूष बलीन् दद्यात् ।। ततः आचार्यो यजमानो वाचतुर्गृहीते नवा, द्वादश गृहेत्येव, स्रुचं पूर यित्वा, तत्र फलादिक मपधाय पूर्णाहुतिं जुहुयात् - तत्र मंत्राः समुद्रा दूर्मिरित्येकादश सूक्तस्य, गौतमो वामदेवो त्रिष्टुपे, अंत्या जगती पूर्णाहुति होमे विनियोगः ---
प्रजापेतये हिरण्यगर्भ प्रजापति स्तृष्टुप् पूर्णाहुति होमे विनियोगः ---
एतैः पूर्णाहुतिं हुत्वा, प्रणीतानि नयनादि कर्म शेषु समास्य, चतुः कुंभमध्ये पर्तिनं कुंभं दक्षिणतः स्मपृष्ठ्वा, त्र्यंबकमिति याजुषश्चेद्यजमानः ता रुद्रैकादशनीमपि जपेत् ।।
बह्वृचस्तु रुद्रसूक्तानि :--- सामगश्चेत् रुद्रसामानि - अरर्वणश्चेते त्रियंबक मंत्रमात्रं - अत्राप्येकादशाष्टत्रि द्व्येक संख्यया रुद्रजपः - शतं त्रियंबक जपः सर्वेषां - ततो रुद्र सर्पान् पंचोपचारैः संपूज्य. त्रियंबकं नमेस्तु सर्वेभ्यः इत्युपस्थाय, सर्वकलिळोदकं प्रात्रांतरे गृहीत्वा, सर्त्विगाचार्यो यजमानं सर्वौषधीभिः अनुलिप्तांगं धृत्य नववस्त्रं सपुत्रां पत्निमुपवेश्य, वक्ष्यमाण मंत्रैः अभिषिंचेत् । अत्रिभ्यामिति षण्णां । कश्यपो विवृहायक्ष्मनाशोनुष्पुपे अभिषेके विनियोगः - त्रिभिष्वं देवेति सप्तानां वसिष्ठऋषिः - आद्यानां त्रयाणां अग्निर्देवता तत श्चतुर्णां विश्वेदेवा आद्या गायात्री द्वितीयानुष्टुप् ततस्तिस्रोगायत्य्रोंत्ये, द्वेअनिष्टुभौ अभिषेके विनियोगः - आपोहिष्ठेत नवनांबरीषः सिंधुद्वीपऋषिः - आपोगायत्र्योंत्येद्वे अनुष्टुभौ, पंचमी वर्धमाना सप्तमी प्रतिष्ठा अभिषेके विनियोगः - आपइद्वेति द्वयो नप्तर्षयो विश्वेदेवा अनुष्पुप् - सहस्राक्षेणेति प्रजापते यक्ष्मनाशिनो यक्ष्महा त्रिष्टुप् ।।
ततः :---
श्लो ।। यीसौ वज्रधरो देवः महेंद्रो गजवाहनः ।
सर्पजातं शिशोर्दोषं माता पित्रो र्व्यपोहतु ।।
श्लो ।। योसौ शक्तिधरो देवः हुत भुके मेषवाहनः ।
सप्तजिह्वश्च देवोग्निः सार्पदोषं न्यपोहतु ।।
श्लो ।। योसौ दंडधरो देवः धर्मो महिष वाहनः ।
सर्पजात शिशोर्दोषं व्यपोहतु यमो मम ।।
श्लो ।। योसौ खड्गधरो देवः धर्मो महिष वाहनः ।
प्रशा मयतु सर्पोत्धं दोषं गंडांत संभवं ।।
श्लो ।। योसौ पाशधरो देवः गंडांत संभवं ।।
नक्रवाहः प्रचेतानः सार्पोत्थाघं व्यपोहतु ।।
श्लो ।। योसौ देवो जगत्प्राणो मारुतो मृग वाहनः ष
प्रशामयतु सार्पोत्धं दोषं बालस्य शांतिदः ।।
श्लो ।। योसौ निधिपतिर्देवः खड्ग भृद्वाजि वाहनः ।
माता पित्रोश्चिशोश्चैव सार्पदोषं व्यपोहतु ।।
श्लो ।। योसौ पशुपतिर्देवः पिनाकी वृष वाहनः ।
आश्लेषा मूल गंडांतं दोष माशुन्यपोहतु ।।
श्लो ।। विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः ।
सार्पदोष प्रशमनं सर्वे कुर्वंतु शांतिदाः ।।
श्लो ।। आश्लेषा ऋक्ष जातस्य माता पित्रो र्धनस्यच ।
भातृज्ञाति कुलस्थानां दोषं सर्वं व्यपोहतु ।।
श्लो ।। योसौ वागेश्वरोनाम अधिदेवो बृहस्पतिः ।
माता पित्रो शिशोच्चैव गंडांतं सव्यपोहतु ।।
श्लो ।। पितर स्सर्परोनाम अधिदेवो बृहस्पतिः ।
सर्पनक्षत्र जंबालं वित्तंच ज्ञाति बांधवान् ।।
सुरा, स्त्वेत्यादि भिरभिषिच्य, कच्छंयोःशं युर्विश्वेदेवाः सक्वरे अभिषेके विनियोगः ---
ततो रुद्र सर्प कलशोदकेन अन्येन च शतच्छिद्र धारयो, अभिषिक्तो यजमानः आचार्याय धेनुं, ब्रह्मणे वृषं, रुद्रजापिने कृष्ण मनड्वाहं, प्रतिमांच ऋर्वग्भ्यः, यथाशक्ि दक्षिणांच दत्वा, सर्पाणा मुत्तर पूजां विधाय, ताम्रपात्रे फल पुष्पादियुक्त मर्घ्यं गृहीत्वा ।।
श्लो ।। सर्वाधीश नमस्तुभ्यं नागानांच गणाधिप ।
गृहाणार्घ्यं मयादत्तं स्वारिष्ट प्रशांतये ।।
इत्यर्घ्यं दत्वा, उत्तिष्ठेति विसृष्य, संकल्प पूर्वक माचार्महसे प्रतिपाद्य आग्निं संपूज्य, गच्छ गच्छेति विसृज्य, यधाशक्ति ब्राह्मणान् भोजत्वा, सुहृद्युक्तः भुंजीयात् ।।
अ थ न क्ष त्र वि शे षे फ ल मु क्त ं
नृसिह प्रसादे :---
श्लो ।। चित्राद्यर्थे पुष्यमध्ये द्विपादे पूर्वापादे दिष्ण्यपादे तृतीये ।
जातः पुत्रश्चोत्तराद्येविधत्ते माता पित्रोः भ्रातुः आयुष्यनाशं ।। 1
श्लो ।। द्विमासंचोत्तरोदेषः पुष्येचैव त्रिमासकः ।
पूर्वाषाढेष्टमानं च चित्राषाण्मासिकं फलं ।। 2
श्लो ।। नवमासं तथाश्लेषा मूलेचाष्टक वर्षकः ।
ज्येष्ठमासाः पंचदश वर्जये त्पुत्रदर्शनं ।। 3
श्लो ।। यत्र शांतिः नोक्ता तत्र ग्रहमखः कार्यः ।
तस्माच्छांतिं प्रकुर्वेत ग्रहाणां कृरचेतसां ।। 4
इति वसिष्टेन सर्वक्तेः ।।
मात्स्ये - गर्गः :---
श्लो ।। दिवा प्रसूताबडबा श्रावणे च विशेषतः ।
माघामाने बृधेचैव प्रसूता महिषी यदि ।। 5
श्लो ।। सिंहे गावः प्रसूयंते स्वामिनो मृत्युदायकाः ।
जंगमे स्थावरं जातं स्थावरेवाध जंगमं ।। 6
श्लो ।। तस्मिन्योनि विपर्यासे परचक्रागमो भवेत् ।
त्यागो विवासोत्थानंवा कृत्वाप्याशु शुभं लभेत् ।। 7
श्लो ।। बडबा हस्तिनीगौःया यदि युग्मप्रसूयते ।
विजाति विकृतिं वापि षड्भिर्मानैः म्रियेतसः ।। 8
वियोनिषु कुर्वंति मैधुनं.
( अन्यत्र मैधुनोत्पत्तेः नृणां वाजाति मैधुनात् )
श्लो ।। सर्वे मूषक मार्जाल मत्स्यsश्वान विवर्जिताः ।
ज्ञयाः दुर्भिक्षकर्तारः स्वजाति पिशिताशनाः ।। 9
श्लो ।। अकालतोमदोद्रेकात् चतुष्पान्मृग पक्षिणां ।
अन्यजाति भयं तस्मात् धेनुश्वानोर्विशेषतः ।। 10
श्लो ।। अथा नड्वान नड्वाहं धेनुर्देनुं यभेद्यदि ।
शुनींवा यभते धेनुः शुनीधेनु मधापिवा ।। 11
श्लो ।। तिर्यग्योनौ मानुषीवा परचक्रागमो भवेत् ।
अमानुषाः मानुषाणि बल्पंति प्रणितोयदि ।। 12
श्लो ।। विकृतंवा प्रसूयेत परचक्रागमो भवेत् ।
त्यागो विलासो दानंवा तेषां कार्यं विजानता ।। 13
श्लो ।। तर्पये द्ब्राह्मणाने श्चैन बपहोमान् च कारयेत् ।
मृदंगवाद्यैः पटहैः सुशोभनैः पूजाच कार्या त्रिदशेश्वराणां ।। 14
धातुस्तधेज्य विधिनाचकार्या देयं तथान्नं बहुच द्विजेभ्यः.
अ थ सि ं हा दौ ग वा दि प्र स व शा ं तिः
अदभुतसागरे नारदः :---
श्लो ।। भानौ सिंहगतेचैव यस्य गौः संप्रसूयते ।
मरणं तस्य निर्दिष्टं षड्भिर्मापैः नसंशयः ।। 1
श्लो ।। प्रसूतां तक्षणादेव तांगां विप्रायदापयेत् ।
ततो होमं प्रकुर्वीत घृता क्तैः राजसर्षपै ।। 2
श्लो ।। आहुतीनां घृताक्तानां आयुतं जुहुयात्ततः ।
व्याङृतिभिश्चायं होमः मंत्रश्च देवतायाश्च
प्रजापति स्थिति वचनात् ।। 3
श्लो ।। सोपवासं प्रयत्नेन दद्या द्विप्राय दक्षिणां ।
वस्त्रमुग्मं यवांश्चैव सुवर्णं च प्रदापयेत् ।। 4
श्लो ।। पौषेच माहिषी भूते दिनेवाश्वतरी तथा ।
तदानष्टं भवेत्किंचित् तच्छांतौ शांतिकंचरेत् ।। 5
श्लो ।। अन्यवामेति सूक्तेन तद्विष्णोरिति मंत्रतः ।
जुहुयाच्च तिलाज्येन शत मष्टोत्तराधिकं ।। 6
श्लो ।। मृत्युंजय विधानेन जुहुयाच्च यथोदितं ।
श्री सूक्तेन ततः स्नायात् शांति सूक्तेनवा पुनः ।। 7
श्लो ।। मध्याह्नेवा निशीधेवा यदागोः क्रंदने सति ।
ग्रामेवा स्वगृहेवापि शांतिकं पूर्व वद्दिशेत् ।। 9
एवं श्रावणेच बडदा प्रसवोति वनिषिद्धः.
आधर्वण वेदिनां गौर्ग्य परिशिष्टे :---
श्लो ।। माघे बुधेच महिषी श्रावणे बडदादिवा ।
सिंहेगावः प्रसूयन्ते स्वामिनो मृत्युदायकाः ।। 10
अत्र तदुक्तामृताख्या शांतिः कार्या ----
विशेषो निर्णय सिंधौ ज्ञेयः --
इति सिंहादौगवादि प्रसव शांतिः.
अ थ वि कृ त प्रसव शांतिः
नारदः :---
श्लो ।। कृष्णागौः कपिलवासः कपिलं कृष्ण एवच ।
तच्छांतयेतु विप्राय दातव्यात क्षणान्नरैः ।। 1
श्लो ।। ततो होमं प्रकुर्वीत शांत्यर्धंतु यवैस्तिलैः ।
नमस्ते रुद्र मंत्रेण दक्षिणांतु प्रदापयेत् ।। 2
श्लो ।। यथा वित्तानुसारेण तत श्शांतिर्भनिष्यति ।
येन मंत्रेण होतव्यं तन्मंत्रंच तथा जपेत् ।। 3
श्लो ।। शतावर्तेति मंत्रेण जुहुयाच्चैव मंत्रिवित् ।
श्रफलस्थाश्च समिधः शिवार्धं जुहुयात्ततः ।। 4
श्लो ।। अष्टोत्तर शतंवासि गायत्र्याः जप उत्तमः ।
शातिकं प्रजपेद्विप्रः इदं विष्णुर्वि चक्रमे ।। 5
श्लो ।। सहस्र शीर्षा मंत्रेण जपे त्पौष्टिक शांतये । 6
आपस्तंबः :---
चतुष्पादं पंचपादमवा भवति तान्येतानि तान्येतानि सर्वाणि सूर्यदेवत्यानि अद्भुतानि स्रायश्चित्तानि भवंति - उदुत्यंजात वेद समिति स्थाली पाकाद्धुत्वा, पंचभिः आज्याहुतिभिः अभिजुहोति ---
सूर्याय स्वाहा । गृहादि पतये स्वाहा । किरण पाणये स्वाहा । ईश्वराय स्वाहा । सप्व पाप शमनाय स्वाहा । इतिव्या हृतिभिः हुत्वा अथ सामगायति ।।
इति कमलाकर भट्ट कृते शांतिरत्ने पितृ पुत्रयोः
विकृत प्रसव शांतः.

अ थै क न क्ष त्र शा ं ति ः
श्लो ।। एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृ पुत्रयोः ।
प्रगूतिश्चतयो र्मृत्युः भवेदेकस्य निश्चयः ।। 1
भ्रात्रोः भ्रातृ भगिन्योरित्यर्धः - पित्रोः नक्षत्रे पुत्रदुहित्रोः यति प्रसूति रित्यर्थः --
भ्रात्रोः पुत्रयोरित्यत्र भ्रातृ पुत्रौ स्वसृ दुहुत्यभ्या मित्येक शेषः ---
पित्रो रित्यत्र पिता मातेत्येक शेषः - मध्यम पदलोपि असमर्धश्च समा सश्चांदनः ---
ज्योतिर्निबंधे :----
श्लो ।। समानभे यदादेवि पिता पुत्रौच सोदलौ ।
भगिन्योवा स्वबंधूनां तदा पूर्वस्य नाशनं ।। 2
श्लो ।। तद्दोष नाशाय यदा प्रशस्तां शांतिंच कुर्यादभिषेच संच ।
संपूज्य ऋक्ष प्रतिमां तदाग्रे दानंच कुर्या द्विभवानुरापं ।। 3
श्लो ।। तत्र शांतिं प्रवक्ष्यामि सर्वाचार्य मतेनतु ।
शुभर्क्षे शुभवारे चंद्र तारा बलान्विते ।। 4
श्लो ।। रिक्ता विष्टिवि वर्ज्येव प्रार भेद्दिवसे सुधीः ।
आचार्यं वरये त्पूर्वं चतुर्श्च द्विजो त्तमान् ।। 5
श्लो ।। पुण्याहंवाच यित्वातु शांति कर्म समाचरेत् ।
अग्ने रिशान भागेतु नक्षत्र प्रतिमां ततः ।। 6
श्लो ।। तत्त दृ7ोक्त मंत्रेण पूजाये त्कलशोपरि ।
नक्षत्र मंत्राः अपस्तंब शाखिनां तृतीयाष्टके अष्टवाक्यैः प्रसिद्दाः ।।
विधानं तत्र कर्तव्यं जन्म नक्षत्र पूजनं ।। 7
नक्षत्र देवता पूजने तदधि प्रत्यथि देवता पूर्वक मिति निबंधोक्तेः ।।
श्लो ।। रक्त वस्त्रेण संबध्य वस्त्रयुग्मेन वेष्टयेत् ।
स्वशाखोक्तेन मार्गेण कुर्यादग्नि मुखं ततः ।। 8
श्लो ।। अनेनै वतु मंत्रेण हुने दष्टोत्तरं शतं ।
तत्त दृक्षो क्तेनेत्यर्धः
प्रत्येकं समिदन्नाद्यैः प्रायश्चित्तांतमेवच ।। 9
श्लो ।। अभिषेकं ततः कुर्याते आचार्यः पितृ पुत्रयोः ।
वस्त्रालंकार गोदानैः अचार्यं पूजयेत्पुनः ।। 10
श्लो ।। ऋत्विजां दक्षिणां दद्यात् माषत्रय सुवर्णकं ।
देवता प्रतिमादानं दानं वस्त्रादिभिस्सह ।। 11
श्लो ।। यानशय्या सनादीनि दद्यात् माषत्रय सुवर्णकं ।
भोजयेब्ब्राह्मणान् सर्वान् वित्तशाठ्य विवर्जितः ।। 12
अथ प्रयोगः :--
माता पित्रोः भ्रातृनक्षत्रो गोमुखं प्रसवंकृत्वा, देशकालौ संकीर्त्य, अस्य शिशोः पित्रादि नक्षत्रोत्पत्ति सूचित सर्वारिष्ट शांत्यर्धं एकनक्षत्र जनन शांतिं करिष्ये - इति संकल्प्य, गणेश पूजा ऋत्वि ग्वरणान्ते आचार्यः ऐशान्यां कलशं संस्थाप्य,तत्र रक्तवस्त्रे जन्नमर्क्ष प्रतिमां, तदृक्ष मंत्रेण, वस्त्रयुग्माद्यैः, पूजयेत् ।।
ततोग्निं ग्रहांश्च प्रतिष्ठाप्य, अत्र प्रधानं अमुकनक्षत्रं तद्देवतां वा समिच्चर्वाज्यैः, प्रत्येकं अष्टसंख्यया, शेषेम स्विष्ट कृत मित्यादि बलिदानांतं कुर्यात् ।।
ज्योतिर्निबंधेतु :---
श्लो ।। भक्त्या हरिहरौ देवौ स्वर्ण रूप्यमयौ शुभौ ।
इत्युक्तौ हरिहरौ संपूज्य --
विविधाकृति विश्वस्य पितरौ विश्वतोमुखौ ।।
प्रियेतां मुर्तिदानेन देवौ हिरिहरावुभौ ।
इत्याचार्याय, अन्यन्मैवा, दक्षिणां दत्वा, अभिषेकं कुर्यात् ।।
दान होम विदेः पश्चात् दानादन्वभिषेचनं इत्युक्तं ।।
पूर्णाहुतिं प्रणीता विमेकादि च कृत्वा, कलशजलेन अभिषिच्य, आचार्यय वस्त्रालंकारगाः ऋत्विग्भिश्च माषत्रयमितं सुवर्ण ं दत्वा, उत्तरपूजां कृत्वा, विसृज्य, आचार्यहस्ते दत्वा, यधाशक्ति धान्य वस्त्रयानं शय्यासनानि आचार्य ऋ्तविग्भ्यो अन्येभ्यो वादत्वा, विप्रान् भोजयेत् ।।
इति श्री नारायमभट्ट सुत रामकृष्णभट्ट सुत कमलाकर भट्टकृते शांतिरत्ने एकनक्षत्र शांतिप्रयोगः.
अथ व्यतीपात वैधृति संक्रमण प्रसव शांतिः
शौनकः :---
श्लो ।। अथातः संप्रवक्ष्यामि शौनकः शांति मुत्तमां ।
वैदृतौच व्यतीपाते महादोषोभिजायते ।। 1
श्लो ।। कुमार जन्मकालेतु व्यती पातश्च वैधृतिः ।
संक्र मश्चर वेस्तत्र जातो दारिद्य्रकारकः ।। 2
श्लो ।। दरिद्रातां महादुःखं व्याथिपीडा महद्भमं ।
आश्रियं मृत्यु माप्नोति नात्र कार्य विचारणा ।। 3
श्लो ।। स्त्रीणां शोकं च दुःखंच सर्वनाश करोभवेत् ।
शांतिर्वा पुष्कला कार्या तत्र दोषोन कश्चन ।। 4
श्लो ।। गोमुख प्रसवं कुर्यात् शांतिं कुर्या त्र्पयत्नतः ।
जपाभिषेक दानानि शांति होमं विशेषतः ।। 5
श्लो ।। नवग्रह मखं कुर्यात् तस्य दोषोप शांतये ।
प्रथमं गोमुखाज्जन्म ततः शांतिं समाचरेत् ।। 6
श्लो ।। गृहस्य पूर्व दिग्भागे गोमयेनानु लप्पत ।
अलंकृते सुदेशेतु व्रीहिराशिं प्रकल्पयेत् ।। 7
श्लो ।। पंच द्रोण मितं धान्यं तदर्धं तंडुलेनच ।
तदर्धंतु तिलैः कुर्यात् अन्योन्यो परि कल्पयेत् ।। 8
श्लो ।। द्रप्य त्रितय राशौतु अष्ट पत्रं लिखेद्बुधः ।
पुण्याहंवाच यित्वातु आचार्यं वृणुयात्पुरा ।। 9
श्लो ।। पंचांगं भूषणं दद्यात् पट्ट वस्त्रांगुळीयकं ।
राशौ प्रतिष्ठतं कुंभं अव्रणं सुमनोहरं ।। 10 श्लो ।। तीर्धोदकेप संगृह्य समृद्दौषधि पल्लवं।
सगव्यं गंध रत्नंच वस्त्रयुग्मेन वेष्टयेत् ।। 11
श्लो ।। तस्यो परिस्य सेत्पात्रं सूक्ष्म वस्तेण संयुतं ।
प्रतिमां स्तापयोद्धीमान् साधिपत्यदि देवतां ।। 12
श्लो ।। चंद्रादित्या कृती पार्श्वे मध्ये वैधृति मर्चमेत् ।
वैधृतिं तद्देवतां, रुद्रं - एवमेव व्यतीपाते शांतौ संक्रमणस्यच ।।
भानो रुत्तरतो रुद्रं अग्निं दक्षिणतो यजेत् ।। 13
वैधृतौ मध्ये रुद्रः - दक्षिणो त्तरयोः सूर्य चंद्रौ - संक्रम व्यतीपातयोर्मध्ये सूर्यः - दक्षिणोत्तरयोः अग्नि सूर्या वित्यर्धः ।।
श्लो ।। निष्क मात्रेण वार्धेन पादेनापि स्वशक्तितः ।
प्रतिमांकारये द्धीमान् तत्तल्लक्षण लक्षितां ।
तच्च दान परिभाषायां मयोक्तं ।। 14
श्लो ।। प्रतिमा पूज नार्थाय वस्त्र युग्मं निवेदयेत् ।
अधिदैवंभवे त्सूर्यः चंद्रः प्रत्यधि दैवतं ।। 15
श्लो ।। तत्तद्व्याहृति पूर्णेण तत्तस्मंत्रेण पूजयेत् ।
त्र्यंबकेन मंत्रेण प्रधान प्रतिमां यजेत् ।। 16
श्लो ।। उत्सूर्य इति मंत्रेण सूर्यपूजां समाचरेत् ।
आप्यायस्वेति मंत्रेण सोमपूजां समाचरेत् ।। 17
श्लो ।। उपचारैः षोडशभिः यद्वा पंचोपचारकैः ।
अर्चितं गंध पुष्पाद्यैः फल नैवेद्य मर्बयोत् ।। 18
श्लो ।। मृत्युंजयेन मंत्रेण प्रधान प्रतिमां स्पृशेत् ।
अष्टोत्तर सहस्रंवा अष्टोत्तत शतंतुवा ।। 19
श्लो ।। आष्टाविंशति मंत्रैवं प्रजप्यात्स्व स्वशक्तितः ।
सर्वं सौरं प्रजप्याथ सोमार्धं सोममंत्रतः ।। 20
श्लो ।। आनोभद्रेति सूक्तंच भद्रा अग्नेश्च सूक्तकं ।
जपेच्च पौरुषं सूक्तं त्र्यंबकं च ततः परं ।। 21
श्लो ।। कुंभं स्पृष्ठ्वा चतुर्दिक्षु जपं कुर्या स्तथर्त्विजः ।
कुंभस्य पश्चिमेदेशे स्थंडिलेग्निं प्रकल्पयेत् ।। 22
श्लो ।। स्वगृह्योक्त विधानेन कारये त्संस्कृतानलं ।
त्र्यंबकेन च मंत्रेण समिदाज्य चरून् हुनेत् ।। 23
श्लो ।। अष्टोत्तर सहस्रंवा अष्टोत्तर शतंतुवा ।
अष्टाविंशति होमंवा कुर्या त्स्वस्यशक्त्यनुसारतः ।। 24
श्लो ।। मृत्युंजयेन मंत्रेण तिलहोमं समाचरेत् ।
ततः स्विष्टकृतं हुत्वा अभि,ेकं च कारयेत् ।। 25
श्लो ।। समुद्र ज्येष्ठेति मंत्रेण आपोहिष्ठेति मंत्रकैः ।
आक्षीभ्यामितिसूक्तेन पावमानीभि रेवच ।। 26
श्लो ।। त्र्यंबकेनहि उत्सूर्य आप्यायन्वेति मंत्रतः ।
सूरास्त्व मिति मंत्रेण अभिषेकं समाचरेत् ।। 27
श्लो ।। आचार्यं पाजये त्पश्चाते वस्त्र हेमांगुळीयकैः ।
गोदानं वस्त्रदानं च हेमदानं विशेषतः ।। 28
श्लो ।। तद्दोषशमनार्धाय आचार्यय प्रदानयेत् ।
प्रच्छादन पटं दद्यात् ततः शांतिर्भविष्वति ।। 29
श्लो ।। जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाश्च तोषणं ।
दीनांधकृपणेभ्यश्च प्रदद्या द्भूरिदक्षिणां ।। 30
श्लो ।। ब्राह्मणाने शतसंख्याकान् मृष्टान्नै द्भोजयेच्चतान् ।
बंधुभि स्सहभुंजीत यथा विभव सारतः ।। 31
श्लो ।। एवं यःकुरुते मर्त्यः नै वदुःख मवाप्नुयीत् ।
आयुरारोग्यमैश्वर्यं माता पित्रो श्शिशोरपि ।। 32
श्लो ।। सर्वदुःख निवृत्तिश्च पुत्र पौत्र प्रवर्धनं ।
सर्वान्कामा नवाप्नोति सुखीभूत्वा चिरंवसेत् ।। 33
इति शौनकीये व्यतीपातादि शांतिः.
अथ प्रयोगः :--
गोमुख प्रसवं कृत्वा, देशकालौ संकीर्त्य, अस्य शिशोः वैधृति जननसूचित सर्वारिष्ट शांति द्वारा श्री परमेश्वर प्रीत्यर्धं, वैधृति जनन शांतिं करिष्ये इति संकल्प्य, - एवं व्यतीपात संक्रांत्येः एक दिने तत्सत्वेतु तंत्रे णैकैव शांतिः - अस्यत्पूर्ववत् संक्रांतौ दिने वैधृतिसत्वे देवता भेदाच्छांति द्वयं पृथक्कार्यं ततो गणेश पूजा पुण्याहवाचन नांदी श्राद्धाचार्यर्त्विग्वरणानि कुर्यात् ।।
तत्र आचार्यो यदत्रेति नर्षपान् विकीर्य , भूमिं प्रोक्ष्य, पूर्वस्यां महिद्यौरिति भूमिं, स्पृष्ट्वा, ततः ओषधयः समिति पंचद्रोणमितं तिल राशिं कृत्वा, उपरि समं कृत्वा, तत्र पंचवर्णैः अष्टदशं कृत्वा, तत्रा कलशेष्विति कुंभं प्रतिष्ठाप्य, इमंमे गंगेति तीर्थ जलेनापूर्य, तत्र सप्त मृत्तिकाः सर्वौषधीः - पंच पल्लव पंचगव्याष्ट गंध पंच रत्नानि निक्षिप्य, वस्त्रयुग्मेनावेष्य, पूर्ण पात्रो परि वस्त्रे वैधृति शांतौ द्याहृति पूर्वं त्र्यंबकं वसिष्ठो रुद्रोनुष्टुपे इति मध्ये रुद्रं, तद्दक्षिणे उत्पूर्य इति सूर्यं, तदुत्तरतः आप्यायस्वेति
सोम मावाहयेत् ।।
ततः पंचवा षोडशोपचारैः संपूज्य, रुद्र प्रतमांस्पृशन्, म्पत्युं जय मंत्र अष्ट सहस्रं अष्टाविंशतिंवा जपेत् - ततः सूर्य प्रतिमां स्पृशन्, सर्व सौरान् जपेत् ।।
यथा उदुत्यमि त्रयोदश सूक्तस्य कण्वपुत्रः प्रस्कण्वानवाद्या गायत्र्योंत्याश्चत स्रोनुष्टुभः - चित्रं देवानामिति षण्णा मांगीरसः कुत्सस्त्रिष्टुपे - इंद्र मित्रद्वयो रौचध्यो दिर्घ तपास्त्रिष्टुपे - हग्ंसः शुचिषदिक्यस्य गौतम पुत्रो वामदेवो जगती - यत्वा सूर्येत्यस्य त्रिष्टुप् - यदद्य सूर्ये त्येकस्य, उत्सूर्य इति तिसृणां - उद्वयंतानि सार्धश्चत सृणां, उदुत्य दर्शतामितिति सृणां मैत्रा वरुण स्त्रिष्टुप् अंत्या बृहतीशर्षः - शीर्ष इति सतो बृहती - तच्चक्षु रिति पुर उत्कृत् ।।
ब्रह्मह मसीदिद्वोर्ज मदग्निः पूर्वा बृहती उत्तरासतो बप-हती - समो मित्रस्येति द्वादश सूक्तस्य सूर्योभि तपाः सूर्यो जगती - सूर्योदिप इति पंचसूक्तस्य, सूर्य पुत्रश्टक्षु र्गायत्री - वित्राटे बृहदिति चत पृणां सूर्य पुत्रश्चक्षु र्विभ्राट् जगती - विभ्राजमित्यस्य प्रस्तार पंक्तिः - आयं गौरित्यस्य सार्पराज्ञी गायत्री, सर्वेषां सूर्यो देवता - ततः सोम प्रतिमां स्पृन् आप्यायस्वेति जपेत् - व्यतीपात संक्रमम शांतौ पूर्वं सौर जपः - ततः मृत्युंजय जपः ततश्चतुर्दिक्षु ऋत्विजः कुंभं स्पृष्ट्वा, अवोभद्रा इति सूक्तं - भद्र अग्नेरिति सूक्तं पुरुष सूक्तं त्र्यंबक मंत्रंच जपेयः - ततः आचार्योग्निं ग्रहांश्च प्रतिष्ठप्य अन्वादध्याते ।।
अत्रप्रधानं :----
रुद्रं अष्टसहस्राष्ट शतान्यतर संख्यया समिदाज्य च रुद्रव्येण, त्र्यंबक मंत्रेण, सूर्यं सोमंच अष्टविंशति संख्यया, समिदाज्य च रुद्रव्येण, व्यतीपात संक्रमणयोस्तु सूर्यं, रुद्र संख्ययाग्नि रुद्रौच, अनुष्टाविंशति संख्यया मृत्युंजयं त्र्यंबक मंत्रेण, तिलद्रव्येण अष्टसहस्राष्ट शताष्टाविंशति संख्ययावा शेषेण स्विष्टकृत मित्यादि ततः उक्तहोमं कृत्वा, सर्व शांतिषु तिलैः मृत्युंजय होमंकृत्वा, बलिदानांते पूर्णाहुतिं कृत्वा, समुद्रज्येष्ठा इति सूक्तेन आपोहिष्ठेति चाक्षेभ्यामिति सूक्तेन पापमानीभिः, रुद्र सूर्याग्नि मंत्रैः. सुरान्त्वेत्यादि पौराण मंत्रैः च अभिषिंचेयुः - ततो यजमानो रूपमित्याज्य मवेत्र्य, तत्वात्रं सदक्षिणं ब्राह्मणायदत्वा, आचार्याय वस्त्रद्वायंगां होमांगुळीयकादि सुवर्ण प्रच्छादन पटं दत्वा, ऋत्िग्भश्च दक्षिणादि दत्वा, उत्तर पूजां कृत्वा, विसृज आचार्यहस्ते प्रतिपाद्य अग्निं विसृज्य, शत ब्राह्मणान् ऋत्विजश्च भोजयेत् ।।
इति श्री नारायणभट्ट् कृष्ण भट्टात्मज जमलाकरभट्ट कृतौ
व्यतीपातादि शांति प्रयोगः.
शौनकः :---
श्लो ।। ग्रहणे चंद्र सूर्यस्यः प्रसूतिर्यदिजायते ।
व्याधिपीडा तधा स्त्रीणां आदौतु ऋतुदर्शनात् ।। 1
श्लो ।। इत्थं संजायते यस्य तस्य मृत्युर्नसंशयः ।
व्याधिपीडा च दारिद्र्यं शाकश्च कलहोभवेत् ।। 2
श्लो ।। शांतिं तेषां प्रवक्ष्यामि सराणां हितकाम्यया ।
यस्मिनृक्षे विशेषेण ग्रहणं संप्रजायते ।। 3
श्लो ।। तदृक्षाधिपतेः रूपं सुवर्णेन कल्पयेत् ।
सूर्यग्रहे सूर्यरूपं हिरण्येन स्वशक्तितः ।। 4
श्लो ।। चंद्रं चंद्रग्रहेधीमान् रजतेन विशेषतः ।
राहुरूपं प्रकुर्वीत नागेनैव विवक्षणः ।। 5
नागः = सीसः :---
श्लो ।। सुचौदेशे प्रयत्नेन गोमयेन प्रलेपयेत् ।
तस्यो परिन्यसेद्दीमान् नववस्त्रं सुशोभनं ।। 6
श्लो ।। त्रयाणां चैव देवानां स्थापनं तत्रकारयेत् ।
श्वेतवस्त्रं श्वेतमाल्यं श्वेत गंधानुलेपनं ।। 7
श्लो ।। सूर्यं संपूजयेद्धीमान् आकृष्णेनेति मंत्रतः ।
चंद्र ग्रहे तथा सम्यक् आप्याय स्वेति मंत्रतः ।। 8
श्लो ।। स्वर्भानोरिति मंत्रेण राहुं यत्नेन पूजयेत् ।
एवं संपूजना द्धीमान् समिद्भिश्छार्क संभवैः ।। 9
श्लो ।। चंद्र ग्रहेतु पालश समिद्भि र्जुहुयान्नरः ।
  दूर्वाभि र्जुहुयाद्धीमान् राहोः संप्रीम नायच ।। 10
?Bश्लो ।। समिद्भिः ब्रह्मवृक्षस्य शेषाय जुहुयाद्भुधः ।
आज्येन चरुणाचैव तिलैश्चजुहुयात्ततः ।। 11
।। इदं सर्पेभ्यः ।।
श्लो ।। पंचगव्यैः पंचरत्नैः पंचत्वक्पंच पल्लवैः ।
जलै रोषदि कल्कैश्च सहितैः कलशोदकैः ।। 12
श्लो ।। अभिषेकं प्रकुर्वीत यजमानस्य यत्नतः ।
मंत्रैर्वारुण संभूतै आपोहिष्ठादिभि स्त्रिभिः ।। 13
श्लो ।। इमंमेगंतु मंत्रेण तत्वायामीति मंत्रतः ।
अभिषेकेतु निर्तृत्ते यजमानः समाहितः ।। 14
श्लो ।। आचार्यं पूजयेत्पश्चात् सुशांतो विजितेंद्रियः ।
तस्माद्दद्या त्र्पयत्नेन भक्त्याप्रत कृतित्रयं ।। 15
श्लो ।। गांचैव दक्षिणां दद्यात् यजमानः समाहितः ।
अनेन विधिनाशांतिं कृत्वा सम्यग्विशेषतः ।। 16
श्लो ।। आकाल मृत्युं शोकं च व्याधिपीडां नचाप्नुयात् ।
सौख्यं सौमनसं नित्यं सौभाग्यं लभते सरः ।। 17
श्लो ।। इत्धं ग्रहण जातानां सर्वारिष्ट विनाशनं ।
कथितं भार्गवेणेदं शौनकाय महात्मने ।। 18
इति ग्रहण प्रसवशांति.

अथ यमळ जननशांतिः
भारते वृद्ध गार्ग्यः :--
श्लो ।। स्रीयागोर्बडबायाश्च यमळंचैव जायते ।
जानीयाद्य मतोभाति मारुतीं शांति माचरेत् ।। 1
श्लो ।। कारयेल्लक्ष होमंच बहुदानंच कारयेत् ।
भोजनं ब्रह्मणानांच दद्याद्गांचैव दक्षिणां ।। 2
श्लो ।। महिषीय मळोत्पत्तौ अन्यासांचैव जन्मनि ।
दद्याच्चैवतुता मैंद्रीं देशाद्वा विफ्रवासयेत् ।। 3
।। कात्यायन ।।
अथातो यमळ जनने प्रायश्चित्तं व्याख्यास्यामः ।।
श्लो ।। प्रायस्चित्तं भवेत् तस्यभार्यागौः दासीमहिषी ।
बडबावा विकृतिं प्रसवेत् पूर्णेद दशाहे ।
चरुर्णां क्षिरवृक्षाणां काषाय मुपसंहरेत् ।। 4
प्लक्षवटौ दुंबराश्वत्थ शमी देवदारु गौरसर्षपाः तेषामहो हिरण्यं दूर्वांकुरैः सपल्लवैः अष्टौकलशान्प्रपूर्य, सर्वौषधीभिः दंपती स्नापमित्वा, आपोहिष्ठेति तिस्सभिः, कयानश्चित्र इतद्वाभ्यां, पंचद्रोणपंच वारुणेनेद मापः प्रवहेते त्यपाद द्यमिति स्नापयित्वा, अलंकृत्य, तैःदर्भेघाप विश्य, तत्र मारुतं स्थालीपाकं श्रपयित्वा, आज्यभागा विष्ट्वा, आज्याहुतीर्जुहोति ।।
पूर्वोक्तैः स्नपन मंत्रैः स्थानी पाकेन जूहोति ---
अग्नये स्वाहा, सोमाय स्वाहै, पवमानाय स्वाहा, पावकाय स्वाहा, मरुते स्वाहा, मारुताय स्वाहा, मरुद्भ्यः स्वाहा, यमाय स्वाहा, अंतकाय स्वाहा, मृत्यवे स्वाहा, बह्मणे स्वाहा, अग्नये स्विष्टक्भते स्वाहा ।।
इत्येत देव गृहोत्पाते षुउलूकोग्रुध्रःक पोतो गृहं विशेत्, श्येनोवास्तंभः, प्रहोहे
द्वाल्मीकं मधुजालंवा, भवेदुद कुंभः, प्रज्वलते आसन शयनयानभंगे, गृहंगोधिका कूर्मकृकलाsशरीर सर्पैः प्रविष्टे, छत्रद्वज विनाशे, सार्पे नैऋते गंडयोगेषु अन्येषु उत्पातेषु, भूकंपोल्का पातादिष्वेवमेव गृहशांतिं चोक्त विधिना कृ्तवा, आचार्याय वरंदत्वा, ब्राह्मणान् भोजयित्वा, स्वस्ति दाचवा दाशिषः प्रति गृह्णीयादिति ।।
तावद्भह्वृच कारिकायां ।।
श्लो ।। अथयस्य वधूर्गौर्वा प्रसवेद्य मळौ तथा ।
समरुद्भ्यश्चरुं कुर्यात् पूर्णाहुति मधापिचेति ।।
ब्रह्मणे, सोमाय, अग्नये, मरुत्वते, त्रयोदशऱक पालं पुरोडाशं निर्वपेत् ।। आहुतीर्वा जुहुया दित्वुक्तं ।। अत्राहिताग्नेः श्रौतेन मारुतं त्रयोदशक पालेन समुच्चीयते ।।
इति यमश जनद शांतिः.

अथत्रिक प्रसवशांतिः
शांति सर्वस्वे :---
श्लो ।। त्रिसुतावा सुतास्तिस्रः जातायति नृणां तदा ।
माता पित्रोः कुलस्यापि तदनिष्टं महद्भवेत् ।। 1
श्लो ।। जातन्यैका दशाहेवा द्वादशाहे शुभेधिने ।
आदार्य ऋत्विजो वृत्वा ग्रह यज्ञ पुरस्सरं ।। 2
श्लो ।। ब्रह्म विष्णु महेळेंद्र प्रतिमाः स्वर्णतः क्रमात् ।
पूजयेद्धान्यराशिस्थ कलशो परिशक्तितः ।। 3
श्लो ।। पंचमे कलशे रुद्रं पूजये द्रुद्र संख्यया ।
रुद्र सूक्तानि चत्वारि शांति सूक्तानि सर्वशः ।। 4
श्लो ।। आचार्योजु हुयात् तत्र समिदाज्य तिलांश्चरुः ।
अष्पोत्तर सहस्रवा अष्टोत्तर शतंतुवा ।। 5
श्लो ।। ब्रह्मादिभ्यश्च देवेभ्यः दिक्षु ग्रह पुरस्सरं ।
ब्रह्मादि मंत्रैः रिंद्रस्य यत इंद्र भयामहे ।। 6
श्लो ।। ततस्विष्ट कृतं हुत्वा बलिं पूर्णाहुतिं ततः ।
अभिषेकं कुटुंजस्य कृत्वाचार्यं प्रपूजयेत् ।। 7
श्लो ।। हिरण्यं धेनुमेकांच ऋत्विजां दक्षिणां ततः ।
आज्यस्या वेक्षणं कृर्वा शांति पाठंतु कारयेत् ।। 8
इति त्रिक प्रसव शांतिः.

अथ सदंत जनन शांतिः
पाद्मे विष्णुधर्मोत्तरेच पुष्करः :---
श्लो ।। सदंत जन्मबालानां लक्षणं तन्निबोधमे ।
उपरि प्रथमं यस्य जायंते च शिशोर्द्विजाः ।। 1
श्लो ।। दंतैर्वा सहायस्यस्यात् जन्म भार्गवसत्तम ।
द्वितीये च तृतीये च चतुर्धे पंचमे तथा ।। 2
श्लो ।। यदादंताश्च जायंते मानेचैव महद्भयं ।
जनन्या जनकस्याथ स्वदेहात्म सएववा ।। 3
श्लो ।। तत्र शांतिं प्रवक्ष्यामि तांमे निगदतः श्रुणु ।
गजपृष्ठ शतं बालं नौस्थंवा स्नापयेद्द्विजैः ।। 4
श्लो ।। तदभावेतु धर्मज्ञ कांचनेतु वरासने ।
सर्वौषदै स्सर्वगंधैः बीजैः पुष्पफलैस्तथा ।। 5
(स्नापयोदित्यस्वय)
स्थापीपाकेन धातारं पूजयेत्तदनंतरं ।। 6
श्लो ।। सप्तापं चात्रकर्तव्यं तथा ब्राह्मणभोजनं ।
अष्टमेह निविप्राणां तथा देयात्र दक्षिणा ।। 7
श्लो ।। कांचनं रजतंगाश्च भूपं वा धनमेवच ।
आद्भुत सागरेतु सदंदोत्पत्तौ पंचदशी शांतिरुक्तीपाद्मे ।। 8
श्लो ।। दंतजन्मनि सामन्ये श्रुणुस्नान मतः परं ।
भद्रसने निवेश्यैवं मूर्ध्नि मूलफले तथा ।। 9
श्लो ।। सर्वौषधै सर्वबीजै सर्वगंधै स्तदैवच ।
स्नापये द्पूजयेच्चात्र वह्नि होमं समीरणं ।। 10
श्लो ।। पर्वातांश्च तथा ख्यातं देव देवंच केशवं ।
एतेषा मेव जुहुयात् हुतमग्नौ यथाविधि ।। 11
श्लो ।। ब्राह्मणानांच दातव्या यथाशक्त्याच दक्षिणा ।। 12
।। अद्भुत सागरे बृहस्पतिः ।।
श्लो ।। बालानामष्टमेमासि षष्टेमासि ततः पुनः ।
दंतायस्य च जायन्ते मातावाम्रियते पिता ।। 13
श्लो ।। बालकं फीडयेत्तत्र स्वयमेव म्रियेत्वा ।
दधि क्षिर घृता क्तानां अश्वत्थ समिधां ततः ।। 14
श्लो ।। हुनेदष्टशतं प्राज्ञः समंत्रेणतु मंत्रवित् ।
धेनुं च दक्षिणां दद्या दतस्संपद्यते शुभः ।। 15
ज्योतिर्निबंधेतु - अष्टममासादिषु शुभ इत्युक्तं.
अष्टमादिषु मानेषु दंतोत्थानं शुभ वहमिति.
इति सदन्तजात शांतिः

अ थ प्र स व वै कृ त शा ं त ः
विष्णुधरोत्तरे मात्स्येच :----
श्लो ।। अकाल प्रसवाः नार्यः कालतीत प्रजास्तथा ।
विकृतप्रसवाश्चैव युग्मप्रसवनं तथा ।। 1
श्लो ।। अमानुषा अमुंडाश्च अजातव्यं जनास्तथा ।
हीनांगा अधिकांगाश्च जायंतेयदि वास्तियः ।। 2
श्लो ।। पशवः पक्षिणश्चैव तधैव च सरीसृपाः ।
विनाशं तस्य देसस्य कुलस्य च विनिर्दिशेत् ।। 3
श्लो ।। निर्वासयेत्तान् वृपतिः स्ववोष्टात्
प्रियश्च पूज्यश्च ततो द्विजेंद्रः ।
चिकित्सकैः ब्राह्मण तर्पणैश्च
ततोस्य शांतिं समुपैति पापं ।। 4
उशनाः :---
श्लो ।। मानुषी जनयेद्यत्र द्वित्रिशीर्षान् तधा पशून् ।
षण्मासोत्धं भयं तीव्रं जायते नात्र संशयः ।। 5
वाराहेपिच :---
श्लो ।। अमानुषा न्मानुषीच तथाचैवाप्य मानुषी ।
प्रसूयंते प्रजानीयात् परचक्रागमे भवेत् ।। 6
श्लो ।। नीरीखरवृषोष्च्राश्च शुनः सूकर गर्दभान् ।
रक्षसांश्च पिशाचांश्च यदाप्येकं प्रजायते ।। 7
श्लो ।। चतुर्विधं भयं घोरं क्षिप्रमेव प्रवर्तते ।। 8
भारत मयूर वृद्ध गार्ग्यः ---
श्लो ।। यत्रगर्भ विपर्यासः मानुषाणांग वामपि ।
अद्भुतानि प्रसूयन्ते तस्यदेशस्य विप्लवः ।। 9
श्लो ।। अत्रापि शांतिः सहसाकार्या पंचदशैर्भुधैः ।
मानुषा मानुषाणांच गो जाश्व मृगपक्षिणां ।। 10
श्लो ।। जांयते जातिभेदाश्च सदंता विकृता स्तथा ।
बहुशीर्षा अशीर्षाव बहुकर्णा अकर्णकाः ।। 11
श्लो ।। एकशृंगा द्वित्रिशृंगाः तथै वत्रि चतुर्भुजाः ।
दिर्घकर्णा महाकर्णाः गडकर्णाश्च मानवाः ।। 12
श्लो ।। मानवाश्वापदा व्याघ्राः मार्जारा स्तनु धारिकाः ।
जायंते परुषा यत्र तत्र संग्राम मादिशेत् ।। 13
श्लो ।। राज्यश्रियः ततोनाशः धनस्य च कुलस्यतच ।
यवळायत्र जायंते नारेणां गजवाजिनां ।। 14
श्लो ।। ब्राह्मशांतिं ततः कुर्यात् यस्माद्ब्रह्म प्रशींतिदः ।
अष्टोत्तर सहस्राणि चतुंवै जुहुयाद्घृतं ।। 15
श्लो ।। समिधस्तु पलाशानां तर्पये त्पूर्ववत् द्यिजान् ।
दासीदास समायुक्तः गोधान्य फल संयुतं ।। 16
श्लो ।। कांचनं वृषभं वस्त्रं दद्या द्विप्राय दक्षिणां ।
अशिराजायते जन्तुः तथा द्वित्रिविरास्तथा ।। 17
श्लो ।। सूर्याद्बुतं विजानीयात् पूजयित्वा दिवाकरं ।
दध्याज्य मथु संयुक्ताः समिधस्त्वर्क संभवाः ।। 18
(युद्वाजनः प्रसृतिभिः जुहुयाद्घृत मेवच )
श्लो ।। धेनुं सुवर्णां वस्त्रंच दद्या द्विप्राय दक्षिणां ।
सर्वदोषाः विनश्यंति ततः संपद्यते शुभं ।। 19
श्लो ।। मृगं संजनयते सर्पं मंडूकांश्चाथ मानुषान् ।
बृहसवित्यद्भुत मिदं तद्वारेतं प्रपूजयेत् ।। 20
श्लो ।। जादुंबरस्य समिधः दधि सर्पिस मन्विताः ।
दोषोपशमनार्धाय जुहुयान्नियमे स्थितः ।। 21
श्लो ।। वस्त्रं सुवर्णं धेनुंच दद्याद्विप्राय दक्षिणां ।
स्त्रीगर्भ पातो यमळौ स्रनूयन्तेधवा स्तियः ।। 22
श्लो ।। सदन्ताश्चैव जायंते जातमात्राह सन्तिवा ।
बुधाद्भुतं विजानीयात् तद्वारेतं प्रपाजयेत् ।। 23
श्लो ।। वस्त्रंगांच सुवर्णंच दद्या द्विप्राय दक्षिणां ।। 24
इत्यद्भुत शांतयः

अ थ सु ख प्र स वो पा य ः
मदनरत्ने नारायणभट्टिकायां - करकीभूत गोमूर्धा सूतिका भवनेयदि
श्लो ।। तत्कालेनि हितोवायु सुख प्रसव काठकः ।। 1
अस्थिमात्रा वशिष्ट गोमस्तक ित्यर्धः :---
श्लो ।। उपोदक्यास्तु मूलानि तैल युक्तानि कारयेत् ।
योनौ प्रलेपो दातव्यः सुखं नारी प्रसुयते ।। 2
श्लो ।। वंश निंबयोस्त्वक् तुळसी मूलं कपित्थ पत्रंच ।
करपीर बीजमेतते पिष्ट्वा क्षीरेण माहिषेणवै । 3
श्लो ।। समतोलितं सतैलं योसिं लिप्त्वाच तेनासि ।
मृत गर्भं निस्सारयतीकी मत्र चित्रं सुख प्रसवे ।। 4
इति सुख प्रसवोपायः

अ थ बा ल र क्षा
श्लो ।। प्रथमेहानि गृह्णाणि बालकं गंधिनी गृही ।
गात्रोद्येरो निराहारः लालाग्रीवा विवर्तनं ।। 1
श्लो ।। निशीथे धातकीलोध्र मंजिष्ठा ताश चंदनैः ।
धूपमे न्महिषाक्षेण ततो मुंचति साग्रही ।। 2
बिलस्तत्रैव----
श्लो ।। मत्स्यमांस सूराभक्ष्य गंधा सृग्धूप दीपकैः । 3
मंत्रस्तु प्रयोगसारे ---
ओं नमश्चामुंडे भगवति विद्युज्णिह्वे स्वाहा, अपसर बंदुष्ट ग्रह हुं
तव्यथा गच्छंतु यतोन्यतः स्थाने रुद्र आज्ञापयति स्वाहा, विद्युज्जिह्वे
हां हीं हुं हुं मुंच मुंच स्वाहा ।।
बालग्रहाणां विधेयें शस्तो बलि निवेदने ।।
नारायणीये अस्य मंत्रः ।।
( चामुंडेयवश्च कंपिये ) ओं भगवति - हि - 7 - हु - 7 - राक्षां कुरु - बलिं गृहाण - 7 - फट् ठठेति ।।
श्लो ।। बाल ग्रहेषु सर्वत्र बलि मंत्रस्त्वयं स्मृतः ।
प्रयोगसारे ---
कदंबश्चकरं जश्च विभीतो निंब एवच ।। 4
श्लो ।। अश्वत्थो दुंबरौचैव श्लेष्मातक वटौ तथा ।
मातृ वृक्षाः क्रमेणोक्ताः पूर्वादीशां तदिग्गताः ।। 5
श्लो ।। प्रतिस्थळं प्रत्युदकं प्रति वृक्ष मथापिका ।
यत्रवारेच ये तत्र मात-णां बलि माहरेत् ।। 6
श्लो ।। कृत्वा विनाजनांतं बलिमिति विधिवत् बालमाहूय तत्र ।
संस्पृश्याद्भिः समंत्रं शिरसि सकुसुमैरक्षतै र्र्भामयित्वा ।। 7
श्लो ।। क्षिप्त्वाग्रे देवतायाः विथिवदु पहितै स्तत्रगीतै स्सुमंत्रै ।
कुर्याद्र7ां समक्षे क्षमविव विलयं याति दुष्ट ग्रहार्तीः ।। 8
निरिजन मंत्रस्तु ---
श्लो ।। ब्रह्म विष्णुश्च रुद्रश्च स्कंदो वैक्षवणस्तथा ।
रक्षंतु त्वरितं बालं मुंच मुंच कुमारकं ।। 9
श्लो ।। स्तुत्वाति रक्षा विधौ पादांतं शिरसः स्पृशेदमुना मंत्रेण
देहं शिशोः ।।
मजनरत्ने रावण सूनुकृते कौमार तंत्रे ---
संभेदकूलद्वाय मृत्तिकाभ्यां मूर्तिं विधायैककर प्रमाणं ।। 10
श्लो ।। त्रिलोचनां शूलक पाल पाणिं जटाधरां रुद्र तनुं दधानां ।
भुजंग भूषां भसितोज्वलांगी मंगीकृता शेषलालामलीलांः ।। 11
श्लो ।। अत्रमूर्तौ समावाह्य रुद्रं सर्वग्रहाधिपं ।
स्कंदादि पूतनायुक्तं पूजयेच्छं दनादिभिः ।। 12
श्लो ।। विरच्यतंडुलै श्शूर्पे चतुरस्त्रंतर द्वयं ।
यत्र संस्थाप्य पूर्वास्यां तांत दर्चाविधिंचरेत् ।। 13
श्लो ।। तत्तन्मंत्रैर्वि चित्रैश्च नानोप करणात्ततः ।
सोपस्कारांततस्तांतु निक्षिपेच्च चतुष्पधे ।। 14
श्लो ।। कार्पासास्थि मयूर पिंच्छ बृहती निंबास्र पंडीतकं ।
कुल्यं विट्छशजं वचा भुजगत्वाक्केषशाहि विर्मोककैः ।। 15
श्लो ।। नागेंद्र द्विजहिंगु भृंगु मरिचैस्तुल्यैश्च धूपः कृतः ।
स्कंदोस्मांस्तु पिसाच राक्षस सुरश्वास ज्वरघ्नः स्मृतः ।। 16
( तत्रैव )
श्लो ।। द्वितीये दिवसे मासि हयने वासुनंदवे ।
गृह्लाति पूतना बालं योगिनी स्वस्तिना पिवा ।। 17
श्लो ।। ततो भवेज्ज्वरः पूर्वं संकोचो हस्तपादयोः ।
दंतान् प्रखादत्यनिशं विमीलयति चक्षुषि ।। 18
श्लो ।। आहारं च नगृह्णाति दिवारात्रं च रोदिति ।
अक्षिरोगश्चर्दनं च भवेद्भीतिः पुनः पुनः ।। 19
श्लो ।। कृशत्वं च प्रजायेत् इत्येत च्छिशुलक्षणं ।
तंडुल प्रस्धपिष्टेन विनिर्मायाध पुत्रिकां ।। 20
श्लो ।। त्रयोदश ध्वजादीपाः स्वस्तिकायै बलोदवः ।
प्रस्थप्रमाणपिष्टेन सिद्धिपूजाश्च मत्स्यकाः ।। 21
श्लो ।। मांसं चेत्येतदखिलं पश्चिमायां दिशि क्षिपेत् ।
पश्चिमायांच संध्यायां एतद्दद्याद्दि नत्रयं ।। 22
श्लो ।। तृतीये दिवसे मासे वर्षेवा पूतनाभिदा ।
गृह्णीया द्योगिनीबालं तस्य पूर्वं ज्वरोभवेत् ।। 23
श्लो ।। प्रस्थप्रमाम पिष्टेन पुत्रिकां कारये त्ततः ।
रक्तोदनं द्वजोरक्ताः स्वस्तिको रक्त एवच ।। 24
श्लो ।। रक्तपुष्पं रक्तगंधः तथा रक्तानुलेपनः ।
पश्चिमायांतु संध्यायां उदीच्यां निक्षिपेद्बलिं ।। 25
श्लो ।। चतुर्धेहनि मासेतु वर्षेगृह्णति बालकं ।
तुषमंडनिकानाम पूतनावाथ यागिनी ।। 26
श्लो ।। भीषणाख्यः ततस्तस्य जायते प्रथमं ज्वरः ।
गात्रभंगश्चरु ज्मूधर्ध्नो वैवर्ण्यं चाक्षिमीलनं ।। 27
श्लो ।। वैकथ्यंश्वा मताश्वासः कंपोsरु चिरितींगितं ।
तिलपिष्टमयैः कृत्वा पुत्रिकां बल्विकंटकैः ।। 28
श्लो ।। अष्टागं रचयेत्पुष्पं शुक्लं शुक्ल ध्वजोर्जुनः ।
स्वस्तिकोर्ध्वं प्रस्थसिद्ध भक्तंदावध पूपकाः ।। 29
श्लो ।। त्रिसंध्यं पश्चिमांयां बलिदद्या त्प्रयत्नतः ।
गोशृंगं सर्पनिर्मोको लशुनं निंबपत्रकं ।। 30

मनुष्यकेश मार्जारलो मान्यजं घृतं तथा ।।
एतैश्च धूपयेदेक निशिसंध्या त्रयोपिच ।
पंचमे दिवसे मासे वर्षॆवा पूतना शिशुं ।।
बिकालिकाख्या गृह्णीया त्प्रधमं जायते ज्वरः ।
पिक्कास्वासश्च मूलंच गात्रभं गोsरुचि स्तथा ।।
तंडुल प्रस्थपिष्टॆन निर्मायाथतु पुत्रिकां ।
शुक्लोधनं ध्वाजाः पंचस्वस्तिकाः पंच स्विस्तिकाः ।।
पंचजोज्वलाः ।।
पंचदीपाश्च शुक्लानि कुसुमानिच चंदनं ।
अपराह्णॆ वृक्षमूले पश्चिमायां दिशिक्षिपेत् ।।
पंचसूदिषु चतुर्धदिनोक्तो दूपोपीति मदनरत्ने ।।
षष्ठेहनि तधा माने हायनेवापि बालके ।
पूतना शकुनिकानामा गृह्णीयात्तदनंतरं ।।
ज्वर उद्वेजनं गत्रे शोषः श्वासारुची तथा ।
कासश्च हस्तपादाक्षि संकोचश्चेति लक्षणं ।।
तंडुल प्रस्थपिष्टेन विर्नमायाथ पुत्रिकां ।
कृष्णोदनं ध्वजा पंचकृष्ण स्वस्तिपंचकं ।।
कृष्णमेवाथ पुत्रिकां पूर्ववत्कृत्वा पललं शूलपाचितं ।।
मत्स्या पर्पचिकाश्चैव रक्तं च प्रस्थसमितं ।
उदीच्यां पूर्वसंध्यायां बलिर्देयः प्रशांतये ।।
सप्तमे दिवसे मासे वर्षे वाशुष्करेवती ।
गृह्णाणि पूतनाबालं ततःस्यात्प्रथमं ज्वरः ।।
 गात्रंबोथ विद्वेष आहरे कंपरोदने ।
प्रस्थसं मितपिष्ठेन सम्यक्कृत्वाथ पुत्रिकां ।।
सप्तध्वजा स्सप्तदीपाः स्वस्तिकाः सव्तवैतथा ।
 पुष्पाण मत्स्यं मांसं च भक्तं चेत्युदगाहरेत् ।।
अष्टमे दिवसे वर्षे मासेवाsक्रमते शिशुं ।
बिजालका नामधेया पूतनास्य ततो ज्वरः ।।
गात्रभोदो रुचिश्चैव रोदनं नेत्रमीलनं ।
जिह्वशोष शिरस्फोटावा हारेद्वेष एवच ।।
तंडुलप्रस्थपिष्टेन पुत्तलींकारयेत्ततः ।
पायसं मदुसर्पिष्च क्षीरंलाजाश्च शष्कुलीः ।।
गुग्गुळं मेष मांसंच तथा पर्पचिका अपि ।
ध्वजादीपाश्च चत्वारो गंधा नानाविदा अपि ।।
सुमनांसिच रक्तानी त्येममत्रो दितो बलिः ।
 अमुं समाहरेत्तूर्व संध्यायां दक्षिणादिशि ।।
कृष्णाष्टम्यां वक्ष्यमाण मंत्रेणानेन संयतः ।
नवमे दिने मासे हायनेवापि बालकं ।।
गृह्णाति नंदनानाम्नी पूतना तदनंतरं ।
ज्वारश्च रिद्र्घृणा ज्ञानं कासश्श्वासश्च तृष्णता ।।
गात्रभंगश्च शूलं चिह्नान्येतानि बालके ।
प्रस्थमात्रेण पिष्टेन विनिर्मायच पुत्रिकं ।।
ओदनं मत्स्य मांसंच पर्पटीचेक्षु मूलकं ।
निक्षिपे त्पूर्वसंध्याया मुत्तरस्यां बलिं दिशि ।।
तत्र मंत्रः ।।
ओं नमो भगवते वासुदेवाय हुं फट् स्वाहा ।।
दशमे दिवसे माने हायने वथबालकं ।।
पूतना रेवती नाम्नी गृह्णीया द्बालकं ततः ।
ज्वरश्चर्दिः श्वासकासौ शूलं चेत्ये तदीरितं ।।
प्रस्थप्रमाणपिष्टेन पुत्रिकां तत्रकल्पयेत् ।
अष्टांगं खिलये तत्र बिल्ववृक्षस्य कंटकैः ।
गुडोदनं च सर्पिश्च ध्वजानां पंचविंशतिः ।
स्वस्तिकानां प्रदीपानां पंचविंशति रेवच ।।
चत्वारि रक्तपुष्पाणित्ये तद्दक्षिण दिग्गतः ।
संध्यात्रये वक्ष्यमाण मंत्रेणान विक्षिपेत् ।।
ओं नमो भगवते वासुदेवाय हन हन हुं फट् स्वाहा ।
एकादशे दिने मासे हायने पूतनार्चिका ।।
 गृह्णति बालकं पश्चाज्वरन्तस्य प्रजायते ।
अन्नद्वेषो मुखेशेषो गात्रभंगश्चरोदनं ।।
ऊर्ध्वदृष्टिरपीत्ये तल्लक्षणं तद्गृहीचि शोः ।।
पुत्रिकामाष पिष्टेन रजिता शुक्ल मोदनं ।
पुष्पाण्यपिच शुक्लानि ध्वजानां पंच विंशतिः ।।
स्वस्तिकानां प्रदीपानां पंचविंशति रेवच ।
एतत्सर्वं यधाशायां संध्यायां प्रातराहरेत् ।।
ओं नमो भगवते वज्रहस्ताय ओं फट् स्वाहा ।।
द्वादशे दिवसे मासे वर्षेवा पूतनाशिशुं ।
रोदनं सर्वदा दंतखादनं रक्तनेत्रता ।।
रोमांच स्नावइत्ये तदखिलं तस्य लक्षणं ।
तंडुल प्रस्थपिष्टेन कृत्वा तत्राधपुत्रिकां ।।
त्रयोदश स्वस्तिकाश्च ध्वजदीपास्त्रयोदश ।
अपपा मत्स्य मांसंच तधा पर्पचिकाअपि ।
एतत्सर्वं दक्षिणस्यां दिशि मंत्रेम निक्षिपेत् ।
ओं नमो नारायणाय हन दुष्टसत्वान् हुं फट् स्वाहा ।।
मदनरत्ने प्रयोगसारे । वर्षे त्रयोदशे बालग्रही गृह्णीति यक्षिणी ।।

तच्चेष्ट किलजप्त्वेंद्राक्षिं हृच्छूल ज्वररोदन हसनं ।
शाल्योदन सुरामांस मत्स्य कल्माष पायनैः ।।
दद्यात्प कृसरं शूर्पे मध्याह्ने त्रिदिनं बलिं ।
पिबेत्सर्पिस्ततो मुंचति साग्रही ।।
वर्षे चतुर्दशे बालं स्वच्छंदा नामतो गृही ।
गृह्णीतिचेष्टा तत्रस्या च्छोणित स्रपणं तथा ।।
शूलंच नाभिदेशेस्यात्तस्य नास्ति प्रतिक्रीया ।।
दुष्टग्रह शान्तावस्य पूर्वोक्तमेन निधान मित्युक्तं ।।
वर्षेपंच दशे बालं ग्रही गृह्णीति वारुणी ।
तत्रेदं चेष्टतं तंद्रा ज्वरो निद्रा विहीनता ।।
कुल्मष कृसरा पूप होळिका पायसासवैः ।।
सपूगकैर्बलिंदद्यात्र्ति रात्रं चापि धूपयेत् ।
चंदनेनाज्य संयुक्तं ततो मुंचति साग्रही ।।
षोडशे वत्सरे बलग्रही गृह्णाति दुर्जया ।।
तच्चेषा हसनं कोपोया स्यामीति वचो मुहुः ।।
कुल्माष कृसरा पूपतिल पिष्धान्न फल्गुकैः ।
दध्ना सहबलिंद द्यात्र्पा च्यांदीशि दिनत्रयं ।।
वर्षे सप्तदशे बालं ग्रही गृह्णाति बालकं ।
कास श्वासौच विज्ञेयौ नास्ति तत्र प्रतिक्रिया ।।
संवत्सर ग्रहाद्येते कुमारी पद पर्वकाः । आत्रा पशिष्टं समानं ।।
इति श्रीकमालाकर छट्टकृते शांतिरत्ने मदनरत्नोक्ता
बाल ग्रह शांतिः ।।

अ थ पू त ना वि धा न ं
तत्रलुब्ध जातकेस्कांदे । सूर्यं प्रतिस्कंच उवाच :---

योनकर्म विसाकेन शिशूनां जायते ग्रहः ।।
तत्सर्वं कथयिष्यामि पृच्छ तस्ते दिवाकर ।
लंकायां रावणोनाम पौलस्त्यो राक्षसेस्वरः ।
स्वसारस्तस्य वीरस्य द्वादशा सन् महाभयाः ।
ताभिः कृतंपो घोरं सर्वलोक भयप्रदं ।
पीडितं तात्रिरखिलं जगत्ती प्रतवो बलात् ।।
रुद्र आराधितस्ताभिस्तपसाती व्रतेजसा ।
प्रसन्नो भूत्तदा देवस्ताभ्य एवं परंददौ ।।
रुद्र उवाच :---
वरदोहं वरार्हाभ्यो युष्मभ्यं रजनीचराः ।
ताबिर्वृतंतदा भक्ष्यं बालानां देह संभवं ।।
वसासृज्ञ्मांस मेधोस्थि मज्जा शुक्रात्मकंरवे ।
देहि देहिस्य सर्वं भोजिवतो नोव शंकरु ।।
तच्छ्रत्वा वचनं तासांचुकोप परमेश्वरः ।।
ब्रह्मवंश समुद्भूतास्तपो वृत्ति परायणाः ।
तत्कथं बालघातेवश्चेतसः परिवर्तनं ।।
सर्वलोक मतं देयं प्रार्थि तंतुमनीषिभिः ।।
राक्षस्य ऊचुः ।। यदि प्रसन्नो भगवन् ददास्य स्मत्प्रियं शिव ।
सर्वेषामेव बालानां मेदसा तृप्तिरेवनः ।।
रुद्र उवाच :---
यास्ती निशामुखे श्नाति बाल स्पृशति भुंजति ।
प्रसूति समये भ्यंगं नकरोति प्रमादतः ।।
नग्ना निद्रति रात्रौवा निष्पन्न सुरतासती ।
तस्य बालं दिने मासे वर्षेपिच विसेषतः ।।
आद्येतु दिवसे मासे वर्षेचापि विमोचनि ।
गृह्णतु मत्प्रसादेन ज्वराद्यैर्वेदनोच्चयैः ।।
द्वितीयो मोहिनीनाम सुनंदा तृतीयके ।
चतुर्धे पूतना नाम पंचम्येह्या सुरीत्था ।
ष्ठषेतु पिशाचिका ।।
नवमे पाशिनीदेवी शिशुं गृह्णातु सत्वरं ।
महामारीतु दशमे काळिकातु ततः परं ।।
द्वादशे भागिनिदेवी पीडाकरण तत्परा ।
यूयमेव कुरुध्वंबोः पीडां बालिक विग्रहे ।।
आत्मनो दिवसे मासे वर्षेचापि पृथक् पृथक् ।
निमित्ते सति राक्षस्स्य श्शिशावेव कदाचन ।
युष्मभ्यं बलिदानं योवि दधत्यखिलं परं ।
गृहीत मपि बालंतं संतुष्टाः परिमुंचत ।।
इतिलब्ध वरास्सर्वान् ।
पीडयंति शिशून्‌हिताः ।
दिन मासाब्दिमानेन नात्रकार्या विचारणा ।।
प्रथमे दिवसे मासे वर्षेदेवी विमोचनी ।
तस्यास्तु जायतेपीडा शिशूनां तीव्रवेदना ।
ज्वरस्तु प्रथमस्तापं नेत्ररोग स्ततः परं ।।
नगृह्लाति स्तनंडिंभो वांतिरात्यंकी भवेत् ।
मुष्टिं बध्नामिवेगेन दंता न्दंतैर्दशत्यलं ।।
इत्थं प्रजायते पीडा विमोचिन्या दिवाकर ।।
तस्याः पूजां प्रवक्ष्यामि बालानां शांतिकारिणीं ।
करवीरं र्कपुष्पं चंदनं रक्तपुष्पं चंदनं रक्तवस्त्रकं ।।
धूपस्तु शिव निरमाल्यं साज्यं बिल्वदळं स्मृतं ।
दीपास्तु पंचविज्ञोया स्तथा पंचैव पोळिकाः ।।
मुष्टिका पंचविज्ञोयाः ध्वजाः पंचसुपीतकाः ।
तांबूलं वटकाः पंचपूगी फलसमन्विताः ।।
रक्ततंडुल भक्तस्तु प्रोक्तस्साज्य गुडस्तथा ।
शरावे नूतनेप्राज्ञ विधेयं सर्वमेवतत् ।।
ततस्तु पुत्तळीं कुर्यान्नद्या उभयतोमृदा ।।
निदध्या त्तत्रवैधीमान् पीतवस्त्र समावृतां ।
पीतसूत्रो पलीतांतां पूजये द्भक्तिमान्नरः ।।
पूर्वोक्तै रेवसंभरै गंधपुष्पादिभि र्बुधः ।
वक्ष्यमाणेन मंत्रेण पार्थयोत्तां समाहितः ।।
तत्र मंत्रः ।। ओं नमो भक्तवत्सले विमोचनि स्वाहा ।
एवं मंत्रं समुच्चार्य सर्वान् पूजां प्रकल्पयेत् ।।
एकस्निन्श रावे पुत्तलीं निधाय गंधादि तांबूलां तोपचारान्विधाय पंच पल्लवानेकीकृत्य बालकांगेभ्यः समुत्तार्य सौदकान् ।। ततः पुनर्नीराजनं विधाय तत्सर्वं रात्रौ मंत्रमुच्चारय उन्नयेत् । तेचपल्लवाः ।
जंब्वा म्रोदुंबरोश्वत्थ वटानां पल्लवस्थता ।।
सर्वांगेभ्यः समुत्तीर्य पीडा बालस्य संप्रजेत् ।
इदं नद्यां चतुष्पथेवा निक्षिपेदिति शिष्ठाः ।।
इत्थं रात्रित्रयोकुर्या द्विदानं सुसमाहितः ।।
ग्रामादुत्तरतोनित्यं पूर्वरात्रे विचक्षणः ।।
तस्मिन् स्थाने जपेन्मंत्रं बालाना शांतिहेतवे ।
एवं प्रशांति मायाति शिशुपीडा ससंशय इति लुब्दजातके स्कांदोक्तं प्रथमीदिवसमासाब्दे पीडा शमनविदानं ।।
स्कंद उवाच :----
द्वितीये दिवसे मासे वर्षेचैव दिवाकर ।
मोहिनीनाम देव ्यत्र कुरुते पीडनं शिशोः ।।
ज्वरं नेत्ररुजं कासं श्वासंचैव विशेषतः ।
छर्दनं स्तस्य विद्वेषं जनयत्यनिशं शिशोः ।।
तत्र शांति विदानंच प्रवक्ष्यामि समासतः ।।
मालती कुसुमैः पूजां चंदनं मलयोद्भवं ।
कुंकुमं केसरं दिव्यं कर्पूरं सविलेपनं ।।
दिव्याभक्ति सदाचारः दशांगं धूपकं तधा ।
नैवेद्यं पूर्ववद्देयं तथा स्यात्पूर्ववत्क्रिया ।।
पूर्ववत्तपुत्तलीं कृत्वा त्सर्वमं6ंद्रितः ।।
तत्र मंत्रः ।।
सर्वश्वरी सर्वजना प्रियंकरि त्राहि त्रहि जगत्सर्वं ओं नमो भगवति स्वाहा ।। इत्यनेनैच मंत्रेण सर्वं कृत्वा विधानकं ।।
रात्रित्रये विधातव्यं पश्चिमे ग्रामतोबहिः ।
प्रथमे यामिनीयामेकृतं भवति सौख्यदं ।।
इति द्वतीयदिवस पीडा शमन विधानसं ।।

स्कंद उवाच :---
तृतीये दिवसे मासे वर्षे शृणुविधिं रपे ।।
सुनंदनाम देव्यत्र बालानां भयदाबवेत् ।
अवस्थां कुरुते घोरां सुनंदाचैव भामिनी ।।
हृद्रोग छर्दनेश्वासो ज्वरेण सहजायते ।
अकुंच यति गात्राणि शिशू रोदत्य हर्निशं ।।
इत्थं संजायते सीडा सुनंदा कोप संभवा ।
तस्याः शांति विधानंच प्रवक्ष्यामि समासतः ।।
शत पत्राणि पुष्पाणि चंदनस्यानु लेसनं ।
हरिद्रा कुंकुमं नागकेसरं रोचनान्वितं ।।
गंध द्रव्यैश्च धूपंच दद्याद्गुग्गुलु संयुतं ।
घृताक्त खादिरांगरैः संप्रताप्य विरोचनं ।।
पूर्व वत्पुत्तलीं कृत्वाश रावे सन्निवेशयेत् ।
पसृत त्रयशालीना मोदनं सर्पिशान्वितं ।।
दीपकाः पोळीकाः पंचतावत्यो मुष्टिकाः स्मृताः ।
ध्वजां पंचैः व विज्ञेया स्सहिताः पंचपल्लवैः ।।
वक्ष्यमाणेन मंद्रेण बतिं सर्वं समाहरेत् ।
तत्र मंत्र ।।
ओं नमः सुनंदायौ हुं फट् स्वाहा । इत्यनेनैव मंत्रेण ग्रामात्पूर्वे विनिक्षिपेत् ।।
त्रिरात्रं रजनी पूर्वयामे बालोपंशांतये ।
एवं कृते विधानेतु सर्वव्याधिर्वि नश्यति ।।
वर्धते देव वद्बालः शुक्ल पक्षौब्जवत्सुखं ।
अब्जश्चंद्रः इति तृतीय दिन पीडा शमन विधानं ।।

स्कंद उवाच :---
चतुर्धे दिवसे मासे वर्षेचैव विभाकर ।
पूतना नामदेव्यत्र पीडं प्रकुरुते शिशोः ।।
संतापो जायते पूर्व मतिसारः ततः परं ।
मुष्टिं बध्नाति कंपश्च वारं वारं प्रजायते ।।
तस्याः श्यातिं प्रवक्ष्यामि पीडाया उष्णदीधिते ।
पूर्ववत्पुत्तलीं कृत्वा शरावेन न्निवेशयेत् ।।
वेष्टयेद्रक्त सूत्रेण कुंकुमेनानु लेपयेत् ।
पूजा दुत्तूर पुष्पैश्च बर्बरी पत्र पंयुतैः ।।
मत्स्यं मांसच धूपोत्रगव्ये नाज्येन संयुतः ।
त्रयो दीपास्रि कोणास्तु ।
ध्वजास्त्रयस्वमाख्याता नात्र कार्या विचारणा ।।
प्रसृति त्रय मुद्दिष्ठं तंडुलानां प्रभाकर ।
तद्भक्तं सर्पिषायुक्तं शरावे सन्निवेशयेत् ।।
रक्त वस्त्रेण संवीतां नमस्कृत्वातु पुत्तळिं ।
दध्याक्षतादि संरोप्य निदध्यात्तु समाहित ।।
पल्लवैः पंचबिर्बालं सर्वांगेषु प्रमार्जयेत् ।

मंत्रः ।।
ओं नमः पूतने मातर्बलिं संगृह्य शोभनं ।
बालकं मुंचवेगेन बलिदानेन हर्षिता ।।
इति मंत्रं समुच्चार्य सर्वं बलि मुपहरेत् । प्रदोषे क्षण निर्वित्ते सप्त सष्ते विधिं शृणु ।।
दक्षिणां दिशि माश्रित्य निक्षिमेद्ग्रामतो बहिः ।।
एवं कृते बलौ सम्यक् बालकः सुखमाप्नुयात् ।
इति चतुर्ध दिन मासादि पीडा शांति विदानं ।।

स्कंद उवाच :---
पंचमे दिवसे मासे वर्षेचैव प्रभाकर ।
असुरीनाम देव्यत्र बालकं बाधतेभृशं ।।
तत्र चिह्निं प्रवक्ष्यामि बालांगेय त्प्रजायते ।
ज्वरस्तु प्रदमं पश्चाद्दृद्रो गो गृहीणी ततः ।।
मुष्टु बंधः प्रलापस्या दुद्वेगोsनशनं तधा ।
शिरोरुग्जायते त्यंतमे तत्स्याल्लक्षणं रवे ।।
पर्व वत्पुत्तलीं कृत्वा पीतसूत्रेण वेष्टयेत् ।
पीत वासो वसानांतांश रावे सन्निवेशयेत् ।।
कृताभ्यंगो द्वर्तनेच हरिद्रा लेपनेकृते ।
ततः पूजां प्रकुर्वीत कुसुमैः करवीरकै ।।
जपा पुष्पैर्बंधुजालैः पुत्तश्यास्छ तथा नखु ।।
चंदनेनाम लिप्तांतां दिव्य गंधोप शोभितां ।
राजका सर्षपैर्धूपो घृताक्तोत्र प्रशस्यते ।।
दीपका स्सप्त वित्रोया ध्वजास्तावंत एवच ।
मुष्टिकाः पोळिकाः सप्तसाज्याक्त पटका स्तथा ।।
नैवेद्यार्थं समुदिष्ट मोदनं सघृतंबलिः ।
पल्लमैस्तु यधापूर्वं कारये न्मार्जनं शिशोः ।।
मंत्र मेतं समुच्चार्य त्रिवारं तत्रपूजनं ।
मंत्रः ।।
सुकले सुभगे देवी सर्वशतृ निवारिणि ।
कुरु शांतिं शिशोश्चास्य बलिदानेन राक्षसि ।।
इत्युच्चार्यक्षिपेत्पूर्वं मध्यरात्रे त्रिवासरं ।
पश्चिमां दिशिमाश्रित्य यामार्धा नंतरं रवे ।।
इति पंचम दिवसादिषु असुरी पीड शांति विधानं ।।

स्कंद उवाच :---
अथ षष्ठदिने माने वर्षेचापि दिवाकर ।
रेवती नाम देवत्य शिशुं गृह्णत्य संशयं ।।
तस्यादौ जायते पीडा प्रणानि शिशुमूर्धनि ।
ज्वरस्तु मुखिशोषो पितृष्णा पितृष्णा नमभिजायते ।।
प्रकंपति च गात्राणि रुदत्यपि पुनः पनः ।
तत्र शांति प्रवक्ष्यामि शृणु सूर्य समाहितः ।।
पूर्ववत्पुत्तलीं कृत्वा शरावे सन्निवेशयेत् ।
गंगातोयेन संस्नाप्य शुक्लवस्त्रेण वेष्टयेत् ।।
शक्लवस्त्रेण संवीतां शुक्लमाल्यानुलेपितं ।
शुक्ल धूपोत्र निर्दिष्टो बिल्वपत्रैः सहानघ ।।
आज्येनाक्ताश्च विश्वात्मन् दीपाः पंचप्रगीर्तिताः ।।
तावत्यो मुष्टिकाज्ञोयाः पोळिकाभिः समन्नीताः ।।
प्रसृति त्रयमात्राणां व्रीहिणा मोदनं स्मृतं ।।
दध्ना सहागुडेनाक्तं तांबूलं सुमनोहरं ।
द्वजैश्च पंचभिर्युक्तं बलिमेतं समर्पयेत् ।।
वक्ष्यमाणेन मंत्रेण प्रक्षिपेच्च समाहितः ।।

तत्र मंत्रः ।।
बलिंगृहाण सकलं बालं मुंच शुभानने ।
क्षेमं कुरु जगत्यस्मिन् सोभना भव रेवति ।।
इति मंत्रेण समंत्र्य प्रदेषे बलिमाहरेत् ।
संस्नार्य बालकं पंच पल्लवैः सुसमाहितः ।
नगरा दुत्तरेदेशे रेवत्यै बलिमाहरेत् ।
एवं प्रशांति मायाति बालपीडा प्रभाकर ।।
इति षष्ठदिनादि पीडाशांति विधानं ।।

स्कंद उवाच :---
सप्तमे दिवसे मासे वर्ष्यैव दिवाकर ।
शकुनि र्नामदेव्यत्र बालं गृह्णाति दारुणा ।।
ज्वर्स्तु प्रधमं तापच्छिरो रेगस्ततपरं ।।
प्रलाप स्त्वतिसारश्च वांति रात्यंतकी भवेत् ।
अक्षोर्निमीलनं चापि गात्रं कंपोभि जायते ।।
तत्र शांतिं प्रवक्ष्यामि सप्ताश्व प्रीतिवर्धनां ।
रक्तचंदन लिप्तांगीं पूर्ववत्पुत्तलीं कृतां ।।
यधाकालोद्भवैः पुष्पैः पूजये द्यत्नतः ।
सुधीः धूपस्तु गुग्गुलोश्रोयान् दीपाः पंचप्रकीर्तिताः ।।
पोळिका मुष्चिकाश्चैव पंच पंच सुशोभनाः ।
नै वेद्यं मोदनं सर्पिसहितं प्रसृतैर्मतं ।।
तंडुलानां सुर श्रेष्ठ मंत्रवूतं प्रकल्पयेत् ।
मंत्रः ।। पद्मपत्र विशालाक्षि पमाहरेत् ।
दक्षिणां दिशिमाश्रित्य विदध्याच्छांतिदां क्रियान् ।।
एवंकृते विधानेतु त्रिरात्रं सुरसत्तम ।
व्याधिमुक्तो भवेद्बालो नात्रकार्या विचारणा ।।
इति सप्तमदिवसादि पीडा शमन विधानं ।।
अष्टमे दिवसे मासे वर्षेदेवी पिळाचिका ।।
पीडयत्वेव बालान्यैज्वरचरधि शिरोरुजः ।
नेत्रपीजांग संकोचो हृद्रोगश्चाभिजायेत् ।।
श्रुणुतस्य प्रतीकारं योनतुष्ये त्पिशाचिका ।
प्रकुर्याच्च त्रिरात्रेण शांतिं बाला र्तिहरिणीं ।।
पूर्ववत्पुत्तलीं कृत्वा शरावेसन्निवेश येत् ।
पंचामृतैस्तु संस्नाप्य दिवींतां शिशुना सह ।।
चंदनेनानुलुप्तांगी श्वेतपुष्पैः प्रपूजयेत् ।।
थ्वजाः सप्तसंख्याता स्तवन्त्यः पोळिकास्मृताः ।।
मुष्टिंकाश्चापि विज्ञेया हरिद्राक्ता श्शुभास्मृताः ।
पीतवर्णेन वस्त्रेण सूत्रेणापि सुसंस्कृतान् ।।
विजयाचूर्णधूपोत्र घृताक्तः संप्रकीर्तितः ।
दीपाः सप्तघृतेनैव पूर्वयित्वा नियोजयेत् ।
प्रसृतित्रय भक्तस्य घृताक्तस्य विशेषतः ।।
नैवेद्यं कल्पयोद्दीमान् देवैभक्त्य सुसंयुतः ।
तांबूलंच सकर्पूरं भक्त्याभ्याशे विधीयते ।
शक्त्याच दक्षिणा तत्र देवता प्रीतयेरवे ।
पक्ष्यमाणेन मंत्रेण स्वरमेव विधीयते ।।
मंत्रः ।।
 ओं नमस्सर्वभूतेशि शोभनेत्वं पिशाचिके ।
बलिंचेमं गृहीत्वात्वं त्वरितं मुंच बालकं ।।
यथापूर्वं तथा कार्या पंचपल्लव सत्क्रिया ।।
त्रिरात्रं रजनीवक्त्रे ग्रामात्पूर्वं बलिंक्षिपेत् ।
एवं कृते विधानेतु रोग शांतिः प्रजायते ।।
इति ब्रह्मयामळोक्तं अष्टम दिवसादि बाधाशमनं ।।

स्कंदः उवाच :----
नवमे दिवसे मासे वर्षेचैव प्रभाकर ।
देवता पाशिनी नाम बालार्तिं कुरुते भृशं ।।
तत्र चिह्निं प्रवक्ष्यामि समासेन दिवाकर ।
ज्वर छर्दिगधे पीडा संकोचो नेत्रयोस्तथा ।
तर्जनी मध्ययो र्योग मग्राभ्यां कुरुते भृशं ।
अन्नत्यागोप संतोषो मुखे गंधोभि जायते ।।
तत्र शांतिं प्रवक्ष्यामि पाशिनी प्रीतयोरवे ।
पूर्व वस्तपुत्तवलीं कृत्वाश रावे सन्निवेशयेत् ।
शुक्ल सूत्रेण संवीतां शुक्ल वस्त्रेण वेष्टितां ।।
पूजयेच्चुक्ल पुष्पैस्तु मंदाराद्यैः सुगंधिभिः ।।
गंधार्धे घन सारेण युक्तं कंदन मर्पयोत् ।
सववास्तवापूपान् पोशीकान्नपचोत्तमान् ।।
तावन्तो मुष्टिका दद्यार्ध्वजां श्चैव तथैवच ।
नव प्रसृति मानेस तंडुलोदन मुत्तमं ।।
दध्याक्षीरेण चाभ्युक्षनै वेद्यं परिकल्पयेत् ।
मध्यरात्र त्रये ग्रामात्पश्चिमे प्रक्षिपेद्बलिं ।।
मस्त्रेणानेन पाशिन्यॆ मंत्रोच्छारण पूर्वकं ।
मंत्रः ।।
ओं नमः पाश हस्तायै रुद्र दत्तवर शुभे ।
ग्रहाणे मंबलिं दत्तं बालकं मुंच रोगतः ।।
एतावता विधानेन रोगमुक्तो भवेच्छिशुः ।
पंचानां पल्लवानांतु पूर्ववत्क्रियते क्रिया ।।
इति ब्रह्मया मिशोक्तं नवम दिनादि शांति विधानं ।।

श्री स्कंद उवाच :---
दशमे दिवसे मासे वर्षे चैव दिवाकर शक्ति रत्र महमारी राक्षसी घोररूपिणि ।।
मृत कल्पं ज्वरं शूलं विदधाति दिवानिशं ।
विष्टंभं कुरुतेत्यर्थं हिक्काकासं मतित्रयं ।।
तस्य शांतिं प्रवक्ष्यामि बालानां हित काम्यया ।
पूर्व वत्पुत्तळीं कृत्वा शरावेन निवेशयेत् ।।
स्नापये त्सरितां वार्भिश्चंदनेनानु लेपयेत् ।
पीतवस्त्रेण संवीतां पुष्प मालोप शोभितां ।।
दशांगं धूपये द्धूपं महामार्य्रै प्रकल्पयेत् ।
दीपास्तु पंचविज्ञेयाः तावंत्यः पिष्टमुष्टिकाः ।।
मुष्टिकाः पंचवै शस्ताध्वजाः पंच सुळोभनाः संस्कृतं सर्पिषा भक्तं तंडुलानांच पुष्कलं ।।
नैवेद्यार्थेन्य सेत्तत्र शरावे सुमनोहरं ।।
तांबूल सहितं भानो दक्षिणा सहितं तधा ।
दक्षिणार्धे नवं वस्त्रं रजतं शक्तितोपिवा ।।
पल्लवैः पंचबिर्युक्तं बलिं सर्वं समर्पयेत् ।
मध्यरात्रा दधस्तात्तु बलिं कुर्याद्दिनत्रयं ।।
दक्षिणां दिशिमाश्रित्य पश्चिमेन गराद्बहिः ।
मंत्रः ।।
ओं नमो रक्तवर्णाक्षि रक्त पद्मनिभानने ।
रक्तोष्ठे र्क्तदशने महामारि महाभये ।।
महाबले महाकाये महाभय निवारणे ।
अनेन बलिदानेन तुष्टाभव सुशोभने ।।
व्याधिना पीडितं रक्षत्वं परमेश्वरि ।
कानां हिनात्र कार्या विचारणा ।
इति ब्रह्म यामळोक्त दशमदिन पीडा शांति विधानं ।।
एकदशदिने मासे वर्षेचापि दिवाकर ।
काळिकानाम देव्यत्र तत्पीडाजायते शिशोः ।।
ज्वरस्तु प्रथमं तावत् हृद्रोगस्त दनंतरं ।
मुखशोषो महाग्लानि स्ततस्स्याच्चित्त विभ्रनुः ।।
तुदंति सर्वागात्राणिपे पंतिच पुनः पुनः ।
अवस्था मृत्यु कल्पास्याक्कालिका कोप संभवा ।।
तत्र शांतिं प्रवक्ष्यामि बालानां हितकाम्यया ।
पूर्ववत्पुत्तळीं कृत्वा शरावेसं निवेसयेत् ।।
गंगातोयेन संस्नाप्य चंदनेनानु लेपयेत् ।
करवीरस्य पुष्पैस्तु पूजये द्बर्बरीदळै ।।
धूपयेन्नरके शैश्च सर्पनिर्मोक नर्षपैः ।
वचाल शुनफैनैश्च घृतयुक्तैः स्सवर्जकैः ।।
दीपैस्तु पंचभिः सूर्य कल्पै र्नीराजयोत्तुतां ।
नैवेद्यं पायसं क्षीरं पाष्टिका स्तिल मोदकाः ।।
आपूपा मुष्चिकाः पोळीः पंच पंच प्रकल्पयेत् ।
ध्वजाश्च पंचविच्ञेया श्शरावे सर्वमेवतत् ।।
निवेश्य सकलंदेव्यै काळिकायै निवेदयात् ।
मंत्रेणानेन सप्ताश्व वक्ष्यमाणेनतेमया ।।
ओं नमो घोररूपायौ घोरायै घोरदर्शने ।
त्राहि सर्व ं जगद्धात्रि बालं मुंचाबलं प्रिये ।।
एवं विधं विधिं कुर्यात्पूर्व वत्पल्लव क्रियां ।
एवं कृते विधानेतु रोगमुक्ति र्भवेच्छिशोः ।।
बलिः प्रदोष समयो ग्रामाद्दक्षिणतो बहिः ।
निधाय मंत्र मुच्चार्य रक्षाकार्या विभूतिना ।।
इति ब्रह्मा यामळोक्तैकादश दिन मासाब्द पीडा शमनं ।।

स्कंद उवाच :---
द्वादशे दिवसे मासे वर्षेचैव दिवाकर ।
भामिसी नामदेव्यत्र पीडयत्य निशं शिशुं ।।
आदौ ज्वरं प्रकुर्याच हृद्रोगं तदनं तरं ।
कासं श्वासं त्वतीसारं प्रलापं बृंभणं तथा ।।
कंपंति सर्वगात्राणि तथा जाड्यं च नेत्रयोः ।
इद्धं नानाप्रकारैश्च शिशूनां जायते गदः ।।
तत्र शांतिं प्रवक्ष्यामि बालानां हितकारिणीं ।
पूर्वव त्पुत्तळीं कृत्वा शरावे सन्निवेशयेत् ।।
गंधपुष्पाक्षता दूपदीपाश्च विविधामताः ।
नै वेद्यं विविधं चात्रभूमिन्यै परिकल्पयेत् ।।
वस्त्रं सुक्ष्मं ध्वजं छत्रमोदनं पायसान्वितं ।
अपूपैः पायवैः क्षीरपाष्टीकाभिश्च संयुतं ।।
नैवेद्यं कल्पयेद्भ्यक्ता संध्याकैले विशामुखे ।
ग्रामादुत्तरतोदेशे बलिं दद्यान्न संशयः ।।
इत्थं पंचदिनेष्वेव कर्तव्यं रोगमुक्तये ।
मंत्रेडा नेन सप्तास्व मंत्रये त्सर्वतोबलिं ।।
बलिं ग्रहाण बालस्य व्याधिं संहर संहर ।
पंचवक्त्र प्रसादेन प्रसन्ना भवभामिनी ।।
एवं कृते विधानेतु बालकः क्षेममाप्नुयात् ।
इत्थंते कथितं सूर्य शांतिकं लुब्धजातके ।।
इति द्वादशदिन मासाब्देषु स्कांदोक्तं हीडा शमसविधानं ।।
इति पूतनाविधानं समाप्तं ।।