शान्तिकमलाकरः/पञ्चमः भागः
← चतुर्थः भागः | शान्तिकमलाकरः पञ्चमः भागः [[लेखकः :|]] |
षष्ठः भागः → |
अथ ज्वरोत्पत्तौ नक्षत्र शांतयः
तत्र मदनरत्ने - आत्रेय उवाच :---
अथ नक्षत्र परिज्ञानं वक्ष्ये ।। अश्वनी त्रितारा - स्त्री - अश्वमुभी - तिर्यङ्मखी - पीतवर्णा - कांचि वृक्षः - कनकपक्षी - लघुः - अश्वनौ देवता - देवगणः - योनिर्वाजी - अक्षरे आकार आकारौ - ऋतुगमन चौळ श्रात्थ वस्त्री धारणान्न प्राशन भैषज्य बीजानापन नाशि केरेक्षु स्थापनवस्तु संग्रहणादि कुर्यात् ।। पंचाशन्नाडि कांते चतस्रो विषनाड्यः - मकरमासे शून्यं - बुधवारे मृत्युयोगः - अर्कवारे आनंद योगः - केचित्कलह मिच्छंति - भौमवारे सिद्धयोगः - मुद्रान्न भोजनं कृत्वा यात्रां गच्छेत् - आयुद संग्रहंच कुर्यत् - तस्मिन् मध्याह्ने रक्त मेघोत्पत्ति श्चेत्पंचदिनेष दिनेवा वृष्टिस्वप्यत् - तद्दिने कुजवारे विष्नुं ज्वरोत्पत्तिश्चे द्दशदिना पीडा - नीलोत्पल पुष्पैः पूडा - गुग्गुलु धूपः - क्षीर लड्डुक नैवेद्यं - देवस्यत्वेति पूजा मंत्र विधिः - क्षीर वृक्ष समित्प्रथान द्रव्यं - गायत्य्राष्ट शतं हुत्वा दध्योदनं बलिं दद्यात् - एकादश दिनादारभ्य पंच विंशति दिनांते सुखीस्यात् - संक्रमे मध्य मोर्घः - आत्र कर्तादेश कालौ स्मृत्वा ममामुक नक्षत्रै ज्वरोत्पत्ति सूचित सर्वारिष्ट शांति द्वारा क्षिप्रारोग्य सिध्यर्ध ममुक नक्षत्र शांतिंकरिष्ये - इति संकल्प्य - गणेशं संपूज्या चार्यं वृणुयात् - आचार्यस्तु होम देशादीशान्ये महीद्वौरिति भूमिं स्पृष्ट्वा - ओषदयः समिति यवान्नि क्षिप्य आकलशेष्वति कुंभं निधायोमंमे गंगेत्यप आपूर्य - गंधद्वारा मिति गंधं - या ओषदीरिति सर्वौषधीः - कांडात्कांडादिति दूर्वाः - अश्वत्थेव इति पंच पल्लवान् - स्योनापृथिवीति सप्तमृदः - याः फिलिनीरिति फलं ।। सहिरत्नानीति पंचरत्नानि - हिरण्यस्तूप इति हिरण्यंच क्षिप्त्वा - युवासु वासा इति वास सावेष्ट्य - पूर्णा दर्वीति पूर्णपात्रे वस्त्रोपरि द्वादश दळं पद्मं कृत्वा - नक्षत्र देवतां प्रति मायां तन्मंत्रेणावाह्य परितो द्वादश दळेषु संकर्षण वासुदेवादि द्वादश देवता आवाह्य दिक्पालांश्चा वाह्य तत्र तत्रोक्त गंध पुष्प धूप दीप नै वेद्यैः संपूज्याग्निं प्रतिष्ठाप्य तदुक्त द्रव्यैर्गायत्रष्टोत्तर शतं नक्षत्र देवतायै संकर्षणादि भ्योष्टौ चत्रस्र एकांवा आहुतिं हुत्वा स्विष्ट कृदादि प्रणीताविसर्जनांते द्रव्यैर्बलिं दत्वाsचार्याय दक्षिणां दत्वा कुंभोदकेनाभिषेकं कृत्वा विसृज्य प्रतिमादिक माचार्याय दत्वा अग्निं निसृज्य ब्राह्मणान् भोजयेदिति प्रयोग संक्षेपः ।। एव मग्रेपिज्ञेयं ।। 1 ।।
भरणी त्रितारा - त्रिकोणाकृतिः - स्ती - अथोमुखी - यमो देवता - उग्रा - मनुष्यगणः - गडयोनिः - आमलकोवृक्षः - पक्षी कुक्कुटः -- अक्षऱे इकार ईकारे - मध्याह्ने रक्तमेघोत्पत्तिश्चेत् षोडशदिने वृष्टिःस्यात् - कुजवारे विघ्नं - द्रव्य संग्रहं बृहती कारवल्लिका स्थावनं च कुर्यात् - चतुर्विंशति नाड्यंते विषनाड्यः - फाल्गुने
मासि शून्यं ।। बुध सप्तमीब्यां सहयोगे विषयोगः - बुधवारे नाशयोगः - अर्कवारे यमकंटकः - अन्यांशे दिन मृत्युः - कर्काटक चापलग्ने कुजंशके धान्यसंग्रहणं - तस्मिन् लग्ने च कृषिं कुर्यात् - ज्वरोत्पत्तौमृत्युः - संदेहोवा - गुडा पपं नै वेद्यं - कृष्ण सुरभिपुष्पं - महिसाक्षो धूपः - त्रियंबक मिति पूजामंत्रः - घृत मधु तुला होमद्रव्यं - पंचदिनांते गायत्र्याष्टोत्तरशतं जुहुयात् - एकविंशति दिनांते सुभीस्यात् - नशांतिश्चेन्मृत्युः - वृषभ वृश्चिक कन्या सुभद्रा नवम्यौविना सोमांगारक बुधानां वारेषूदये भूमिदर्शनं - संक्रमे अल्पोर्घः ।। 2 ।।
कृत्तिका षट्तारा - क्षुराकृतिः - स्त्री - अथोमुखी अग्निर्देवता - मिश्रा - राक्षसगणः - पीतवर्णः - पीतवर्णः - अडयोनिः - उदुंबरवृक्षः - पत्रिणौ क्रौंचकाकौ - अक्षरे उकार उकारे - दधि प्रश्वयात्रां गच्छेत् - मुद्गान्नं श्यामकंच दद्यात् - भूषणं दद्यात् - त्रिंशन्नाडि कांते विषनाडिका - कार्तीकमासे शून्यं - बुधवारे मृत्युयोगः - नारिकेळक्रमुकैला लवंग स्थापनं कुर्यात् - ज्वरश्चेन्नव दिनानि पीडा घृतोदनं नै वेद्यं - मल्लिका पुष्पपूजा - सिर्पिर्दूपः - पुनंतमा देवजना इति पूजा मंत्रः - सावित्र्याष्टोत्तर शतं दध्यो दनं जुहुयात् - सक्रमेल्पोर्घः ।। 3 ।।
रोहिणी पंचतारा - त्रिकोणाकृतिः - स्त्री - ऊर्ध्वमुखी - प्रजापति र्देवता - धृवा पीतवर्णा - मनुष्यगणः - सर्पयोनिः - जंबूवृक्षः - दक्षिणौ मयूर कुक्कुटौ - अक्षरे ऋकारौ - ऋतुगमन सीमंत नामकरणान्नप्राशन चौलोपनयन विद्यारंभ कलष स्थापन सादुकर्माणि कुर्यात् - चैत्रमाने शून्यं - चत्वारिंश स्युग्रयोगः - गुरुवारे विषियोगः - शुक्रवारे मृत्युयोगः - मंदवारे सिद्धयोगः - स्धिरराश्यां विलग्निस्थेर्कजे धान्यसंग्रहं कुर्यात् - ज्वरश्चेद्दिनानित्रीणि नववापीडा - क्षीरान्नं नै वेद्यं - कमलघृतं सर्वाध्यान्यानिच होमद्रव्यं - सावित्राष्टोत्तर शतं हुत्वा क्षिरान्नेन प्रजापतये बलिं दद्यात् - द्वितीयदिनारभ्य नवदिनांते सुखीस्यात् - संक्रमे अर्घवृद्धिः ।। 4 ।।
मृगशिर स्त्रीतारा - मृगशिरा कृतिः - नपुंसकः - सोमो देवता - मृदुः - देवगणः योनिस्सर्पः खदिरो वृक्षः - मयूरः पक्षी - लृकारोक्षरं - तिर्यङ्मुखं - मृग मांस भक्षणं कृत्वाया त्रांगच्छेत् - इंद्रचापे धृष्टेष्टदिने वृष्टिस्यात् - ऋतुगमन सीमंत नामकरणन्न प्राशन वेदोप क्रमयाग विद्यारंभ कर्णवेधन स्नानविवाह बीजावापनाभिषेक वास्तु कर्मगो संग्रहणानि श्राद्धंच कुर्यात् - चतुर्दशनाडि कांते विषघटिका - कार्तीकमासे शून्यं- गुरुवारे मरण योगः - मृतिश्च षष्ट्या सहोग्रयोगः - रविवारे आनंदयोगः - चंद्रेसिद्धयोगः - चंद्रवारे चंद्रोदये वृषलग्ने मध्ये स्थापन कार्यं कुर्यात् - फल वृद्धिस्यात् - अस्निन् लग्ने विवाह भूमौ मृत्सं ग्रहणं कुर्यात् - आत्म साद्भति - सस्य स्थानं कुर्यात् - ज्वरश्चे त्पंचदिने पीडा - पायसं नैवेद्यं - कुमुदो त्पल पुष्प पूजा - दशांगो धूपः - नवो नवइति पूजा मंत्रः ।। मुद्गतिल पंचगव्यानि होमद्रव्यं -
सावित्र्याष्टोत्तर शतं हुत्वा मुद्ग तिलैश्चंद्रादय बलिं दद्यात् - पंचदिना दारभ्य नवदिनांते सुखीस्यात - संक्रमे मध्यमोर्घः ।। 5 ।।
आर्द्रा एकतारा - स्त्री - रुद्रदेवता - तीक्ष्णा पीतवर्णा - ऊर्ध्वमुखी - मनुष्यगणः - श्वयोनिः - कृष्णखदिरो वृक्षः - पक्षीपिंगळः - एकारैकारोक्षरं - एकविंशति घटिकां विषनाडिका - अमुतं पीत्वायात्रां गच्छेत् - इंद्रचापश्चेद्वृष्टिर्नास्ति - मेषलग्ने मेघ परिवारश्चेत्पंचदिने सप्तदिनेवा वृष्टिस्यात् - तत्काले कुडोदयो वृषलग्नेद्रव्य संग्रहणं विद्यारंभं कर्णवेधनं श्राद्धंच कुर्यात् - गुरु वारे मृत्युयोगः - सनंदार्के मरणयोगः - द्वितीयांशे दिनमृत्यु - मंदवारे मंदोदये सेतुबंधः - अर्क कुजवारे कर्काटकलग्ने औशद सेवां कुर्यात् - अस्निन् लग्ने विद्यारंभश् कार्यः - ज्वरच्चेन्मृत्युः - दिनान्येक त्रिंशत्पीडा - (गुडघृतंवासो हलकं नैवेद्यं ) दुत्तूर पुष्प नरक रंजि वृक्षः - अगरुधूपः - नमः शंभवेति पूजा मंत्रः - मध्याज्यं होमद्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - पायसान्नेन रुद्रायबलिं दद्यात् - पंचदिनादारभ्य दशदिनांते सुखीस्यात् - अधवामृतिः - संक्रमे समोर्घः ।। 6 ।।
पुनर्वसुः षट्तारा - नावाकृतिः - इदितिर्देवता - चरा देव गणः - मार्जालयोनिः - वेणुवृक्षः - वायुसपक्षि - अक्षरे ओकारौकारौ - पुमान् - तिर्यङ्मखी - ऋतुसंगम सीमंत नामकरणान्नप्राशन चौलोपनयन विद्यारंभ सूतिकाभैषज्य वास्तुकर्म देवताप्रतिष्ठा वस्त्राभरणधारणाभिषेक बीजावापन यात्रादि कुर्यात् - त्रिंशन्नाडि कांते विषनाडिकां - मिधुनमासि यात्रादि कुर्यात् - त्रिंशन्नाडि कांते विषनाडिकां - मिधुनमासि शून्यं - गुरुवारे अमृतयोगः - अर्कवारे अर्थसाधनयोगः - सिद्धयोगश्च केचित् - ज्वरश्चेत्सप्त दिनानि पीडा - गुडोदनं नैवेद्यं - मल्लिका पुष्पपूजा - मलयजो धूपः - अदितिर्द्यौरिति पूजामंत्रः - घृत तंडुल द्रव्यैर्गायत्र्याष्टोत्तर शतं हुत्वा - अदितये गंधमाल्योधनै र्बलिंदद्यात् - सप्तदिनादारभ्य सप्तविंशति दिनांते सुखीस्यात् - संक्रमेर्घवृद्धिः ।। 7 ।।
पुष्यः अष्टतारा - शराकृतिः - पुमान् - तिर्मङ्मुखी - ऊर्ध्वमुखीच - बृहस्पतिर्देवता - लघु देवगणः अजयोनिः - अश्वत्थवृक्षः - जीवं जीवः पक्षि - अक्षरं ककारः - घृतपानं कृत्वा यात्रां गच्छेत् - निंशति नाड्यंते विषनाडी - ऋतु संगमसीमंत नामकरणान्न प्राशन चौलोप सयन कर्ण वेधन विद्यारंभ स्नानाभिषेक बीडावापन वास्तुकर्म वस्त्राभरणधारण गो देवता स्थापन श्राद्धानि कुर्यात् - कार्तीकमासे शून्यं - दशम्यासहोग्रयोगः - सोमार्कयोर्यम कंटकः - अर्के गुरौ सिद्धयोगः - अस्मिन्दिने गृहं कृत्वा प्रवेशनं चित्रलेखनंच कुर्यात् - प्रसूतिश्चेन्मरणं - तृतीयांशे सर्वश्रेयः - चतुर्थांशे बंधुमरणं - ज्वरच्चेत्सप्तदिनानिपीडा -खंडमुंडक नै वेद्यं - मल्लिका पुष्पं सरोरुहंच पूजा - गुग्गुळु धूपः - बृहस्पते अतीतिपूजा मंत्रः -
घृपायस द्रव्यैः सावित्र्याष्चोत्तर शतं हुत्वा - गंध माल्योदनैः बृहस्पतयेबलिं दद्यात् - दिनत्रयादारभ्य सप्तदिनांते सुखीस्यात् - संक्रमेर्घवृद्धिः ।। 8 ।।
अधाश्लेषा चतुस्तारा - लांगलाकारा - सर्पोदेवता - तीक्ष्णा स्त्री - अधोमुखी - राक्षसगणः - मार्जालयोनिः - नागवृक्षः - डेन काकीपक्षी - अक्षरेख कारगकारौ - पायसं प्राश्ययात्रां गच्छेत् - त्रिंशन्नाडि कांते विष घटिका - तृतीयांशे दिन मृत्युः - शतृ जयश्च - असित वारे मरणयोगः - कुज बुधयोः यम कंटकः के चित्कुजवारे नाशमिच्छंतु - कुजवारेण सह मृत्युयोगः - कृष्ण रक्त मेघे सूर्योदये अस्यार्थ घटिकांतरे कार्मुकोदये सप्तदिनाद्वृष्टि - ( सर्व मूहुर्तंसु लग्ने अवाङ्मुको भूत्वा विवाह नक्षत्रे शयितो मृद्ग्रहण तत्फलांवा गृह्णीयात् ) आत्म साद्भवति बृहस्पत्युदये अस्यांशके सर्व कर्मारंभं सर्व मचिरात्सिध्यति - द्रव्य संग्रहणंच - अस्मिन्नक्षत्रे - कूपादिखननं कुर्यात - ज्वरश्चेन्न वदिना पीडापायसं नैवेद्यं - अतसी पुष्प पूजा - घृतमुंडक नै वेद्यं - गुग्गुलु धूपः - मदुवाता इति पूजा मंत्रः कृसरान्नेन नागबलिंदद्यात् - नश्शांतिश्चेदष्टदिने मरणं - संक्रमेल्पोर्घः ।। 9 ।।
माघी चतुस्तारा - युगाकृतिः पितरोदेवता - उग्रः - राक्षस सगणः - मूषकयोनिः - पनसोवृक्षः - अक्षरेघजा - स्त्री - अधो मुखी - तित्तिरी मांसभक्षणं - कृत्वायात्रां गच्छेत् - त्रिंशन्नाडि कांते विषघटिकाः - कृषिबीजा वापनधान्या संग्रहण विवाहाग्रयणं कृत्वा सहस्रगुणं धान्यं भवेत् - व्ययंनकुर्यात् - कार्तीकमासे शून्यं - शुक्रवारे मरणयोगः - अर्के मृत्युयोगः - सूर्य सोमयो र्यमकंटकः - पंचम्या सहमरणयोगः - चंद्रोदये समस्तारंभः - अस्मिन् लग्ने विवाहभूमौ मृद्ग्रहणं च कुर्यात् - ज्वरश्चे न्मृत्युः - एकविंसति दिनानि पीडावा - घृत गुडपूरक नैवेद्यं - चंपक पुष्पपूजा - गुग्गुलुधूपः - पितुं नस्तोषमिति मंत्रः - घृत मधु मिश्र तिलाक्षत वटपत्राणि द्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वाक्षत तिलैः पितृभ्यो बलिंदद्यात् ।। नशांतिश्चेद्दशदिनांते मृत्युः - संक्रमेद्योर्घः ।। 10 ।।
पुण्यफल्गुनी द्वितारा - स्त्री अदोमुखी - भगोदेवता - उग्रा - मनुष्यगणः - मूषकयोनिः - फलाशोवृक्षः - काकः पक्षी - अक्षरं चकारः - श्यामकान्न भोजनं कृत्वा यात्रांगच्छेत् - जयोभवेत् - ऋणंदद्यात् - आषाडमासे शून्यं - शुक्रवारे मृत्युयोगः - स्वर्णसंग्रह विद्यारंभ गृहच्चादनं च कुर्यात् - अस्मिन् मासे तं नक्षत्रे परिवेष इंत्रचोपोवा दृष्टश्चे द्दशदिने वृष्टिस्यात् - विंशति नाडिकांते विषघटिका - ज्वारश्चेद्दिनावि पंचवा सप्तवापीडा बिल्वफल धूपः - अर्यमणं देव इति पूजामंत्रः - घृतप्रियंगुद्रव्यं सावित्र्याष्टोत्तर शतंहुत्वा - गंधपुष्पेण सूर्याय बलिं दद्यात् - षष्ठदिनादारभ्य अष्टमदिने सुखिस्यात् - नशांतिश्चेन्मृतिः - संक्रमे मध्यमोर्घः ।। 11 ।।
उत्तर फल्गुणी द्वितारा - स्त्री - ऊर्ध्वमूखी - आर्यमादेवता - धृवा - मनुष्यगणः - वृषयोनिः - क्रौंचपक्षी - अक्षरे छ जा - पयः पीत्वा यात्रां गच्छेत् - अष्टादश घटिकांते विष घटिका - ऋतुसंगमन सीमंदो न्नयन नामकारणान्नप्राशन चौलोपनयन विद्यारंभ विवाह स्नानवस्त्राभरण धारण ग्रामादि प्रवेश वास्तुबीजा वापनाभि,ेक गो संग्रहणानि पौष्टिकं च कुर्यात् - मार्गशीर्षे शून्यं वस्त्राभरणधारणे महसिद्धिः - अर्कवारे सिद्धियोगः - शून्यंचेति केचित् - चतुर्ध्वा सहमृत्युयोगः - शुक्रवारे कलहयोगः - परिवेषेंद्रचापौ दृष्टौचे त्पंचदिने सप्तदिनेवा वृष्टिः ज्वरश्चे देवकविंश तथिनानि पीडा - कृसर नै वेद्यं - श्वेत करवीरपूजा बिल्वफलधूपः - असत्ये वेति पूजामंत्रः - तिलमाष सर्षपव्रीहि यवद्रव्यं - सावित्र्याष्चोत्तर शतं हुत्वा - तैरेवार्यम्णे बलिं दद्यात् - अष्टादश दिनादारभ्य एकविंशिति दिनांतेज्वर मोक्षः - संक्रमेर्घवृद्धिः ।। 12 ।।
हस्तः पंचतारा - केचिच्छितस्रः - पूमान् - तिर्यङ्मुखः - सविता देवता - लघुः पीयंगु समप्रभः - अक्षरे झञा - देवगणः - आरिष्ठो वृक्षः - घंटकी पक्षी - पयोविश्रम सूरिकं भूक्त्वा यात्रां गच्छेत् द्वात्रिंशन्नाडि कांते पिषघटुका ।। ऋतु संगमादि शुभ कर्म पूर्ववत् - मकरमासे शून्यं - मंदवारे मरणयोगः विषयोग इत्यपरे - अर्कवारे सिद्दियोगः - वस्त्राभरणादि धारणे महसिद्धिः सप्तम्यासह मरमयोगः ( अर्कसित वारेणाति वृद्धिः ) चतुर्ध्या सह मृत्युयोगः - गुरुवारेण कलहयोगः - बुधवारे आनंद योगः श्रार्ध देवता स्थापन सेनापत्यादि कुर्यात् - द्रव्यं दद्यात्सं गृह्णीया देवगो संग्रहणं - आद्यांशे दिन मृत्युः - इंद्रचापे दृष्टे एकविंशति दिने वृष्टिस्यात् - जर्वश्चेन्मृत्युः - संदेहोवा दिनानि पचदश पीडा - अपूप नै वेद्यं - रक्तकरवीर पुष्पपूजा - दशांगो धूपः - उदुत्यमिति मंत्रः - दधिघृत द्रव्यं सावित्र्याष्टोत्तर शतं हुत्वा गंध पुष्पेण बलिं दद्यात् - पंचदश दिना दारभ्य एकविंशति दिनांते सुखीस्यात् - संक्रमे मध्यमोर्घः ।। 13 ।।
चित्ता एकतारा - तिर्यज्मुखी - त्वष्टादेवता - मृदुः - व्याघ्रयोनिः - राक्षसगणः - बिल्वोवृक्षः - हंसःपक्षी - अक्षरेटठौ - चित्रान्न भोजनं कृत्वा यात्रागच्चेत् - एक विंशति नाढ्यंते विषनाडिका - अन्नप्राश्न करण वेधन चौलोपनयन वस्त्राभरणधारणाभिषेक श्रार्दकर्म क्यषिबीजा वापनानि कुर्यात् - वैशाखमासे शून्यं - कुषवारे नाशयोगः - सनंदार्क कुजेषु चरयोगः - इंदुवारे द्वितीय्ययासहविषयोगः - त्रयोदश्यां मरणयोगः - बुधवारे यमकंचकः - मंदवारे नाशयोगः - माघमासे पुर्वामासे पूर्वाह्णे उत्पन्ने वृष्टि ज्वरश्चेद्दिनानि पंचपीडा - मोदक नै वेद्यं - जपापुष्प पूजा - दशांगो धूपं - चित्रं देवानामिति पूजा मंत्रः - जल मिक्षघृत चित्रोदनं द्रव्यं - सानित्र्याष्टोत्तर शतं हुत्वा त्वष्ट्रे घृत मिक्षमुदैबलिं दद्यात् - सप्तदिना दारभ्य विंशति
दिनांते सुखीस्यात् - संक्रमे मध्यमोर्घः ।। 14 ।।
स्वाती एकतारा - रक्तवर्णा - स्त्री - वायुर्देवता - चरातिर्यज्मुखी - देवगणः - महिषयोनिः - उन्मत्तवृक्षः - मयूरपक्षी - अमलक भक्षणं कृत्वा यात्रां गच्चेत् - चतुर्दश नाढ्यंते विषनाडिका - ऋतुगमनादि शुभकर्म पूर्ववत् - वैशाखमास शून्यं - चंद्रवाले सिद्धयोगः मंदवारे अमृतयोगः - रविवारे सिद्धयोगः - शुक्रवारे यमकंटकः - त्रयोदस्यासह मरणयोगः - सनंदा कुडयोर्वरयोगः - द्रव्यं नदद्यात् - पूर्वपक्ष पंचम्यां विजयः - मंदवारे वृषोदये नेतु बंधनं कुर्यात् - डकारोक्षर्च - ज्वरश्चेत् षष्टि दिनान पीडा - जध्योदनं नै वेद्यं - दमनक पुष्पपूजा - श्वेतागरु धूपं - सनः पितेति पजा मंत्रः - घृता क्तयावकं द्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - गंध पुष्पेण वायवे बलिंदद्यात् - दशदिना दारभ्य चत्वारिंश द्दिनांते सुखीस्यात् - संक्रमे मध्यमोर्घः ।। 15 ।।
विशाखा चतुस्तारा - स्त्री - शुर्पाकारा - अधोमुखी - इन्द्राग्नी देवता - मिश्रा व्याघ्रयोनिः - वैकंकतो वृक्षः - पिंगळः पक्षि - अक्षरेढणौ - पिष्टांबु भक्षणं गृत्वायात्रां गच्चेत् - चतुर्धशनाड्यलते विषनाडी - शुभकर्माणि पूर्ववत् - बीडावापनं वस्त्राभरण ग्रहणं च कुर्यात् - द्रव्यं न दद्यात् - गृह्णीयादेव - मार्गशीर्गे शून्यं - आर्कॆनाशयोगः - केचिद्विषयोगमिच्छंति - बुधगुरुवारयो र्यमकंटकः द्वितीयांशे दिनमृत्युः - शुक्रवारे शुक्रोडये कृष्यारंभं कुर्यात् - शत्रोर्दशनंचे च्छुभं भवति - मंदवारेस्मिन् लग्ने कर्काळि चापलग्ने कुजाळे धान्यसंग्रहणं कुर्यात् - तत्काले भूमिविवादश्चे जयोभवति - इन्द्रचापे दृष्टे अष्टदिनेवृष्टिः - ज्वरश्चेद्विंशति दिनानि पीडा - गुडं नैवेद्यं - बंधूक पुष्पपूजा - देवदारु धूपः - शन्न इंद्राग्नी इति पूजामंत्रः - दुग्धोन्न घृतं होमद्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - पयोमिश्रान्नैर्गंधमाल्यै रिद्राग्निभ्यां दद्यात् - दशदिनादारभ्यविंशति दिनांते सुखीस्यात् - संक्रमोल्पोर्घः ।। 16 ।।
अनूराधा षट्तारा - चक्रमालाकृतिः - पुमान् - तिर्यड्मुखी - मित्रोदेवता - देवगणः - मृगयोनिः वकुळोवृक्षः - पक्षिणौ परपुष्पकाकौ - अक्षराणि तकार थकारदकाराः - द्वादशनाढ्यंते विषधटी - कुशुद्ध भक्षणं कृत्वा यात्रांगच्छेत् - ऋतुसंगमन सीमंतोन्नयन नामकरणान्नप्राशनोपनयन विद्यारंभ श्रद्धबीजावापनादीनिकुर्यात् - मार्गशीर्षमासि शून्यं - अर्कवारे मरणयोगः - केचिन्मृत्युयोग मिच्छंति - बुधवारे मृतयोगः - दशम्या मुग्रयोगः - तृतीयांशे दिन मृत्युः - तत्काले चापलग्ने कुजांशे धान्य संग्रहणं - तत्काले व्यवहारे जयोभवति - विवाहभूमौ मृद्ग्रहणं कुर्यात् - करवीरपुष्प नदृशो मेघोदृस्यतेचेत्त त्तृतीयदिने वृ,्टिर्भवति - जर्वश्चेत्तद्दिना त्पंदविंशति दिनानि पीडा दशदिनानिवा - मित्रस्य चर्षणीति पूजामंत्रः - कुंकुम गंधः पद्मपुष्पं - साज्यं पायसं नै वेद्यं चंदन धूपः -
सूरण कंदोहोम प्रधान द्रव्यं - सावित्र्याष्टोत्तर शतं सूरणकंदं हुत्वा - मित्राय साज्यपाय समुद्ग माषबलिं दद्यात् - अष्टदिनादारभ्य पंचदशदिनांते सुखीस्यात् - संक्रमध्यमोर्घ्यः ।। 17 ।।
ज्येष्टा त्रितारा - स्त्री - कंचुलाकृतिः - तिर्यज्युखी - इंद्रो देवता - तिक्ष्णः - मृगयोनि - विषवृक्षः - पक्षी कुक्कुटः - धकारो क्षऱं - तिल भक्षणं कृत्वा यात्रां गच्चेत् - चतुर्धश नाडिकांते विषघटी - केचित्सेना पत्यं श्राद्धं - शालिवापनंचाहु - फाल्गुणेम3सि शून्यं - आर्कवारे नाशयोगः - गुरु प्रतिपदि विषयोगः - इंदु वारे भौमलग्ने कूपादि खननं कुर्यात् - करवीर पुष्प सममेघो दृष्टश्चेद्दशमे दिने वृष्टिः - ज्वरश्चेन्मृत्युः - संदेहोवा - पंचदिनादि पीडा - चित्रोदनं नै वेद्यं - पटोली पुष्पपूजा - कर्पारा गरु धूपः - इंद्रंव इति मंत्रः - सघृत सूरण कुंदमूलं होमद्रव्यं - सावित्राष्टोत्तर शतं हुत्वा - गंध पष्पै इंद्राय बलिं दद्यात् - नशांतश्चेस्मृत्युः ( आन्यतरांगतिं गच्छत्याश्वलायनः - मांडन्यश्च ) संक्रमेल्पोर्घः ।। 18 ।।
मूलं नवतारा - पश्वाकृतिः - हंसवर्णः - हंसवर्णः - अथोमुखं - नपुंसकं - सीऋऋतिर्देवता - तीक्ष्णा - राक्षसगणः - श्वानयोनिः - सर्जरो वृक्षः - जीवं जीवकः पक्षी - श्यामाक भक्षणं कृत्वा यात्रां गच्छेत् - तिभक्षणं केचित् - विंशति नाझ्यं ते विषघटी - अन्त्यां शेदिन मृत्युः - ऋतु संगमन नामकरणान्न श्राशनाग्रयण विवाह बीजावापन गो संग्रहणानि कुर्यात् - उग्रकर्माणिच कुर्यात् - द्रव्यंन दद्यात् - गृह्णीयादेव - मा घोशून्यं - अर्कवारे मृत्युयोगः - संजार्ककुजयोर्वरयोगः कार्मुकोदये नगरस्थापनंच रक्तमेघोरदृष्टेष्टमदिने वृष्टिः - ज्वरश्चेन्मृत्युः - संदेहोवा - दिनानि दशपीडा - मत्स्यमांस सूरापोळिका नै वेद्यं - कर्ताशोक पुष्प पूजा - कृष्मशेवंतिका पुष्पमिति हेमाद्रौ - मेष शृंगो धूपः - मोषणः परापरा इति मंत्रः - ब्राह्मणः सरविदान इति हेमाद्रौ - सघृतं कंधमूल द्रव्यं सावित्र्याष्टोत्तर शतं हुत्वा - निऋरुतये पायसान्नेन बलिं दद्यात् - संक्रमेर्घ वृद्धिः ।। 19 ।।
पूर्वाषाढा द्वितारा - स्त्री - अधोमुखी - आपोदेवता - उग्रा - मनुष्यगणः - कपियोनिः - वानरोवृक्षः - शुकः पक्षी - अक्षराणि सकारादि वांतानि - कृनरभक्षणं कृत्वा यात्रांगच्चेन् - चतुर्विंशति नाड्यंते विषघटी - गो संग्रहणं शालिवाहनंच कुर्यात् - कूपादि खनन विद्यारंभ व्रत प्रवेशोदकालय बंधनावि कर्माणिच कुर्यात् - द्रव्यं नदद्यात् - गृह्णीयादेव - श्रावणमासि शून्यं - चंद्रवारे विषयोगः कुजवारे यमोदये प्राकारारंभं च कुर्यात् ( बद्धमालापर रक्षौ कर्माणिच ) अस्मिन्लग्ने कूपादि खननं - आरक्तमेघेदृष्टे पंचदिने वृष्टः - ज्वरश्चेत्पंच विंशति दिनानिपीडा - मण्डकनैवेद्यं - कल्हार पुष्प पूजा - मनश्शिला धूपः - आपोहिष्टेति पूजा मंत्रः - रक्तशाली द्रव्यं सावित्र्याष्टोत्तर शतं हुत्वा वरुणाय पायसाज्य बलिं दद्यात् - चतुर्दशदिना दारभ्य
विंशति दिनांतेषु सुखीस्यात् - संक्रमेल्वोर्घः ।। 20 ।।
उत्तराषाडा - द्वितारा - स्त्री - ऊर्थ्वमुखी - निश्वेदेवा देवता - ध्रुवा - मनुष्यगणः - गौर्योनिः - पनसोवृक्षः - पिंगळः पक्षि - अक्षरोभकारः - गजविक्रयणं गजारोहणं - च कुर्यात् ( शंकुस्थापनं शक्रवंतं च कुर्यात् ) तिलभक्षणं च कृत्वा यात्रां गच्चेत् - विशंति नाढ्यंते विषघची - ऋतुसंगमनादि - शुभ कर्माणि कुर्यात् - वैशाखमासे शून्यं - चंद्रवारे मरणयोगः - अर्कवारे सिद्दयोगः - कुजनारे कलहयोगः - मंदवारे मृत्युयोगः - शुक्रवारे आनंदयोगः - तृतीययासह मरमयोगः - रक्तमेघेदृष्टे एकादशदिने वृष्टिः - ज्वरश्चे द्विंशति दिनानि पीडा - पंचभक्ष्याणिं नैवेद्यं - संचवर्ण पुष्पैः पाजा - लाक्षाधूपः - विश्वेदेवा सआगिततेति पूजा मंत्रः - घृतसल्लकी खंदानि द्रव्यं - सावित्र्या ष्टोत्तर शतं हुत्वा - विश्वेभ्यो देवेभ्यः पायसान्ने बलिंदद्यात् - एकादश दिना दारभ्य विंशति दिनांते सुखीस्यात् - संक्रमेर्घ वृद्धि ।। 21 ।।
श्रोणा त्रितारा ( श्रवणं ) दण्डाकृतिः - पुमान् - ऊर्ध्वमुखू - विष्णुर्देवता - चरा - देवगणः - वानरयोनिः - न्यग्रोधोवृक्षः - मयूरः पक्षि - अत्ररोमकारः - मशनाड्यांते विषघटिका - जलं पीत्वा यात्रांगच्चेत् - ऋतु संगमन सीमंत नामकरणान्न प्राश्नचौलोपनयनाभिषेकाभरण कृषि बीजा वापन कर्णवेधनादीवि कुर्यात् - विवाह श्रद्ध यज्ञा धीनिच कुर्यात् - मार्गशीर्षे शून्यं - अर्कवारे सिद्दयोगः - चांद्रवारे मृत्युयोगः - पंचम्यां सिंह कर्कालि चापलग्ने चंद्रांशके धान्य संग्रहणं कुर्यात् - व्यपहारारं भेजयो भवति - सोमवारे सुर्योदये द्वितीयांशे गृहारंभं कृत्वा प्रवेशनं कुर्यात् - मेघेदृ,्टे वृष्टिर्भवति - ज्वरश्चेन्मासद्वयं पीडा - संदेहोवा क्षिर शर्कराघृत मंडकं नै वेद्यं - जाती पुष्पपूजा - दशांगो धूपः - आतोदेवा इति पूजामंत्रः - रक्त तंडुलं होम द्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - गंधपुष्सेण विष्णवे बलिंदद्यात् - मासांते संवत्सरांतेवा सुखीस्यात् - संक्रमेर्घ वृद्धि ।। 22 ।।
धनिष्ठा पंचतारा - व्यक्ताकारा - मृदंगाकारा - स्त्री - ऊर्ध्व मुखी - नसवोदेवता - रा - राक्षसगणः - सिंहयोनिः - शमीवृक्षः - अक्षरो मकारः - सक्तुभक्षणं कृत्वा यात्रांगच्छेत् - दशनाड्यंते विषनाडी - झतुसंगमनादि शुभकर्माणि पूर्ववत् - आषाढमासे शून्यं - कुजवारे विषयोगः - केचिन्नाशयोगः - मंदवारे मंदोदये आरामभूमिचयं कुर्यात् - अस्मिन् लग्ने युद्धं च कुर्यात् - कुजोदये व्यापारं - द्रव्यंसंग्रहणं युद्धं च कुर्यात् - आद्यांशेन मृत्युः - रक्तमेघे दृष्टे विंशतिदिने वृष्टिः ज्वरश्चे त्पंचदिनानि पीडा सायसं नै वेद्यं - शतसहस्र पुष्प पूजा - गुग्गुलु धूपः - त्रायंता मिहदेवा इति मंत्रः बिल्वोदुंबराश्वथ्थ समिधो द्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - घृतमिश्रमुद्गैर्व सुभ्यो बलिं दद्यात् - दशदिनादारभ्य पंचदशदिनांते सुखीस्यात् - त्रयोदश मासांतेवा - संक्रमे मध्यमोर्घः ।। 23 ।।
शतभिषक् शततारा - पुष्पपुंजनिभाकृतिः - नपुंसकं - ऊर्ध्वमुखं - वरुणोदेवता - चरा राक्षसगणः - तुरंगयोनिः - कदंबोवृक्षः - कंटकीपक्षी - अक्षरेरेफलकारे - अन्नप्राशन चौल पुंसवन कर्णवेधनाग्निसंधान धान्याव्यापन श्राद्ध शस्त्रारंभांश्च कुर्यात् - प्रोष्टपदमासि शून्यं - कुजवारे मरणयोगः - केचिन्मृत्युयोगः - मंदवारे - यमकंटकः - सनंदार्क कुजयोर्मरणयोगः - गुरुवारे मृत्युयोगः - अर्क कुजवारे कुळीरलग्नेत्वौषधोपयोगं कुर्यात् - अस्मिन् लग्ने कृषीलवनं कुर्यात् - अपूप भक्षणं कृत्वायात्रां गच्छेत् - अष्टादशनाड्ँते विषघटी - ज्वरश्चेदशदिनानि हुत्वा पायासान्ने बलिंदद्यात् - षष्टदिनादारभ्य द्वादशदिनांते सुखीस्यात् - संक्रमेल्पोर्घः ।। 24 ।।
पूर्वाभाद्रपदा द्वितारा - स्त्री - अधोमुखी - अजै कपाद्देवता - उग्रा - मनुष्यगणः - सिंहयोनिः - आम्रोवृक्षः - अक्षरौवशौ - अपोतः पक्षी - गुडभक्षणं कृत्वा यात्रां गच्छेत् - षोटशनाड्यंते विषनाडिका - आश्वीयुजमानं शून्यां - गोसंग्रहणं विद्यारंभं च कुर्यात् - द्रव्यंनदद्यात् - गृह्णीयादेव - कुजवारे नाशयोगः - अंत्यांशे नागवल्यादि स्थापनं - द्वितीयांशे शुक्रोदये कूपादि खननं - रक्तमेघेदृष्टेष्टदिने वृ,्टिः - ज्वरश्चे न्मृत्युः - संदेहोवा द्वाविंशति दिनानि पीडा - दधि घृत नै वेद्यं - अर्क पुष्प पाजा - सर्वौषदी धूपः - शन्नो अज एकपादिति मंत्रः - घृत कूष्मांड खंडं द्रव्यं - सावित्र्याष्टोत्तरं शतं हुत्वा - गंधमाल्यादनैरजैकपदे बलिं दद्यात् - इंद्रादीनां च नशांतिच्चेन्मृत्युर्भवति - संक्रमे मध्यमोर्घः ।। 25 ।।
उत्तराभाद्र पदा - द्वितीरा - पुमान् - ऊर्ध्वमुखी - अहिर्बुध्न्यो देवता - मनुष्यगणः - ध्रुवः - गौर्योनिः - निंबोवृक्षः - चक्रवाकः पक्षी - अक्षरौक्षसौ - मांसभक्षणं कृत्वा यात्रां गच्छेत् - चतुर्विंषति नाड्यंते विषघची - ऋतुसंगमन सीमंत नामकरणान्न गोसंग्रहणानि कुर्यात् - रोगि स्नातश्चेत्सुखीस्यात् - श्रावण मार्गशीर्षयोः शून्यं - तृतीययासह मरणयोगः - कुजवारे मृत्यु योगः - अर्कवारे सिद्धियोगः - तृतीयपादे दिनमृत्युः - रक्तमेघोदृष्टश्चे देकादशदिने वृष्टिः - ज्वरश्चे द्दशदिनानि पीडा - गुडसहितोदनं नैवेद्यं - करंजपत्राणि पुष्पं - घृत धूपः - विष्णुरोनिमिति पूकामंत्रः - घृपप्लुत माष मुद्गानि द्रव्यं - सावित्र्याष्टोत्तर शतं हुत्वा - गंधपुष्पेणाहि र्बुध्नये बलिंदद्यात् - संक्रमेर्घवृद्धिः ।। 26 ।।
रेवती - द्वात्रिंशत्तारा - पुमान् - पीताकृतिः - तिर्यड्मुखी - पुषादेवता - मृदुः - देवगणः - गजयोनिः - मधूकोवृक्षः - पिंगळः पक्षी - अक्षरो हकारः - क्षीरपासं कृत्वा यात्रां गच्छेत् - त्रिंशन्नाड्यंते विषघची - प्रोष्टपदमासे शून्यं - ऋतुसंगमादि उत्तराभाद्र पदोक्तानि कर्माणि कुर्यात् - अर्कवारे सिद्धयोगः - बुधे सोमे च विषयोगः - मंदे नाशयोगः - अष्टम्या सह विषयोगः - शुक्रवारे सिद्धियोगः - सप्तम्या सहोग्रयोगः - ज्वरश्चेद्द्वादश दिनानि षीडा - तिलतंडुलपिष्ट नैवेद्यं - मंदार पुष्प
पूजा गुग्गुलु धूपः - हग्ंस्सः शुचिषदिति मंत्रः - घृताम्रफलसहित कदळीफलानि द्रव्यं - सानित्र्याष्टोत्तर शतं हुत्वा - गंधपुष्पादिभिः पूष्णे बलिं दद्यात् - पंचदिनादा रभ्यविंशति दिनांते सुखीस्यात् - संक्रमे मध्यमोर्घः - अर्घ वृद्धिरिति गार्ग्यमांडव्यादयः ।। 27 ।।
इति शांतिरत्ने मदनरत्नोक्तं नक्षत्र परिज्ञानं समाप्तं.
वसिष्ठ संहितायां _---
रोगशांतिं प्रवक्ष्यामि रोगर्तानां शरीरिणां ।
बलि पूजांगहोमैश्च जप ब्राह्माण भोजनैः ।
यस्मिन् धिष्णेयदा नृणां रोगः संजायते तदा ।
तद्थिष्ण्य पूजा कर्तव्या तदीस्वर सुतुष्टये ।।
सुवर्णेन पलार्धेन तदर्धार्थेनवा पुनः ।
धिष्ण्यश प्रतिमां कल्प्य यधा वित्तानु सारतः ।
ईशान्या मधवाप्राच्या मूदीच्यां दिशिसंलिखेत् ।
तुंडुलेष्ट दळं पद्मं कृत गोमय मंडले ।।
पंचामृतैश्च सलिलैस्तत्तन्मंत्रैः पृथक् ।
स्माप्य कल्पोक्त मंत्रेण प्रतिमां स्थपये त्ततः ।
कर्णिकायांसु संस्थाप्य ध्यात्वा देवं समर्छयेत् ।
तद्वार्ण वस्त्र गंधाद्यैः पुष्पधूपोपहारकैः ।
आरक्त वर्णं कुंभंच पंचभिः पल्लवैःर्युतं ।
शुक्ल वस्त्र स्वर्णरत्न शतौषदि समन्वितं ।
मृत्पंचगव्य सद्बीबं फलद्रव्य कुशान्वितं ।
देवंतु पूर्वतः स्थाप्य तत्तन्मंत्रैः समर्चयेत् ।
तत्प्राच्यां स्थंडिले वह्निं विधिवत् स्थापयेत्ततः ।
मुखांते जुहुयादुक्त द्रव्येणाष्ट सहस्रकं ।
उक्त द्रव्येण तत्त न्नक्षत्र शांतौ वक्ष्यमाणेन ।
तिलहोमंव्या हृतीभिः अष्टोत्तर सहस्रकं ।
पूर्णाहुतिंच जुहुयात्सम्याक्च जप पूर्वकं ।
ततः सुद्टोप विष्टस्य रोगिणः प्राङ्मुखस्य च ।
मंत्र पूतैः कुंभ जलैब्लिंगैर्वारि मंत्रकैः ।
मार्जनं कारयेत्तस्य सम्यत्संकल्पपूर्वकं ।
नीराजनंच शुद्धात्मा पूजा स्थानं समागतः ।
देवं हुताशनं भक्त्या प्रणम्य पार्थयोदिति ।
अमृतोद्भवदिष्ण्येक यज्ञेशस्त्वं परात्मकः ।
रोगा दस्माच्च मां रक्ष तव वश्चाश्च दिष्ण्यापाः ।।
इति प्रार्थ्य ततो दद्यात्प्रतिमां वस्त्र संयुतां ।
दक्षिणा सहितां भक्त्या आचार्याय कुटिंबिने ।
ब्रह्मणेन यधा शक्त्या ब्राह्मणाने भोजये त्ततः ।
कृत्वा नक्षत्र पूजांच तिथिवासर योरपि ।।
सर्वान्कामानवाप्नोति रोगीरोगा त्फ्रमुच्चते ।
पूर्वोक्तं विधिं कृत्वा तिधिवारयोः शांतिं कुर्यादित्यर्थः ।।
अश्विन्या मुत्थितोव्याधि सप्त रात्रेण मुंचति ।
देवस्येत्वेति मंत्रस्य गायत्री काश्यपोश्वनौ श्वेतवर्णौ सुधापूर्णौ कुंभां भोज दरौ पृधक् ।
चंदनोत्पल पुष्पाज्यं गुग्गुलुश्च गुज प्रीयौ ।
क्षीर लड्डुक भोक्तारौ समिधः क्षीरव्भक्षजाः ।।
आज्यं गुग्गुलुश्च धूपः समिद्भिर्होमः एवमग्रेपि ।
गुडोदनं बलिं दद्याद्दीपैः सार्दं निशौमुखे ।। 1 ।।
भरण्या मुत्थितो व्याधि रचिरान्नि धन प्रदः ।
मासेन मुंचत् धवा दैवस्य कुटिलागतिः ।।
त्र्यंबकस्यतु मंत्रस्य चोक्ताश्चंदर्षि देवताः ।
गंधोगुरुः करवीर पुष्पं धूपश्चगुग्गुलुः ।
आज्यदीपंच सर्वेषां नै वेद्यंच गुडोधनं ।
पाश दंडधरो रक्तस्त्वाज्यं मध्वक्षता हविः ।
महिषी नायकारुढः कृसरान्नं बलिं हरेत् ।
वक्ष्य माणेन मंत्रेण बलिं सम्यक्र्पदापयेत् ।। 2 ।।
कृत्तिका सूत्थितो व्याधि र्थशरात्रेम मुंचति ।
स्रुक्स्रुवा भय वरदः स्ववर्गो मेषवाहनः ।।
मेधातिधि र्जगत्यग्निः पुनंतुमा मित्यस्यच ।
चंदनं यूधिका पुष्पं घृत धूपः सुगुग्गुलुः ।।
नैवेद्यं तिल माषान्नं वटकाज्येन संयुतं ।
गुडोदनं हविस्तत्र पायसेन बलिं हरेत् ।। 3 ।।
रोहिण्या मुत्थितोव्याधि र्दशरात्रेण मुंचति ।
नमो ब्रह्मण मंत्रस्य गायत्री विधिरीश्वरः ।।
शुक्लः कमंडलुस्सवक्ष सूत्राभय वरप्रदः ।
चंदनं कमलं पुष्पं सदशांगश्च गुग्गुलुः ।।
नैवेदयं पायसं साज्यं सर्वदान्नं हविर्भवेत् ।। 4 ।।
चंद्र भेचोत्थितो व्याधिः पंचरात्रेण मुंचति गदा वरदपाणिश्च श्वेतो सौरथ वाहनः ।।
नवो नवो भवत्यस्य गायत्री गौतमः शशी ।
चंदनं कुमुदं पुष्पं दशांगं पायसोदनं ।।
नै वेद्यं मंदका पुष्पं क्षौद्र समन्वितं ।
शर्करादधि मिश्रिण शुक्लान्नेन बलिं हरेत् ।। 5 ।।
आर्द्राया मुत्थितो व्याधि रचिरान्नि दनप्रदः ।
मासेन मुंचत्यथ्वा दैवस्य कुटिलागतिः ।
शुद्धस्पटिक संकाशः शूल खड्गाभयेष्टदः ।
नम शंकारायेत्यस्य बृहतीशो विधि ऋरुषिः ।।
चंदनं सौरभं पुष्पं दशांगं पायसोदनं ।
समध्वाज्यां हविस्तत्र दथ्योदन बलिंहरेत् ।। 6 ।।
पुनर्व सौभवो व्याधिः सप्त रात्रेण मुंचति ।
कमंडल्वक्ष सूत्रेध्मदर्भस्रुके स्रुवभृत्सदा ।।
अदितिद्य्रौश्च मंत्रस्य त्रिष्ठुभो द्रुहिणो दितिः ।।
हरिब्रा कुंकुमं गंधः पुष्पं शामंतिकादयः ।।
धूपोमलयजः पिष्टं घृतान्नं पीत वर्णकं ।
घृताक्तं तंडुलं हविः पीतान्नेन बलिं हरेत् ।। 7 ।।
पुष्ये समुत्थितो व्याधिः सप्तरात्रेण मुंचति ।
पीतो दंड कमंडल्वक्ष सूत्राभयदोद्यतः ।।
बृहस्पते तीतीत्यस्य त्रिष्टुब्जी वांगिराऋषिः ।
कुंकुमं वारिजं पु,्पं नै वेद्यं घृत पायसं ।।
मंडकागुड संयुक्तमे तदेव हविर्भवेत् ।
समंडक घृतान्नेन बलिं तत्र प्रदापयेत् ।। 8 ।।
आश्लेषा सूत्थितो व्याधिः क्लेशान्मासेन मुंचति ।
नमो अस्त्विति मंत्र्सय हव्यवाडध सर्पराट् ।।
मधुवर्णो बोग युक्तः खड्ग चर्मदरः शुबः ।
सकंकुघूगरु र्गंधः पुष्पं चागस्त्य संभवं ।
घृत गुग्गुल धूपोत्रनैवेद्यं क्षीर सर्पषि ।।
हविस्साज्यं सुदध्यान्नं दध्योदनं बलिं हरेन् ।। 9 ।।
रितृबोचोत्थितो व्ाधि रचिरान्नि थन प्रदः ।
शान्तिर्वासार्धमासेन धूम्रोदंड पवित्रधृके ।।
ायंतुनः स्त्वृचोस्स्यास्तु जगती पितरोब्जजः ।
चंदनं चंपकं पुष्पं धूपः सघ्भत गुग्गुलु ।।
नै वेद्यं घृत पिष्चान्नं तिलान्नं सघृतं हविः ।
सतिलाज्यंच मुद्गान्नं बलिंच पतिृ तृप्ते ।। 10 ।।
पूर्वाफाल्गु नजोव्याधिरर्थमासेन मुंचति ।
भग एव भगवा नित्यस्य त्रिष्टब्ध गोविधिः ।।
पद्मा भयकरः पद्मव्रणः सिंहासने स्थितः ।
चंदनं मालती पुष्पं बिल्व धूपोघृतो दनं ।।
नै वेद्यं शर्करा पूप लड्डुकाभिश्च संयुतं ।
घृतो दनं हविस्तत्र पायसान्ं बलिं हरेत् ।। 11 ।।
आर्यमर्त्रेभवो व्याधिरर्थ मासेन मुंचति ।
पद्मवर्णः पद्म संस्थः पद्मगर्भ समद्युतिः ।
आर्यमायेति मंत्रस्य ार्यमात्रिष्टु बब्ङजः ।
कर्पूरं कुंकुमं गंधं पुष्पं वकुळ संज्ञकं ।।
घृत गुग्गुलु धूपोत्र नै वेद्यं घृतपायसं ।
होमद्रव्यं घृतान्नंच शाल्यन्नेन बलिं हरेत् ।। 12 ।।
हस्ते समुत्थितोवाय्याधि नवरात्रेण र्नवरात्रेम मुंचति ( उदुत्यमिति हिरण्यस्तूपो गीयत्री अदितिर्जगती ।। )
र्कतगंधं कुंकुमंच पुष्पं राजीवसंज्ञकं ।
गंध गुग्गुलु धूपोत्र नै वेद्यं घृत पायसं ।।
मधुपुष्प तिलाज्यान्नं दूर्वाभिस्सहितं हविः ।
गुडशर्कर मध्वाज्यं पिष्टन्नेन बलिं हरेत् ।। 13 ।।
चित्राया मुत्थितो व्याधि दशरात्रेण मुंचति ।
चित्रं देवानामित्रस्य त्वष्टा त्रिष्टुप्पिता महः ।।
अत्रसूत्राभयकर श्चित्रवर्ण श्शिपेपतः ।
सकुंकुमागरुगंधः कुसुमं चित्रर्णकं ।।
नै वेद्यं मोदकाज्यन्नं चत्रान्नं घृतंहविः ।
तदन्नेन बलिं दद्यात्सर्वरोगापनित्तये ।। 14 ।।
स्वात्यृर्क्षेचेत्थितो व्याधिः सर्वदानि धनप्रदः ।
ेक द्वित्रि चतुः पंचमानैर्वापि विमुंचति ।।
सनः पितेति मंत्रस्य गायत्री मरुदंगिराः ।।
खड्ग चर्मथरः कृष्णो गंधं कृष्णा गुरुर्भुगुः ।
पुष्पं दमनकं धूपश्चंदना गुरु गुग्गुलु ।
नै वेद्यं पायसं साज्यं हविस्तेन बलिं हरेत् ।। 15 ।।
द्विदै वभे भवेद्व्याधि र्मासेनैकेनमुंचति ।
इंद्राग्नी अगत मिति गायत्र्यै वास्यचैवहि ।।
मधु च्चंद ऋषींद्राग्नि तयोर्ध्वानंच पूर्ववत् ।
श्रीखंडं गंधं तयोः पुष्पं सरोरुहं ।।
देवदारु स्तयोर्धूपो नै वेद्यं घतपायसं ।
तदेवान्नं हविस्तत्र चित्रा न्नेन बलि हरेत् ।। 16 ।।
मित्रभोचेत्थितोव्याधि र्दशरात्रेण मुंचति ।
मित्रस्य चर्षणीति गायत्र्यैवास्यचैवहि ।।
ऋषि र्हिरण्यस्तुपाख्यस्तत्रमित्रोधिदेवता ।
द्विभूजः मद्मगर्भाभः पद्मभृत्पद्मसंस्थितं ।
कुंकुमं पुंडरीकाख्यं पुष्पं धूपं च चंदनं ।
नै वेद्यं पायसं साज्यं हविः कंदर्ब सूरणः ।।
बलिस्तत्र प्रदातव्यो मधु शर्कर पायसैः ।।
घृतपूर्वक माषान्नं मुद्गगर्भैश्च संयुतं ।। 17 ।।
ज्येष्ठाया मुत्थितोव्याधि मृत्युरेव नसंशयः ।
अधवा मासमेक्वा मुंचत्येव नसंशयः ।।
इंद्रंव इति मंत्रस्य गायत्रीं द्रोंगिराऋषिं ।।
इंद्रस्तु पूर्ववद्गंधं चंदनं कुसुमं शुभं ।
कर्पूरधूपो नै वेद्यं चित्रान्नं सुमनोहरं ।।
हविस्तु सूरणः करणः मधुकंदः सुपायसं ।
विचित्र पुष्प गंधेन दध्यन्नेन बलिं हरेत् ।। 18 ।।
मूलभेचोत्थितोव्याधि र्मासार्धेन विमुंचति ।
खड्ग चर्मधरः कृष्णः कराळवदनः प्रभूः ।।
मोघाणोस्यच ग्रयत्रीघोरः कण्योथ निर्रुऋतिः ।
गंधं कृण्णागरुः पुष्पं पद्मं नीपोत्पलं शुभं ।।
धूपः कृष्णागरुर्माष मिक्षान्न मुपहरकं ।
तदेवान्नं हविस्तत्र माषान्नेन बलिं हरेत् ।। 19 ।।
वारिभेचोत्थितो व्याधी रोगिणोनिधनप्रदः ।
विमुंच्य त्यदवामानै र्द्वित्रिषट् पंच सप्तभिः ।।
आप्याय स्वेति मंत्रस्य गायत्री पद्मजोजलं ।
सुवर्णो द्विभुजः पद्मपाणि र्गंधस्तु चंदनं ।।
पद्मं शैलेय दूपोत्र नै वेद्यं घृतपायसं ।
हविर्मसूर पिष्टान्नं तदन्नेन बलिं हरेत् ।। 20 ।।
विश्वभेचोत्थितो व्याधिः सार्दमासेन मुंचति ।
विश्वेदेवास अक्यस्य गायत्री विशअवदेवता ।।
कमंडल्व भयांभोज वरदश्च कुशासनः ।
चंदनं कमलं पुष्पं धूपः ।
समिद्धिर्निचुळैस्पार्थं तदन्नेन बलिं बरेत् ।। 21 ।।
श्रवणेचोत्थितो व्याधि र्दशरात्रेण मुंचति ।
अतोदेवा इति मंत्रस्य गायत्री प्रपजोहरुः ।।
सीतांबरः कृष्णवर्णः शंख चक्र गदाधरः ।
चंदनं मालती पुष्पं धूप कर्पूप गुग्गुलु ।।
शाल्यन्नं षड्रसोपेतं भक्ष्यभोज्यादिभिस्सह ।
नै वेद्यं हविरप्ये तत्पायसेन बलिं हरेत् ।। 22 ।।
वसु भेचोत्थितो व्याधि र्दशरात्रेम मुंचति ।
त्रायंता मिह मंत्रस्यासुष्टुब्व्यासो वसुसत्तः ।।
चापबामधर शुक्लगंधः कर्पूर चंदनं ।
वारिजं गुग्गुलुर्दूपो नै वेद्यं घृत पायसं ।।
पाविश्चोदुंबर समिद्गुडपायस संयुतं ।
लड्डुकापूपमध्वाज्य तिलपिष्ट बलिं हरेत् ।। 23 ।।
वारुणेचोत्थितो व्याधि रष्टरात्रेण मुंचति ।
इमंमे वरुणेत्यस्य गायत्री कण्ववारिपाः ।।
नागपाशधरः श्रीमान्नवर्त्न विभूषितः ।
मलयस्थागरुर्गंधः पुष्पं च कमलोत्पलं ।।
कर्पूरं चंदनं धूपो नै वेद्यं घृतपोळिका ।
हविरश्वत्थ समिदश्चित्रान्नेन बलिं हरेत् ।। 24 ।।
अजैकपाद्भवो व्याधिः सर्वदानिधनप्रदः ।
अधवा बहूभिर्मावै र्दिवसैर्वा विमुंचति ।
वामपादकरे भूम्यामाकाषेत्व परद्वयं ।
प्रसार्यप्रांजलिः साक्षादीश्वरं चिंतयन् स्थितः ।।
शमग्नीत्यस्याज्यैकपा द्गायत्री चतराननः ।
कुंकुमं चंदनं गंधं पुष्पं श्वेतार्कसंभवं ।।
धूपः सथौषधीमिश्रो नै वेद्यं दधि पायसं ।
हविः कूष्मांड खंडस्याद्दध्यनेन बलिं हरेत् ।। 25 ।।
अहिर्बुध्न्यभवो व्याधिः सार्धमासेन मुंचति ।
नमस्ते रुद्र इत्स्य सर्वं तत्रैव संस्थितं ।।
गंधं चंदन कुर्पूरैः पुष्पं पद्मोत्पलं शुभं ।
सबिल्व गुग्गुलु र्दूपनै वेद्यं घृतपायसं ।
मुद्गमाषतिलान्नाज्य यवव्रीहि भवं हविः ।।
हविस्तदेवसजलं दध्यनेन बलिं हरेत् ।। 26 ।।
रेवत्यामुत्थितोव्याधि रष्टरात्रेण मुंचति ।
पूषात्व इति मंत्रस्य जगती गौतमोऋषिः ।।
पूषाच देवतां भोज वर्णों बोजधरश्शुभः ।
रक्तचंदन गंधोत्र पुष्पं मंदार संज्ञिकं ।।
धूपस्तु गुग्गुलुस्साज्यं नै वेद्यं घृतपायसं ।
हविस्तदेवसजलं दध्यन्नेन बलिं हरेत् ।।
भूतेशानुसृतोयस्मा द्रोगनाथो माहन् ज्वरः ।
रोगादस्माच्चमां त्राहि सर्वान्नं चोत्तमं बलिं ।। 27 ।।
कृत्वा नक्षत्रपूजां च तिथिवासरयोरपि ।
एवं राश्यादिषड्वर्ग बलिं दद्यात्तदीश्वरान् ।।
योबलिं कुरुते सम्यक् रोगिरोगात्प्रमुच्यते ।
इति नक्षत्रोत्पन्न रोगशांतयः ।।
अ थ ति ध्या दि दो ष शा ं त य ः
श्लो ।। प्रति वद्युत्थितो व्याथि र्द्वादशाहेन मुंचति ।
अग्निस्तु देवता तत्र कृसरान्नं बलिं हरेत् ।। 1
श्लो ।। द्वितीया यां भवेद्वाधिः पंच रात्रेण मुंचति ।
ब्रह्मतु देवता तत्र पायसेन बलिं हरेत् ।। 2
श्लो ।। तृतीया यां भवेद्व्याथिः सप्त रात्रेम मुंचति ।
गिरिजा देवता तत्र घृतान्नेन बलिं हरेत् ।। 3
श्लो ।। चतुर्थ्या मुत्थितो व्याधिः दशरात्रेण मुंचति ।
गणेशो देवता तत्र घृतान्नेन बलिं हरेत् ।। 4
श्लो ।। पंचम्या मुत्थितोव्याधि र्नवरात्रेण मुंचति ।
सर्वेशो देवता तत्र दुर्थान्नेन बलिं हरेत् ।। 5
श्लो ।। षष्ट्यां समुत्थितो व्याधि श्चतूरात्रेण मुंचति ।
स्कंदनु देवता तत्र मुद्गान्नेन बलिं हरेत् ।। 6
श्लो ।। सप्तम्या मुत्थितो व्याधि रष्ट रात्रेण मुंचति ।
आर्यमा देवता तत्र गुडान्नेन बलिं हरेत् ।। 7़
श्लो ।। अष्टम्या मुत्थितो व्याधि रष्ट रात्रेण मुंचति ।
अष्टमा देवता तत्र गुडान्नेन बलिं हरेत् ।। 8
श्लो ।। नवम्या मुत्थतो व्याधि र्मरणं निश्चितं भवेत् ।
वसवो देवता तत्र तिलान्नेन लबिं हरेत् ।। 9
श्लो ।। दशम्या मुत्थितो व्याधि पंरात्रेण मुंचति ।
नागस्तु देवता तत्र घृतान्नेन बलिं हरेत् ।। 10
श्लो ।। एकादश्युत्थितो व्याथि स्त्री रात्रेण मुंचति ।
धर्मस्तु र्देवता तत्र माषान्नेन बलिं हरेत् ।। 11
श्लो ।। द्वादश्या मुत्थितो व्याधि र्मरणं निश्चितं भवेत् ।
रोगस्य सविनिर्मुक्ति यमलोकं सगच्छति ।। 12
श्लो ।। त्रयोदश्यां भवो व्याथिः सप्त रात्रेण मुंचति ।
कामस्तु देवता तत्र लड्डु कान्नां बलिं हरेत् ।। 13
श्लो ।। चतुर्दश्यां भवे द्व्याधिः मृत्यु दस्स्या द्ध्विमासतः ।
मुंचत्यरिष्टं सर्वं च पिष्टान्नेन बलिं हरेत् ।। 14
श्लो ।। पौर्णि मा यां भवेद्व्याधि स्त्री रात्रेण विमुंचति ।
चंद्रस्तु देवता तत्र दध्योदन बलिं हरेत् ।। 15
श्लो ।। अमावास्या भवोव्याधि र्मासेनै केन मुंचति ।
अधवा मंडलै केन ज्वर दाहनि पीडितं ।।
महमृत्यु र्भवेड्वापि यमलोकं सगच्छति ।। 16
श्लो ।। तत्र शांतिं प्रवक्ष्यामि सर्वदोषाप शांतये ।
पितृणां प्रतिमाकार्या सौवर्णेः कर्ष संमिता ।।
श्लो ।। समिदाज्य तिलै र्माष चर्वाज्येनच होमयेत् ।
अष्टोत्तर शतंवापि अष्टा विंशतिरेववा ।।
श्लो ।। कृष्णागौश्च प्रदातव्या आचार्याय सदक्षिणा ।
ब्राह्मणान् भोजयेत्पश्चा देकादश स्वशक्तितः ।।
सर्वारिष्प प्रशांत्यर्थं दीर्घायुश्च सूखीभवेत् ।।
अ थ वा र शा ं त य ः
श्लो ।। रविवारे भवेद्द्व्याधि र्ज्वरदाहे न पीडितः ।
सविता देवता तत्र पायसान्नं बलिं हरेत् ।। 1
श्लो ।। इंदुवारे भवेद्व्याधिः सप्तरात्रेण मुंचति ।
सोमस्तु देवता तत्र घृतान्नेन बलिं हरेत् ।। 2
श्लो ।। भौमवारे भवेद्व्याधिः केशाय मरणाय च ।
कुजस्तु देवता तत्र रक्तान्नेन बलिं हरेत् ।। 3
श्लो ।। बुधवारे भवेद्व्याधिः क्लेशाय मरणाय च ।
बुधस्तु देवता तत्र मुद्गान्नेन बलिं हरेत् ।। 4
श्लो ।। गुरवारे भवेद्व्याधिः पंचरात्रेण मुंचति ।
गुरुस्तु देवता तत्र हरिद्रान्नं बलिं हरेत् ।। 5
श्लो ।। भृगुवारे भवेद्व्याधिः सप्तरात्रेण मुंचति ।
भृगुस्तु देवता तत्र हरिद्रान्नं बलिं हरेत् ।। 6
श्लो ।। शनिवारे भवेद्व्याधि र्मासार्धेन विमुंचति ।
शनिस्तु देवता तत्र माषान्नेन बलिं हरेत् ।। 7
श्लो ।। राश्यादि षड्वार्गपेभ्यो बलिं दद्या त्सुखाप्तये ।
यो बलिं कुरुते सम्यग्रोगिरोगा त्प्रमुच्यते ।
अदास्य निधनप्रत्य ग्जन्माह्वय विपत्करे ।। 8
श्लो ।। नक्षत्रो जनितोव्याधिः क्लेशाय मरणायच ।
आश्लेषार्द्रा त्रिपूर्वायम वरुण मरुच्छक्र ।
तारानलाख्याः द्वादश्यां स्कंदरिक्ता ।
तिथिषुच रविजाsरार्कवारेषु येषां ।। 9
श्लो ।। रोगसंजायते चेद्य मपुरमचिरात्प्राप्नुनं ।
त्येवचंद्रे जन्मन्यष्टाख्य बंधुन्वय ।
बंधुन्यय भवनगते मृत्युलग्नेच राशौ ।। 10
इति कमलाकरभट्ट कृतौ शांतिरत्ने ज्वरादि
रोगोत्पत्ति नक्षत्रादि शांतयः.
1. अथ रव्यादि ग्रह व्रत शांतिः
मदनरत्ने भविष्ये :---
श्लो ।। अतः परं प्रवक्ष्यामि रहस्यं ह्येतमुत्तमं ।
येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिः कांतिश्च जायते ।।
श्लो ।। सादित्यावारे हस्तेतु पूर्वंगृह्य विचक्षणः ।
मंत्रोक्त विधिना सर्वं कुर्यात्बूजादिकं रवेः ।।
श्लो ।। प्रत्यर्कं सप्तनक्तानि कृत्वा भक्तिपरोनरः ।
ततस्तु सप्तमे प्राप्ते कुर्या द्ब्राह्ण भोजनं ।।
श्लो ।। भास्करं शुद्ध सौवर्णं कृत्वा यत्नेन मानवः ।
ताम्रपात्रे स्नापयित्वा रक्तपुष्टै स्सुपूजयेत् ।।
श्लो ।। रक्तवस्त्र युगच्छन्नं छत्रोपानद्युगान्वितं ।
घृतेन स्तापयित्वाच लड्डुकानि निवेदयेत् ।।
श्लो ।। होमं घृत तिलैः कुर्याद्रवि नाम्नाच मंत्रवित् ।
समिधोष्टोत्तर शत मष्टाविंशति रेववा ।।
श्लो ।। होतव्या मधुसर्पिभ्यां दध्नाचैव घृतेनच ।।
समिधोर्कसमिधः ।।
मंत्रेणान विदुषे ब्राह्मणाय प्रदापयेत् ।।
श्लो ।। आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर ।
त्वं रवे तारयस्वास्मान स्मात्संसार सागरात् ।।
श्लो ।। व्रतेनानेन राजेंद्र भवे दारोग्य मुत्तमं ।
द्रव्य संपत्सुत प्राप्तिरिति पौराणिका विदुः ।।
श्लो ।। आपिसंपत्करी चेयं शांतिः पुष्टकरी नृणां ।
सूर्यपीडा समघोरा सुकृता शांतिः शुभप्रदा ।।
इत्यादित्य शांतिः.
2. अथ चंद्र शांतिः - तत्रैव :---
श्लो ।। तद्वच्छित्रासु संगृह्य सोमवारं विचक्षणः ।
अनेनैवोक्त विथिना कुर्या त्पूजादिकं विथोः ।।
श्लो ।। सप्तमेतु ततः प्राप्ते कुर्याद्ब्राह्मण भोजनं ।
सप्तमेनक्ते ।।
श्लो ।। कांस्यपात्रे धनं स्थाप्य सोमं रजित निर्मितं ।
श्वेतवस्त्र युगच्छन्नं श्वेतपुष्सैः प्रपूजितं ।।
श्लो ।। पादुकोपान हच्छत्र नैवेड्यासन संयुतं ।
होमं घृत तिलैः कुर्या त्सोमनाम्नाच मंत्रवित् ।।
श्लो ।। समिधोष्टोत्तर शत मिष्टाविंशति रेववा ।
होतव्या मधु सर्पिभ्यां दध्नाचैव घृतेनच ।।
समिधः पालाशजाः ।।
श्लो ।। दध्यान्नं शशिने हुत्वा ब्राह्मणाय निवेदयेत् ।
मंत्रेणानेन राजेंद्र सम्यग्भक्त्या समन्वितः ।।
श्लो ।। महदेव प्रियोसित्वं पुष्पं गोक्षीर पांडुरं ।
सोम सौम्यो भवास्माकं सर्वादाते नमो नमः ।।
श्लो ।। एवं कृते महच्छांति ः सोमः स्वस्तिकरो भवेत् ।।
इति चंद्र शांतिः ।।
3. अथ भौमशांतिः :---
श्लो ।। स्वात्या मंगारकं गृह्यत्रपायां नक्तभोजनी ।
सप्तमेत्वध संप्रप्ते हैमंताम्रं निवेशयेत् ।
रक्तवस्त्र युगच्छन्नं कुंकुमेनानु लेपितं ।।
श्लो ।। निवेद्य भक्त्या कुसरं पुष्प धूपाक्षताभिः ।
होमं घृत तिलैः कुर्यात्कुज नाम्नाच मंत्र वित् ।।
श्लो ।। समिदोष्टोत्तर शतमाष्टा विंशति रेववा ।
होतव्या मधु सर्पिभ्यां दध्नाचैव घृतेनच ।।
।। समिधः खादिराः ।।
श्लो ।। मंत्रेणानेनतंदद्या द्ब्राह्मणाय कुटुंबिने ।
कुजकुप्रभवोपित्वं मंगळः पठि पठ्यसे ।।
श्लो ।। अंगळं न्निहत्याशु मंगळं यच्छ मंगळ ।
एवं कृते भौम कृतं दुष्कृतं शांति माप्नुयात् ।
कर्तव्यं भोमपीडा सुतस्मात्र्पयत मानसैः ।।
इत्यांगारक शांतिः ।।
4. अथ बूध शांतिः - तत्रैव :---
श्लो ।। विशाखासु बुधं गृह्यसप्त नक्तान्य दार्चयोत् ।
बुधं होम मयं कृत्वा स्थापितं कांस्य भाजसे ।
शुक्लवस्त्र युगच्चन्नं शुकल माल्यानु लेपितं ।
गुडो दनोप हरंच ब्राह्मणाय निवेदयेत् ।।
श्लो ।। बुधत्वं बुद्धिजनको बोदवान् सर्वदानृणां ।
तत्वावबोधं कुरुमे सोमपुत्र नयोनमः ।।
श्लो ।। पूर्व वद्घृत तिलैः अपामार्ग समिद्भिः ।
बुधनाम्नाहोमं कुर्यात् ।।
बुधशांतिरियं प्रोक्त बुध वैकृत नाशिनी ।।
बुध दोषेतु कर्तव्या तधा शांति रखीष्टदा ।।
इति बुध शांतिः ।।
5. अथ गुरुशांतिः :----
श्लो ।। गुरुचैवानुराधासु पूजये द्भक्तितो नरः ।
पूर्वोक्तविधियोगेन सप्तनक्तान्यधाचरेत् ।।
श्लो ।। गैमं हेममये पात्रे स्थापयित्वा बृहस्पतिं ।
पीतांबलयुगच्छन्नं पीतयत्रोपवीतिनं ।।
श्लो ।। पादुकोपानहच्छत्र कमंडलु विभूषितं ।
पूजये त्पीतकुसुमैः कुंकुमेन विलेपितं ।।
श्लो ।। धूप दीपादिभिद्रव्यैः फलै श्चंदन तंडुलैः ।
खंडखाद्योपहारश्च गुरो रग्रेनिवेदयेत् ।।
श्लो ।। धर्मशास्त्रार्थ तत्वज्ञ ज्ञान विज्ञान पारग ।
विबुथार्तिहरा चिंत्य देवाचार्य नमोस्तुते ।।
होमस्तु पूर्ववत् ।।
श्लो ।। घृततिलै रश्वद्ध समिद्भिः गुरुनाम्ना ।
विषमस्थे गुरौकार्या महशांति रियंनृभिः ।।
इति गुरुशांतिः ।।
6. अथ शुक्रशांतिः :---
श्लो ।। शुक्रं ज्येष्ठासु संदृह्य क्षमायां नक्तभोजनी ।
गुरूक्तक्रममार्गेण द्विजसंतरपणेनच ।।
श्लो ।। सप्तमेत्व धनं प्रास्ते रौप्यं शुक्रंतुकारयेत् ।
वंशपात्रेतु संस्थाप्य पूजयेत्सित पंरजैः ।।
श्लो ।। तदभावेसितैः पुष्पै स्तांबूलै श्चंदनेनच ।
अग्रे तस्य प्रदातव्यं पायसं घृतसंयुतं ।।
श्लो ।। भार्गवो भृगुजश्शुक्रः शृतिस्मृति विशारदः ।
हृत्वा गृहकृतान् दोषा नायुरारोग्यदोस्तुनः ।।
श्लो ।। अनेन मंत्रेण दद्यात् होमस्तु पूर्ववत् ।
घृततिलैः उदुंबर समिद्भिः शुक्रनाम्ना कुर्यात् ।।
इति शुक्रशांतिः ।।
7.8.9. इथ शनैश्चरादि शांतिः :----
श्लो ।। शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत् ।
कृष्णागरुस्स्मृतो धूपो दक्षिणा च स्वशक्तितः ।।
श्लो ।। यधाक्रमं शमी दूर्वा कुशानां सम्मिधं स्मृतः ।
सप्तमे त्वथनंप्रास्ते सौवर्णान थकारयोत् ।।
श्लो ।। कृष्णवस्त्रयुगच्चन्न मेकैकं कारयोद्बुधः ।
मृगनाभ्या समालभ्य कृसरान्नं निवेद्यये ।
होमानसाने तत्सर्वं ब्राह्मणाय निवेदयेत् ।।
श्लो ।। होमसुक्त समिद्बिश्च तेषां नाम्नाच कारयेत् ।
शनैश्चर नमस्तेस्तु नमस्ते राहवेतथा ।।
श्लो ।। केतवे च नमस्तुभ्यं सर्वशांतिं प्रयच्चत ।
अनेन मंत्रेण दद्यात् ।।
इति शनैश्चरादि शांतिः ।।
अथ नवग्रहदानादीनि
जातका भरणे सारावश्यांच :---
श्लो ।। योखेचरा गोचरतोष्ट वर्गादं साक्रमाच्वाष्य शुभा भवंति ।
दानादिनाते सुतरां प्रसन्नस्तेनाधुना दान विधिं प्रवक्ष्ये ।।
श्लो ।। माणिक्य गोधूम नवत्सधेनुः कौसुंभवासो गुडहेम ताम्रं ।
आरक्तकं चंदन मंबुजंच वदंतिदानं हिविरोचनाय ।। 1
श्लो ।। सद्वांश पात्र स्थिततंडुलाश्च कर्पूर मुक्ताफल शुभ3 वस्त्रं ।
युगोपयुक्तं वृषभंचरौप्यं चंद्रायददाद्घृत पूर्णकुंभं ।। 2
श्लो ।। प्रवाळ गोधूम मसूरिकाश्च वृषोरुणश्चापि गुडः सुवर्णं ।
आरक्तवस्त्रं करवीर पुष्पं ताम्रंच भौमाय वदंति दानं ।। 3
श्लो ।। चेलंच नीलं कलदौत कांस्यं मुद्गाज्य गारुत्मत सर्व पुष्पं ।
दासीच दंडोद्विरदश्चनीनं वदंतिदानं विदु नंदनाय ।। 4
श्लो ।। शर्कराचरजनी तुरंगमः पीतधान्यमपि पीतमंबरं ।
पुष्पराग लवणं सकांचनं प्रीतये सुरगुरोः प्रदीयते ।। 5
श्लो ।। चित्रांबरं शुभ्रतरस्तुरंगो धेमश्च वज्रं रजतं सुरवर्णं ।
सुतंजुलाज्योत्तम गंधयुक्तं वदंतिदानं भृगुनंदनाय ।। 6
श्लो ।। माषाश्चतैलं विमलेंद्र नीलं तीलाः कुलुत्था महषीच लोहः ।
कृष्णांचधेनुं प्रवदंतिसूनं दुष्टायदानं रविनंदनाय ।। 7
श्लो ।। गोमेधरत्नं चतुरंतयासं सुनीलचेला मलकंबळाजाः ।
तिलाश्चतैलं खलुलोहमिश्रं सर्भानवेदानमिदं वदंतिः ।। 8
श्लो ।। वैढूर्यरत्नं सतिलंच तैलं सकंबळश्चापि मदोमृगस्य ।
शस्त्रंच केतोः परितोषहेतोः छागेभदानं कधितं मुनींद्रैः ।। 9
अ थ र त्न धा र ण ं
तत्रैव :---
माणिक्यं तरणे स्पुजात ममलं मुक्ताफलं शीत गोर्माहे यस्य च मिद्रुमं मरकतं सौमय्स्य गारुत्मतं देवेज्यस्यतु पुष्पराग मसुरामात्यस्य वज्रं शनेर्नीलं
निर्मलमस्ययोश्चगधिते गोमेध वै डूर्यके ।।
अ थ ग्र ह स्ना ना नि
विष्णुधर्मोत्तिरे :---
श्लो ।। मंजिष्ठा मत्तमातंगं कुंकुमं रक्तचंदनं ।
पूर्णकुंभेकृतं ताम्रे सूर्यस्नानं विधीयते ।। 1
श्लो ।। मत्तमातंगं गजमदः उशीरं च शिरीषं च
कुंकुमं रक्तचंदनं ।
शंखस्यस्त मिदं स्नानं चंद्रदोष विनाशनं ।। 2
श्लो ।। खदिरं देवदारुं च तिलान्यामलकानिच ।
पुर्णकुंभे कृतेरौप्ये भौमपीडा विनाशनं ।। 3
श्लो ।। नदी संगमतोयानि तन्मृदा सहितानिच ।
न्यस्तानि कुंभमाहेय बुध पीडा विनाशनं ।। 4
श्लो ।। औदुंबरं तधा बिल्वं वटमामलकं तथा ।
न्यस्तानि कुंभमाहेय बुध पीडा विनाशनं ।। 5
श्लो ।। गोरोचनं नागमदः शतपुष्प शतावरी ।
विन्यस्ता राजते कुंभे शुक्रपीडा विनाशनं ।। 6
श्लो ।। तिलान्माषान् प्रियगुं च गंधपुष्पे तधैवच ।
न्यस्तं कार्षायसे कुंभे सौरिपीडा विनाशनं ।। 7
श्लो ।। गुग्गुलुं हिंगलं तालं शुभांचैव मनश्शिलां ।
शृंगेच महिषेन्यस्ते राहुपीडा विनाशनं ।। 8
।। तालं हरितालं ।।
श्लो ।। वराहविहितांराज न्पर्ववताग्र मृदं तधा ।
छागक्षीरं खड्गपात्रे केतुपीडा पिनाशनं ।। 9
ग्रहस्नान मिदंप्रोक्तं सर्वपीडापि नाशनं ।।
इति ग्रहस्नानानि ।।
अ थ गु रु शा ं ति ः
मदनरत्ने - पिप्पलाद उवाच :---
गुरुपूजां प्रवक्ष्यामि यधोक्तं ब्रह्मणापुर ।
लोकाना मुपकारोय सर्वोपद्रव शांतये ।।
कन्या विवाहकालेतु शुद्धिर्यस्यन विद्यते ।
ब्राह्मणस्योपनयने यस्यस्याद्दुस्थितो गुरुः ।
एभिः पूजा गुरोः कार्या विधिवद्भक्ति भावितैः ।
मदंतीकाम पुष्पाणि पत्रं पालाश नर्षपौ ।।
मदंती ---यूथिका।। कामोदमनं ।। गुडीची नान्यपामार्गं विडंगं शंभिनीनाचा ।
सहादेवी विष्णुक्रांता सर्वौषध्य श्शतावरी ।।
कुष्टं मांसी हरिद्रेद्वे मुराशै लेय चंदनं ।
वचाकचोर मुस्ताच सर्वौषध्यः प्रकीर्तिताः ।।
तथैवाश्वत्थ भंगाश्च पंचगव्यं जलंतथा ।
नूतनं सोदकुंभंच पीतवस्त्र समन्वितं ।।
पंचर्त्नै स्समायुक्त मीशान्यां स्थासितेनलात् ।
या ओषदीरिति मंत्रेण सर्वाण्यस्मिन् विनिक्षिपेत् ।
कुंभस्यो परिभागेतु स्थापयित्वा बृहस्पतिं ।
सुवर्णपात्रे सौवर्णीं प्रतिमांतु युधिष्ठिर ।।
कारयेत्तु यधाशक्त्या वित्तशाढ्य विवर्जितः ।
पीतवस्त्र युगच्चन्नां पीत यज्ञोपवीतिनीं ।।
पूजयोद्गंथ पुष्पाद्यैस्ततो होमं समाचरेत् ।
समिद्धोश्वत्थ वृक्षस्य होतव्याष्टोत्तरशतं ।
तिलैर्व्रीहियवैर्मिश्रं होतव्यंच यधाक्रमं ।
बृहस्पतेति मंत्रेण ऋषिच्चंद स्समन्वितं ।।
मंत्रेणानेन जुहुयाद्धान्या पुर्वंच यत्नतः ।
ततो होमावसानेतु पूजयेच्च बृहस्पतिं ।।
पीतगंधै स्तदापुष्पै दूपैर्दीपैश्च भक्तितः ।
दध्योदनंच नै वेद्यं फलतांबूल मंयुतं ।।
मंत्रेणानेन कौंतेय समिद्धव्यं पुनः पुनः ।
नमस्ते गिरिजानाध वाक्पतेथ बृहस्पते ।।
क्रूर ग्रहैः पीडिता नाममृताय नयोनमः ।
पूजयित्वा सुराचार्यं पश्चादर्घ्यं निवेदयेत् ।।
गंभीर दृढरूपांग देवेज्य सुमते प्रभो ।।
नमस्ते वाक्पते शांतग्रहोणार्घ्यं बृहन्पते ।
इत्यर्घ्य मंत्रः ।।
अर्घ्यंदत्वा सुरेज्यस्य जपहोमं समापयेत् ।
भक्त्यास्ते सुराचार्य होम पूजादि सत्कृतिं ।।
कृतां गृहण शांत्यर्धं वाक्पतेते नमोनमः ।
संकल्प मंत्रः ।।
मंत्रेणानेन संकल्प्य पश्चात्सां प्रार्थयोन्नृपः ।।
जीवो बृहस्पति स्सूरि राचार्यो गुरुरंगिराः ।।
वाचस्पतिर्देव मंत्री शुभं कुर्यात्सदा मम ।
इति प्रार्थना मंत्रः ।।
एवं संप्रार्थयेद्धेव माचार्यंच प्रपूजयेत् ।
सर्वोपचार संयुक्तं प्रतिमांतां यंधिष्ठिर ।।
प्रणम्यच गवायुक्ता माचार्याय निवेदयेत् ।
अधा चार्यस्तु नियतो वेदवेदांच पारगः ।।
यजमानं सपत्नीकं शांत चित्तं जितेंद्रियं ।
कुंभोदकं गृहीत्वातु मंत्रैरेतैः ः प्रसिंचयेत् ।।
इदमापोध मंत्रेण तामग्नि मित्यृचातधा ।
या ओषधीरश्वावतीः कष्मांडैश्चाभिषेचयेत् ।
पच्चात्संभोजये द्विप्रास् यधाशक्त्या युधिष्ठिर ।
एवं कृत्वा गुरोः पूजां सर्वान्कामा नवाप्नुयात् ।।
संक्रांतावपि कौंतेय तथा स्वाभ्युदयेषुच ।
कुर्वन् बृहस्पते ः पूजा मभीष्ट फलमाप्नुयात् ।।
संक्रांतौ गुरु संक्रांतौ ।।
इति गुरुपूजा.
अथ प्रति शुक्रदि विधिः
वृद्ध वसिष्ठः :----
शुक्रश्चा स्तंगतेयात्रा चंद्रेचा स्तमुपागते ।
तथा बाल्ये च वर्धे च सायात्रा भयरोगदा ।।
प्रति शुक्रं प्रति बुधं प्रति भौमं च गर्हितं ।
तीर्थयात्रा विथौतेषां प्रति शुक्रोन विद्यते ।।
कश्यपेषु वसिष्ठेषु भृगु ष्वंगिरसेषु च ।
भरद्वाजेषु वत्सेषु प्रति शुक्रोन विद्यते ।।
अन्याषां सम्मुखे दोषः प्रति शुक्रस्तु सर्वादा ।
कृत्वा शांतिं प्रयत्नेन पश्चात्सर्वं समाचरेत् ।।
उपोष्यभृगुवारे च यावच्छुक्रोदयं प्रती ।
रजतेन च शुद्धेनकारये त्प्रतिमां भृगोः ।।
लिखे दष्टदळं पद्मं कांस्यपात्रे च तंडुलै ।
शुक्ल पुष्पाक्षतैर्गंधैः प्रतिमां तत्र पजयेत् ।
उपचारान्नि वेद्यथ शुक्रं ते अन्यदित्यृचा ।।
तन्मंत्रेण जपं कुर्या त्सम्यगष्टोत्तरं शतं ।
क्षीर गंधाक्षतै पुष्पैः र्भक्त्याचार्घ्यं प्रदापयेत् ।।
दैत्यमंत्री दिव्यदर्शीचोशना भार्गवः कविः ।।
श्वेतोथमंडलः काव्योविधिस्ते भृगवे नमः ।
दत्वेत्यर्घ्यं प्रयत्नेन प्रार्थयोच्चैव भक्तितः ।
त्वत्पूजयानया शुक्र सन्मुखो भव शूभन ।
दोषं विनाशयक्षिप्रं रक्षमां तेजसां निधे ।।
दैवज्ञाय ततो दद्या त्प्रतिमां श्वेतगोयुतां ।
एवं कृते दोषस्स्या द्विजयीचार्दवान् भवेत् ।।
मात्स्येपि विशेषः ।।
अथातः श्रुणुभूपाल प्रति शुकप्रशांतये ।।
यात्रारंभे च प्रस्थाने तधा शुक्रोदये सति ।।
शुक्रपूजा प्रकर्तव्यतां निशामय भारत ।।
रजतेवाथ सौवर्णे कांस्यपात्रेधवा पुनः ।
शुक्लपुष्पंबरयुते श्वेत तंडुल पूरिते ।।
निथाय राजतं शुक्रं शुचिं मुक्ताफलान्वितं ।
महाश्वेत गवायुक्तं सामगाय निवेदयेत् ।
समस्ते सर्वलोकेश नमस्ते भृगुनंदन ।
कवे सर्वार्थसिध्यर्थं गृहीणार्घ्यं नमोस्तुते ।।
दत्वैव मर्घ्यं कौंतेय पणिपत्य विसर्जयेत् ।
यावच्चुक्रस्यनकृता पूजा सर्वोपहरकैः ।।
वटकैपोशिकाभिश्च गोधूमैश्चणकैरपि ।
तावत्फलं कध्यं लभ्यं स्त्रीभिः कामार्थसिद्धये ।।
येच शुक्रोदयेकुर्वन्यात्रादिषु च भारत ।
अर्वाग्राश्यागमेचैव अभीष्टं सतदाप्नुयात् ।
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्टिर ।
सौवर्ण पात्रे सौवर्णं ममरेश परोहितं ।।
पीतपुष्पंबरधरं कृत्वा स्नात्वाधसर्षपैः ।
फलाशाश्वद्धभंगेन पंचगव्य तिलेनतं ।।
भंगः पल्लवः ।।
पीतंग रागवसनो घृतहोमंतुकारयेत् ।।
प्रणम्य च गवासार्धं ब्राह्मणाय निवेदयेत् ।
नमस्तेंगिरसां नाथ वाक्पतेथ बृहस्पते ।।
कृरग्रहैः पीडिताना ममृताय नमोनमः ।
अर्घ्य मंत्रः ।।
संकांतावरि कौंतेययात्रास्वभ्युदयोषुच ।।
कर्वन् बृहस्पतेः पूजां सर्वान्कामान्समश्नुते ।
संक्रांतौ गुरोः ।।
अथवामौक्तिकान्येव सुवृत्तानि बृहंतिच ।
भार्गवांगिरसौंचित्य तान्येव प्रतिपादयेत् ।।
भक्त्या मौक्तिकदाने नत्वनेन कुरुनंदन ।
कुरूपता दशा पुसांनकदा चित्प्रजायते ।।
यो भार्गवोदय मवाप्यस वस्त्रपुष्पं कुर्वंत्य नन्यमनसोंगिरनश्च पूजां ।
तेषां गृहेप्रवसतां प्रति शुक्र जातोविघ्नेन संभवति भारत पुण्यभाजां ।।
इति गुरु शुक्रपूजा ।।
अ थ श नि शा ं त य ः
मदनरत्ने भविष्ये :---
ततो मंदस्यदिवसे स्नान मभ्यंग पूर्वकं ।
कार्यं देयंचविप्राय तैलमभ्यंग हेतवे ।।
यस्तु संवत्सरं यावत्प्राप्ते शनि दिने नरः ।।
तैलंददाति विप्रेभ्यः स्वशक्त्या पूजितोपिवा ।।
ततः संवत्शरस्यांते प्राप्तेतस्य दिने पुनः ।।
लोह पट्टार्पितं सौरिंतैल कुंभे वितिक्षिपेत् ।।
लोहे वामृण्मयोवाथ कृष्ण वस्त्र युगान्विते ।।
कृष्णा गो दक्षिणायंक्तं नील कंबळ शायिनं ।।
स्वयमभ्यं जित स्स्नात्वा कृष्णपुष्सै स्तमर्चयेत् ।
सुगंध गंध पुष्सैश्च कृसरान्नै स्तिलोदनैः ।।
पूजयित्वा सूर्य पुत्रं क्षमस्वेति पुनः पुनः ।
कृष्णाय द्विजमुख्याय तदभावेदरायच ।
देवश्शनैश्चरो भक्त्या मंत्रेणानेन वेद्विज ।।
क्रूरावलोक नवशाद्भवनं नाप्नोति योग्रह क्रौर्यात् ।
तुष्टोधनकनक सुखं ददाति सोस्मान् शनैश्चरः पातु ।
यः पुन र्नष्ट राज्याय नराय परितोषितः ।
स्वप्ने ददौनिजं राज्यं समे सौरि स्रसीदतु ।।
कोणं नीलांजन प्रख्यं मंदचेष्टा प्रसारिणं ।
चाया मार्तांड संभूतं नमस्यामि शनैश्चरं ।।
नमोर्क पुत्राय शनैश्चराय नीहार वर्णांजनमेभाय ।
शृत्वारहस्यं भवकाम दस्त्वं फल प्रदोमे भवसूर्य पुत्र ।।
नमोस्तु प्रेतराजाय कृशदेहायवैनमः ।
शनैश्चराय क्रूराय शुद्द बुधि प्रदायिने ।।
यएभिर्नाम भिस्तौति तस्य तुष्टिं ददात्यसौ ।
तदीयंतु भयं तस्य स्वप्नेपि सभविष्यति ।।
इत्यनेन विधानेन शनिं नत्वा विसर्जयेत् ।।
एवमे तद्व्रतं नित्यं योचरिष्यंति मानवाः ।।
वासरे वासरे प्राप्ते वत्सरं यावदेवतं ।
तेषां शनैश्चर पीडा देशेपि नभविष्यति ।।
कृष्णाय सेन घटितां यमराज मुर्तिंलोहे निधाय घटके तिलतैल पूर्णे ।
योब्राह्मणाय रविजं प्रददाति भक्त्यापीडा शनैश्चर कृता सहिबाधतेतं ।।
स्कांदे ।।
द्वादशाष्णम जन्मस्थे शनौ सर्वग्रहेश्वरे ।।
किंकर्तवयं नरैः किंवा विधान्यां क्लेश शांतये ।।
स्कंद उवाच :-----
श्रावणेमासि संजाते शोभने शनिवासरे ।
लोहरूपं शनिं कृत्वा स्नाप्य पंचामृतेनवै ।।
पुष्पै रष्टविधैर्धूपैः फलैश्चैव विशेषथः ।
नामभिः पूजये देतैः क्रमेण ग्रह सत्तमं ।।
कोणस्थः पिंगळो बब्रुः कृष्णो रुद्रो यमोंतकः ।
सौरी शनैश्चरो मंदः पिप्पलादेन संस्तुतः ।।
शन्नो देवीति सर्वत्र वैदिकेनच पूजयेते ।
पूजयित्वाच नै वेद्यं ततः कुर्यात्क्रमेणतु ।।
समाष भक्तं प्रदमं द्वितीयं पायसं शुभं ।
देवीति सर्वत्र वैदिकेनच पूजयेते ।।
पूजयित्वाच नैवेद्यं ततः कुरयात्क्रमेणतु ।।
समाष भक्तं प्रदमं द्वितीयं पायसं शुभं ।
तृतीयेत्वं बलीकार्या चतुर्थे पूरिका शुभा ।।
अंबली तक्र तंडुल पिष्ट कृतायवागूः ।
प्रथमादि सब्धोवासर परः ।।
इति शनैश्चर शांतिः ।।
अथ शनैश्चरादि स्तोत्रं स्कांदे नागरखंडे
नारदः :---
गृहगावो नरेंद्रश्च ब्राह्मणाश्च विशेषतः ।
पूजीतां पूजयंत्येते निर्दहं त्यपमानिताः ।।
तस्मा त्कुरुस्तुतिं चास्य स्वशक्त्या भास्करे प्रभोः ।
बालक उवाच :---
पिष्पलादो द्विजश्रेष्ठं प्रणिपत्य मुहुर्मुहुः ।
नमस्ते कोडसंस्धाय पिंगळाय नमोस्तुते ।।
नमस्ते बभृरुपाय कृष्णायच नमोस्तुते ।
नमस्ते रौद्रदेहाय नमस्ते चांतकायच ।
नमस्ते यमसंज्ञाय नमस्ते सौरयेविभो ।
नमस्ते मंचसंज्ञय शनैश्चर नमोस्तुते ।।
प्रसादं कुरुदेवेश दीनस्य प्रणतस्यमे ।
शनैश्चर उवाच :---
परितुष्टोस्मिते वत्स स्तोत्रेणानेन सांप्रतं ।
वतं वरयभो वत्स तवयच्छामि वांछितं ।।
पिप्पलाद उवाच :-----
अद्यप्रभृतिनो पीडा बालानां रविनंदन ।
त्वयाकार्या महौ भागन स्वकीयाकदंचन ।।
यावद्वर्षाष्च कंजातं ममवाक्येन सूर्यज ।
स्तोत्रेणानेनयोन्यस्त्वं स्तोष्येत्प्रातरुपस्थितः ।।
तस्य पीडा नकर्तव्या त्वया भास्करनंदन ।
तस्यपीडा नकर्तव्य देयो लाभो महाभुज ।।
अर्धाष्टमिकयायोगे तावके संस्थिते नरः ।
सार्थ सप्तवर्ष एव अर्थाष्टमिका ।।
तव वारेतु संप्राप्तेय स्तिलान्नोह संयुतान् ।
शक्त्या ददातिनो तस्य पीडा कार्यात्वया विभो ।।
कृष्णां गायतु विप्रायतवोद्देशेनयच्चति ।
अर्थाष्टमिकया पीडा तस्यकार्या त्वयानच ।।
शमीसमिद्भिर्यो ह्मं तवोद्देशेन निर्वपेत् ।
तथा कृष्णतिलैशैव कृष्णपुष्पानुलेपनैः ।।
पूजांकरोतियस्तुभ्यं धूपं वै गुग्गुलुं ददेत् ।
कृष्णवस्तेण संवेष्ट्यत्याजि तस्य त्वयाव्यधा ।
सूत उवाच :----
एवमुक्तः शनिनैन बाढमित्येन जल्प्यच ।
नारदं समनुज्ञाय जागमनिजसंश्रयं ।।
मदनरत्ने प्रभासखंडे :---
यः पुनः श्रद्धयायुक्तः शुचिः प्रातस्समाहितः ।।
शमीपत्रैः समभ्यर्च प्रतिमां लोहजां मम ।
माषोदनं तिलैर्मिश्रं दद्याल्लोहं च दक्षिणां ।।
कृष्णांगां वृषभंवापि यामेदद्या द्विजायवै ।
तस्य पीडांनचै वाहं करिष्यामि कदाचन ।
इति शनि स्तुतिः ।।
अथ राहु शांतिः ।। ज्योतिष्ये :-----
जान्मांत्य पंचचतुरष्ट नवद्निसप्ते राहुग्रहो यदितुचार वशेनगच्छेत् ।
आलोडनं नृपभयं क्षयमर्ध नाशनं रोगप्रनवास मरणाग्नि भयं करोति ।।