शान्तिकमलाकरः/तृतीयः भागः
← द्वितीयः भागः | शान्तिकमलाकरः तृतीयः भागः [[लेखकः :|]] |
चतुर्थः भागः → |
तत्र मध्ये सूर्याय - सूर्यां आवाहयामि ।। बाह्ये पूर्वाद्यष्टदिक्ष - सोमाय - सोमाय - सोमं आवाहयामि ।। भौमाय - भौमं आवाहयामि ।। बुधाय - बुधं आवाहयामि ।। बृहस्पतये - बृहस्पति आवाहयामि । शुक्राय - शुक्रं आवाहयामि ।। शनैश्चराय - शनैश्चर मावाहयामि ।। राहवे - राहुं आवाहयामि ।। केतवे केतुं आवाहयामि ।। एतादेवताः प्रतिष्ठाप्य संपूज्य पूर्वोक्तफ्रकारेणाष्टगंधैः क्षौमवस्त्रोपरिग्रहा यंत्रं विलिख्य । तदुपरि यधाक्रमेण संस्थाप्य । तत्र कुंकुमाक्षतैः ग्रहन्याधि प्रत्यधिदेवतान् स्थापयेत् ।। तद्यथा ।। मंडले आदित्यादि देवता स्थापनं करिष्ये ।। इति संकल्प्य ।। पद्मासनः पद्मकरो पद्मगर्भ ।। आकृष्णेन हिरण्यः स्तूपःसविता त्रिष्ठुप् । सूर्यावाहने विनियोगः । ओं भूर्भुवस्वः कळिंगदेवशोद्भव काश्यवगोत्र सूर्य इहगच्छेति ।। आप्यायस्व गौतमः सोमो गायत्री - ओं भूर्भुवस्वः यमुना तीरोद्भव आत्रेयसगोत्र सोम इहगच्छेति ।। अग्निर्मूर्धाविरूपां गारको गायत्री - ओं भूर्भुवस्वः अवंती समुद्बव भारद्वाजल गोत्र बौम इहगच्छ ।। उद्भुध्य स्वबूधः सौम्यो बुधस्त्रिष्टु भ् - ओं भूर्भुवस्वः मगधदेशोद्भव आत्रेयसगोत्र बुध इहकगच्छ ।। बृहस्पते गृत्समदो बृहस्पति स्त्रिष्डुप् । ओं भूर्भुवस्वः सिंधु देशोद्भव आंगीरसगोत्र बृहस्पते इहगच्छ ।। शुक्र पराशरः द्विवदाविराट् - ओं भूर्भवस्वः - भोजकटकोद्भव भार्गवसगोत्रश्शुक्र इहगच्छ ।। शमग्निरितिविटः शाशिनरुष्णिक् - ओं भूर्भुवस्वः - सौराष्ट्रदेशोद्भव काश्यपनगोत्र शनैश्चर इहगच्छ ।। कयानो वामदेवो राहुर्गयत्री । ओं भूर्भुवस्वः - सिंहळदेशोद्भव पैठी नसगोत्र राहो इहगच्छ ।। केतु मधुच्छंदाः केतुर्गायत्री । ओं भूर्भुवस्वः - अंतर्वेदी समुद्भव जैमिनसगोत्र केतो इहगच्छ ।। अधाथिदेवाता ।। त्र्यिंबको वसिष्ठो रुद्रोनुष्ठुपे - गौरीमिमादीर्घतमा उमा जगती ।। यदक्रंदो दीर्घतमाः स्कंदस्त्रिष्ठुप् ।। विष्णोर्नुकं दीर्घतपानायणस्थ्रिष्ठुप् ।। ब्रह्मजिज्ञानं वासुदेवो ब्रह्मत्रिष्ठुप् ।। इंद्रंवो मधुच्चंदा इंद्रो गायत्री - यमाय सोमं यमो यमोनुष्ठुप् ।। मोषूणोsघोरः कण्वः कालोगायत्री ।। उषो राजं प्रस्कण्व चित्रगुप्तो बृहती ।। अधिप्रत्यधिदेवता ।। अग्निं कण्वोमेधातिधि रग्निर्गायत्री । अप्सुमे मेधातिधिपोनुष्ठुप् । स्वोनामेधातधिर्भूमि र्गायत्री । इदं विष्णुर्मेधातिधि र्विष्णुर्गयत्री । इंद्रश्रेष्ठानि गृत्समद इंद्रस्त्रिष्ठुप् । इंद्राणीं वृषाकपि रिंद्राणी पंक्तिः । प्रजापते हिरण्यदर्भः प्रजापतिस्त्रिष्ठुन् । अयं गौः सार्पाराज्ञो सर्प गायत्री - ब्रह्मजिज्ञानं गौतमो वामदेवो ब्रह्मत्रिष्ठुप् ।। ततः उत्तरतः ।। गणानांत्वा गृत्स्नमदो गणपतिर्जगती ।। जातवेदसे कश्यपो दुर्गास्त्रिष्ठुन् ।।
तववायु श्वांगिरसो वायुर्गायत्री आदित्यत्स आकाशोगायत्री - एषो उषः प्रस्कण्वोश्विनौ गायत्री । यद्वाराहो रुत्तरे विनायकं ।। शनेरुत्तरे ।। वायुं - राहोर्दक्षिणे आकाशं - केतोर्दक्षिणेश्वनौ । उत्तरे क्षेत्रस्य पतिना वामदेवः क्षेत्रधिपति
रनुष्ठुप् - वास्तोष्पते वसिष्ठो वास्तोष्पति स्त्रिष्टुप् ।। ततः लक्षकोटि होमयोः ।। सामध्वनि शरीर स्त्वंवाहनं परमेष्ठिनः - विषपापहरो नित्य मतः शांतिं प्रयच्चमे ।। इति मंत्रेण इंद्रं मित्रं वरुणमितिवा गरुत्मंत मुत्तरतः आवाह्य दिक्पाला नष्टदिक्षु तत्तन्मंत्रै रावाह्य ।। ततः रवेः पूर्वे शेषं । सोमस्याग्रे वासुकिं ।। भौमस्याग्रे तक्षकं ।। बुधो त्तरे कर्कोटिकं ।। गुरूत्तरे पद्मं ।। शुक्रोत्तरे महपद्मं ।। शनि पश्शिमे शंखपालं ।। राहेः पुरतः कंबळं ।। केतोः पुरतः कुलिशंच स्थापयेत् ।। ततः पूर्वे अश्विन्यादि सप्त नक्षत्राणि ।। विष्कं बादि सप्तयोगान् ।। बवबालव करणे ।। सप्तद्वीपानि ।। ऋग्वेदंच ।। दक्षिणे पुष्यादि सप्त नक्षत्राणि ।। धृत्यादि सप्तयोगान् ।। कौलवत्ते तिलकरणे सप्तसागरान् ।। यजुर्वेगान् गरजि वणिक्करणे सप्त पाताळानि सामवेदंच ।। उत्तरे अभिजिदादि सप्त नक्षात्राणि साध्यादिषड्योगान् विष्टिकरणं भूरादीन् सप्तलोकान् ।। अधर्व वेदंच ।। वायप्येध्रुवं सप्तर्णींश्च ।। ततो यधावकाशं गंगादि सप्तसरितः सप्तकुलाचलान् ।। अष्टौ वसून् द्वादशादित्यान् एकादश रुद्रान् एकोन पंचा शन्मरुतः षोडश मातृः षड्रुतून् द्वादश मापान् द्वे आयने पंचदश किधीः षष्टि संवत्सरान् सपर्णन् न्नागान् यक्षान् गंधर्वान् विद्याघपाप्सरसः रक्षांसि भूतानि मनुष्यान् इति ।। कोटि होमेतु वेद्याः पूर्वे ब्रह्म मध्ये जनार्दनः ।। पश्चिमे रुद्रः उत्तरे स्कंदः ततो ध्यायेत् ।। ततस्तु मित्रा - गृहवै इत्यावाह्य ।। पुरुषसूक्तेन षोडशोपचारैः संपूज्य प्रार्धयेत् ।। आदत्यावसवो रुद्रा मरुतो लोकपान्तथा । ब्रह्म जनार्दनश्चैव शूलपाणिर्भगाक्षह ।। अत्र सन्निहिता स्सर्पे भवंतु मख भागिनः । पूजां गृह्णंतु सर्वत्र मया भक्त्योपपादितान् ।। कुर्वंतु च शुभं सर्वे यज्ञ कर्तुः समाहितानिति ।। ततो वेदीशान्यां कुंभं संपूज्य । देवदानव संवादे इति संप्रार्ध्या अन्वाधानं कुर्यात् ।। चक्षुषी आज्येनांत मुक्त्वा ।। नवग्रहनष्ट शताष्णा विंशत्यष्टान्यतम संख्याभिः समिच्चर्वाज्याहुतिभिः नवग्रह नयुत लक्षकोट्यान्यतर संख्याभिर्यवव्रीहि घृततिलान्यत राहुतिभिः शेषेण स्विष्ट कृतमित्यादि चर्वाज्याहुतिरेकैव सर्वेषामिति पक्षे तधोल्लेखनादि ।। लक्षकोटि होमयोर्गरुत्मंत मष्टशतादि संख्यया समिदादिभिः कोटिहोमे ब्रह्मादीनां गरुडवतत् ।। चर्वेकाहुतिपक्षे ।। वत्सानां पंचावदान धर्मश्च । लक्षहोमादे र्बहुदिन साध्यत्वे चरुस्विष्ट कृदाद्य दिन एवकार्यः ।। यावद्धोम समाप्ति प्रतिदिनं ग्रह पूजा कार्या कोटिहोमे प्रति सहस्रं पूर्णाहुति रपि होम समास्ता वग्निं संपूज्य स्विष्टकृदादि प्रायश्चित्त होमांतं कृत्वाग्नेः समंतान्नवग्रहेभ्यो वेदेरु त्तरतो विनायकादि सप्तभ्यो गरुत्मतेच तत्तन्मंत्रैः माषभक्त बलीन् दत्वा क्षेत्रपाल बलिं ब्राह्मणेन शूद्रेणवा चतुष्टये क्षेपयेत् ततः प्रक्षाळि तपादो द्वादश गृही तेन चतुर्गुहीतेन वाज्येन वस्त्र नारिकेळादि युतेन पूर्णाहुतीं जुहूयात् ।। तत्र मंत्राः ।।
समद्रा दूर्मिरित्यस्य गौत मोवा मोधेवोग्नि स्त्रिष्टुप् ।।
मं ।। समुद्राय वयनाय सिन्थूनां पतये नमः । नदीनाग्ं सर्वासां पित्रे जुहुता विश्वकर्मणे विश्वाहsमर्त्यग्ं हविः ।।
मूर्धानंदिनो बार्हस्पत्यो भारद्वाजो वैश्वानरस्त्रिष्ठुन् ।।
मं ।। ओं मूर्धानंदिवो ऋतिं पृथिव्या वैश्वानर मृताय जातमग्निग्ं संम्राज मदितिं जनाना मासन्ना पात्रं जनयंतु देवाः ।।
पुनस्त्वग्निर्वसु रुद्रादि त्यास्त्रिष्टुप् ।।
मं ।। ओं पुनस्त्वादित्या रुद्रा वसवस्स मिंधतां पुनर्बह्मणो वसूनीद यज्ञैः घुते नत्वं तनुवो वर्धयस्व सत्यान्संतु यजमानस्य कामाः ।।
पूर्णादर्वी विश्वे देवाः शतक्रतु रनुष्टुप् ।।
मं ।। ओं पूर्णा दर्वी परापत सुपूर्णा पुनरावत । वश्रिव वक्रीणा वह इषमूर्जग्ं शतक्रतो ।।
सप्तते अग्ने सप्तवतेग्नये ।।
मं ।। ओं सप्तते अग्ने समिधस्सप्तजिह्व सप्तऋषयः स्सप्तधामप्रियाणि । सप्तहोत्रा सप्तधात्वाय जंतु सप्तयोनी रापृणस्वघृतेन ।।
धामंते वामदेवो आपो जगती ।।
मं ।। ओं धाम्नो धाम्नो राजन्नितो वरुणोनुमुंच यदापो अग्निया वरुणोतिशफामहे ततो वरुणोनुमुंच ।। एतैर्हुत्वा ।। इदमग्ने वैश्वासराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तते अग्नयेद्ब्यश्च नममेति त्यागः ।। अथवसोद्धारां पातयेत् ।। तत्र मंत्राः ।। अग्नि मीळे इति नवानां मधुच्छंदा अग्निर्गायत्री । विष्णोर्णुक इति षण्णां दीर्घ तपाविष्णु स्त्रिष्टुप् ।। आतेपितरिति पंचदशानां गृत्स्नमदो रुद्रस्त्रिष्टुप् ।। स्वाधिष्चेति दशानां मदुछंदाः पवमान सोमोगायत्री ।। महावैश्वानरज्येष्ठ सामनीच पूर्णपात्र विमोकादि कर्म शेषं समाप्य । सत्त्वक्श्रेयः संपादनं कृत्वा कुंडेशानभागे स्वस्तिकोपरिभद्रासने उपविष्टं यजमानं ग्रह कलशोदकेन समुद्र ज्येष्टत्यादिभिः सुरास्त्वेत्यादि बिश्चाभिषंचेत् ।। अत्र पत्नी वामे ।। ततो यजमानः सर्वौषधी रभिरनुलिप्यस्नात्वा ।। पौराणैश्च ।। तेच ।। सुरास्त्वामभिषिंचंतु ब्रह्म विष्णु महेश्वराः वासुदेवो जगन्नाधस्तथा संकर्षमोविभुः ।। प्रद्युम्नश्चानिरुद्दश्च भवंतु विजयायते ।। आखंडलोग्निर्भगवान् यमोवै निऋरुतिस्तथा ।। वरुणः पवनश्चैव धनाध्यक्ष स्तदाशिवः ।। ब्रह्मणा सहिताः सर्वे दिक्पालाः पातुमां सदा ।। कीर्तिलक्ष्मी धृतिर्मेधा पुष्टि श्रद्धा क्रियामतिः । बुद्धिर्लज्ञावपुः श्शांतिः कांतिस्तुष्टश्च मातरः ।। एतास्त्व मभिषिंचंतु देवपत्न्य स्समागताः । आदित्य श्चंद्रमा भौमो बुध जीवसितार्कजाः ।। गृहस्त्वा मभिषिंचंतु राहुः केतुश्चतर्पिताः । देव दानव गंधर्व यक्ष
राक्षस पन्नगाः ।। ऋषयो मुसयोगावो देवमातर एवच । देववत्न्योद्रुमानागा दैत्याश्चाप्सरसांगणाः ।। अस्त्राणि सर्व शास्त्राणि राजानो वाहनानिच । औषधानि च रत्नानि कालस्यावयवाश्चये ।। सरितः सागराःशैला स्तीर्धानि जलदासदाः । एतैत्वा मभिषिंचंतु सर्वकामार्थ सिद्धये ।। इति ।। ततः प्राज्ञ्मखः कर्ताग्नेः पश्चादाचार्य ऋत्विजः उदङ्मखान् संपूज्य ।। देशकालौ संकीर्त्य मयाकृते आयुत होमाख्ये ग्रहयज्ञ प्रतिष्टागभूतां इमां कपिलांगां रुद्रदैवत्यामुख गोत्रेभ्यो गुर्वादि सर्वऋत्विग्भ्यो दक्षिणासहिता महंसंप्रददे सममेत्युक्त्वा ।। कपिले सर्वधेवानां पूजनीय्यासि रोहिणि । तीर्धदेवमयी यस्माददः शांतिं प्रयच्छमे ।। इति पठेत् ।। एमग्रे ज्ञेयं ।। पुण्यस्त्वं शंख पुण्यौनां मंगळानां च मंगळं । विष्णुनाविधृतोनित्य मदः शांतिं प्रयच्छमे ।। इति सोमाय शंखं । धर्मस्त्वं वृषरूपेण जगदानंदकारक । अष्टमूर्ते रधिष्ठानः तस्माश्छांतिं प्रयच्छमे ।। भौमाय वृषं ।। हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनंतपुण्यफलदः शांतिं प्रच्छमे ।। इति बुधायहेमः ।। पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं । प्रदानात्तस्यमे विष्णुः प्रियतां शान्तिदोभवेत् ।। इति गुरवे पीतवस्त्रं ।। विष्णोत्वमश्वरूपेण यस्मा दमृतसंभवः । चंद्रर्क वाहनं नित्यमदः शांति प्रयच्छमे ।। इति शुक्रायाश्वं ।। यस्मात्वं प्रधिताकृष्णा धेनोकेशाभसन्निभा । सर्वपापहरा नित्य मधः शांतिं प्रयच्छमे ।। इति शनेः कृष्णांगां ।। यस्मादायसकर्मणि त्वददीनानि सर्वदा । लांगलान्यायुधादीनि तस्मा च्छांतिं प्रयच्छमे ।। इति केतवे छागं । सर्वेषां वागावः ।। गवामंगेषु तिष्ठंति भुवनानिचतुर्दश । यस्मात्तस्माच्छिवं मेस्यादिहलोके परत्रचेतदेया ।। सर्वेभ्यस्सुवर्णंवा दद्यात् ।। सर्वेषां प्रीतयेशय्या रत्नानि भूमिसदक्षिणादेया ।। तन्नंत्रास्तु ।। यस्मादशून्यं शयसं केशवस्य शिवस्यच । शय्याsशून्यामेयं स्याद्दत्तजन्मनिजन्ननि ।। यधारत्नेषु सर्वेषु सर्वेदेवाः प्रतिष्ठिताः । मम शांतिं प्रयच्छंतु रत्नदानेनमे सुराः ।। यधा भूमिप्रदानस्य कलांनार्हंतिषोडशीं । दानान्यन्यानिमेशांतिर्भूमिदनाद्भवत्विति ।। वस्त्र कांचन रत्नान्यपि यथाशक्तिदद्यात् ।। ततो ग्रहाणामुत्तर पूजां कृत्वा ।। यांतु देवगाणा इति विसृज्याग्निं संपूज्य विभूतिर धृत्वा गच्छगच्छ सुर श्रेष्ठेति वुसृज्योक्त संख्याया विप्रान् संभोज्य ।। कर्मेश्वरार्पणमिति ।।
इति कमलाकर कृतावयुत होमः
अथ लक्ष होमविधिः मात्स्ये ।।
कधितोयुत होमोयं लत्रहोम मतः शृणुः ।। सर्व कामप्तये यस्माल्लक्षहोमं विदुर्बुथाः ।। ।। अस्माद्दशगुणः प्रोक्तलक्ष होमः स्वयंभुवा । आहुतीभिः प्रयत्नेन दक्षिणाभिस्तधैवच ।। ।। अथ ऋत्विजो बृहत्पराशरेणोक्ताः । युग्मास्तु ऋत्विजः कार्या ब्राह्मणा येवि पश्चितः । नित्यं जप पराश्चैव नियोज्यास्तेन तद्विजाः ।।
कंदमूल फला हरादधिक्षीराशि नोपिवा मात्स्ये ।। द्विहस्त विस्तृतं तद्वच्चतुर्हस्ताय तंतदा ।।
(चतुरु हस्तायतमिति पक्षांतरं विरदाहि यवादि विषयं अन्येतु क्षेत्रे फलोक्तिरियं ।। द्विहास्त करण्यां हिचुतर्हस्तं क्षेत्रं भवति ।। तेनैक एव पक्ष इत्याहुः ) ।।
लक्षहोमे भलेत्कुंडं योनि वक्त्रं त्रिमेखलं । द्विरंगुळो च्छ्रिताकार्या प्रधमा मेखला जुधैः । द्विरंगुळन्नता तत्र द्विताया समुदा हृता । उच्च्राय विस्तराभ्यां चतृतीया चतुरंगुळा ।। चतुरंगुळ विस्तारः पूर्व योरपिशस्यते ।। तस्यचोत्तर पूर्वेण वितस्तित्रय संवितां । प्रागुदक् प्रवणांत द्वच्चतुरश्रां समं ततः ।। विष्कंभार्धोच्छ्रितं प्रोक्तं स्धंडिलं विश्वकर्मणा । संस्थापनाय देवानां वप्रद्वय समादृतं ।। द्विरंगुळोच्छ्रितो वप्रः प्रधमः समुदाहृतः । त्र्यिंगुळोच्छ्रायकं प्रोक्तं वप्रद्वय मथोपरि ।। द्व्यंगुळ स्तत्र विस्तारः सर्वेषां कथितो बुधैः । दशां गुळोच्छ्रिताभित्तिः स्थंजिलेस्यात्तधोपरि ।। तस्मिनावाहा येद्देवान् पूर्ववच्छुक्ल तंडुले । गुरुत्मानधिक स्तत्र संस्थाप्य श्श्रियमिच्चता ।। नच सर्ववेद्यन्ते पूर्वभागे स्थाप्यः ।। अंतेतु बादरायण इति न्यायात् ।। तदा वाहाने मंत्राः ।। सामध्वनि शरीरत्वं वाहानं परमेष्टिनः । विषपापहारो नित्य मदः शांतिं प्रयच्छमे ।। विषाप हरम इतवा पाठः ।। पूर्वा वत्कुंभमा मंत्र्य तद्वद्दोमं समाचरेत् ।। सहस्राणां शतंहुत्वा समित्संख्यादिकं पुनः । पूर्ववत्स मिदाज्य चरुन् हुत्वा सुवर्णोसिगरुत्मानिति गरुडदैव पताकं होमं हुत्वा व्याहृतीभर्लक्ष होमं कुर्यादि त्यर्धः ।।
मं ।। ओं सुपर्णोसिग रुत्मान् त्रिवृत्ते शिरोगायत्रं चक्षु स्तोम आत्मा सामते तनूर्व देव्यां बृहद्र दंतरे पक्षौ यज्ञा यज्ञियं पृच्छं चंदाग्ष्यंगानि धिष्णिया स्पफाय जूग्ंषी नामा सुपर्णोपि गरुत्मान् दिवंगच्च सुवः पतः ।।
घृत कुभाद्वसोद्धारां पातये दनलोपरि । औदुंबरी मयी मार्द्रा मृज्वीं कोटर वर्जितां ।। बाहु मात्रां स्रुवं कृत्वा ततन्तंभद्वयोरपि । घृता धारां ततः सम्यगग्नेरु परिपातयेत् ।। श्रामय स्सूक्त माग्नेयं वैष्णवं लौद्र मैंदवं । मह वैश्वानरं सामच पाठयेत् । अग्निमीळे नवानां मधुच्छंदोर्ग्निगायत्री ।।
विष्णोर्नुकमिति षण्णां दीर्घतमा विष्णु स्त्रिष्ठुप् ।।
स्वाधिष्टयाद शानां मधु चंदः सोमो गायत्री ।। महवैश्वा नरसाम्नः वैश्वानर ऋषि र्देवता । जगती बृहती च्छंदः ।।
मूर्धा नंदिप इति ज्येष्ठा साम्नो भरद्वाजौ वैश्वानर स्त्रिष्टुप् ।।
स्नानं च यजमानस्य पूर्ववत् स्वस्ति वाचनं । दातव्या यजमानेन पूर्व वद्दक्षिणाः क्रमात् ।। तद्वच्छ दश चाष्टौवा लक्ष होमेपि ऋत्विजः । कर्तव्याः शक्ति तस्तद्वच्छत्वारोवा विमत्सराः ।। नवग्रह मखा त्सर्वं लक्षहोमे दशोत्तरे ।। दत्वा दद्याम्मनि श्रेष्ठ भूषणान्यपि शक्तितः ।। अत्र दानं यधा शक्या दातव्यं भूति मिच्छता
। एकैक शताहुते स्सहस्स्रस्यवैको विप्र इत्यर्धः ।।
फलंतु ।।
पूज्यते शिवलोकेच वस्वादित्य मरुद्गणैः । तत्र कल्प शतान्यष्टावथ मौक्ष मवाप्नुयात् ।। सकामोयस्त्वि मंकुर्याल्लक्ष होमंयधाविधि । सर्वान्कामान्नवाप्नोति पदंचा नंत्य मश्नुते ।। पुत्रार्दी लभते पुत्रं धनार्धी लभते धनं ।। भार्यार्धी लभते भार्यां कुमारीच शुभं पतिं । भ्रष्टराज्य स्तधाराज्यां श्रीकामः श्रियमाप्नुयात् ।। यं यं कामयते कामं तं तं प्राप्नोति पुष्कलं । निष्कामः कुरुते यस्तु परंब्रह्मादि गच्छति ।। इति लक्षहोमः ।।
अथ कोटिहोमः मात्स्ये ।।
अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयंभूवा । आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेनच ।। पूर्वा वद्गृह देवानां आवाहन विसर्जने ।। होम मंत्रास्तु पूर्वोक्ताः स्नाने दाने तधैवच । कुंड मंटपवेदीनां निशेषोयं निबोधये ।। कोटि होमे चतुर्हस्तं चतुरश्रंच यत्नतः । योनि वक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलं ।। एकं योनि वक्त्रं पश्चिमे अपरं दक्षिण इति ।। हेमाद्रौ मदनरत्ने चोक्तं ।। वेदिश्च कोटिहोमे स्याद्वित स्तीनां चतुष्टयं । चतुरश्राः समंताच्च त्रिभिर्वस्त्रै स्समावृता ।। वप्र प्रमाणं पूर्वोक्तं वेदिकाया स्तधोच्छ्रयः । तधा षोडश हस्तः स्यान्मंचपश्च चतुर्मुखः ।। पूर्वद्वारेच संस्थाप्य बह्वाृचंवेद पारगं । याम्य स्थाप्यो यजुर्वेदी पश्चमे सामवेदिनं ।। अधर्वेदिनं तद्व दुत्तरे स्थापयेद्बुधः । अष्टौ होमार्थ मा मंत्र्या वेद वेदांग वेदिनः ।। आहत्य द्वादर्शा विप्रान् वस्त्र माल्यानु लेपनैः । पूर्वा वत्पूजये द्भक्त्या सर्वाभरण भूषणैः ।। रात्रि सूक्तंच रौद्रंच पावमानं सुमंगळं । पूर्वाद्वारे ऋचां शांतिं पठन्नास्त उदङ्मुखः ।। शाक्रं सौम्यं च रौद्रंच कूष्मांडं शांतिमेवच ।। पाठयेद्दक्षिणद्वारि यजुर्वेदिन मुत्तसुं ।। सौवर्ण मधमै राजन्नाग्नेयं रुद्र संहितं । ज्येष्ठ साम तथा शांति छंबोगः पश्चिमे पठेत् ।। शांति सूक्तंच सौरंच तधा शाकुनिकं शुभं । पौष्टिकंच तथा राजन्नुत्तरे द्वर वेचवित् ।। अष्ट भिब्राह्मणै स्तत्र होम कार्यश्च पूर्ववत् । स्नाने दानेच मंत्राः स्युस्तएव मुनि सत्तम ।। वसोर्दारावि धानंच लक्षहोम वदिष्यते ।। अनेन विदिनायस्तु कोटिहोमं समाचरेत् ।। सर्वा न्कामान्नवाप्नोति ततो विष्णुपदं प्रजेत् ।। अश्वमेद सहस्राणां दश चाष्टौच दर्मवित् ।। कृत्वा यत्फल मवाप्नोति कोटिहोमात्त दश्नुते । ब्रह्म हत्या सहस्राणि भृणहत्य र्बुदानिच ।। नश्यंति कोटि होमेन यथावछ्चिव भाषितं ।।
इति मात्स्ये कोटिहोम विधिः.
अथ नृसिंह होमविधिः
नृसिंह होमः ।। नृसिंह पूरणे नृसिंह होमविशेषः ।।
दुन्वप्नदर्शने घोरे ग्रहपीडा समुद्भवे । हनंती प्रतिमाचैव ज्वलंती च विशेषतः
।। प्रस्वेदयुक्तं प्रतमां दृष्ट्वातु नृपनंदन । तधा महाज्वरग्रस्तो धारादेवस्य मूर्धनि ।। संततं नरसिंहस्य कुर्या द्वाकारयेद्बुधैः । आयने विषुवेचैव चंद्र सूर्य ग्रहेतथा ।। नरसिंहं समाराध्य लक्षहोमं च कारयेत् । आनावृष्टि महामारी ज्वरे रोगभये तधा ।। नरसिह्मं समाराध्य ब्राह्मणै र्वेदपागैः । कारये लक्षहोमंतु ग्रामपश्चान्नरा धिपः ।। दृष्ट्वोप सर्गं मरणं प्रजानामात्मनश्चहि । सम्यगाराध्य यत्नेन नरसिंह्मस्य मंदिरे ।। शंकरायतिनेवापि कोटिहोमं समाचरेत् । प्रमाणं बाहुमात्रंतु सर्वतः कुंडलक्षणं ।। ब्रह्मचारी व्रतै र्युक्त स्त्रिरात्रंतुविशेषतः अहोरात्र मुपोष्याध गायत्री मयुतं जपेत् ।। निराहाराश्च शुचयस्ते सर्वे संयतेंद्रियाः । आरभेयु स्ततोयज्ञं ततो होममंतंद्रिकाः ।। यवधान्यतिलैर्मिश्रैः गायत्र्या प्रधमंहुतं । जुहुयादेकचित्तेन स्वाहाकारान्वितं बुधः ।। ततो व्याहृतिभिः पश्चाज्जुहुयात्तु तिलादिकं । यावत्प्र पूर्यते संख्या लक्षंवा कोटिरेववा ।। तावद्दिनेकुर्या दच्युतार्चन पूर्वकं । तावच्छभोजनं दद्यावद्दोमं समाचरेत् ।। समास्ते दक्षिणां दद्यात्ततः प्रोक्ष्योदकेन च । एवं कृतेतु ग्रामस्य राज्ञो जनपदस्य च ।।
सर्वबाधा प्रशमनी शांतिर्भवति सर्वदा ।।
इति नृसिंह होमविधिः.
अ थ गा य त्र्याः
लक्षकोटि होमविधिः
( हेमाद्रौ मदनरत्ने देवीपुराणे )
श्लो ।। षडश्रं लक्षणोपेतं वैडुर्यंकारयेच्छिवं ।
हेमपीठं सुशोभाढ्यं चंद्रार्कौ तत्र मातरः ।। 1
श्लो ।। चर्चिकाद्याः प्रक र्तव्याः पूर्वादि परिकल्पिताः ।
तत्र ग्रहाणां प्रग्वत् पूजाकार्या ।। 2
श्लो ।। लक्षहोमः प्रकर्तव्यः सर्वपीडा निवारणः ।
गायत्र्या ग्रहमंत्रैश्च कूष्मांडै र्जातवेदसैः ।। 3
ऐंद्रवारुण वाह्नेयै र्वाययाम्यैस्सवैकृतैः ।
श्लो ।। होमश्शतसहस्रस्तु ह्यत्रोत्क्रुष्यो विधीयते ।।
आत्र मंत्रविभागस्तु ह्यतोत्क्रुष्टो विधीयते ।। 4
श्लो ।। सर्वपीडा विनाशाय कोटिहोम श्शुभावहः ।
यवव्रीहि घृत क्षिर तिलाः कंगुप्रसारिकाः ।।
संकजोशीर बिल्वाम्रदळा होमे प्रकीर्तिताः । 5
तत्रैव ब्रह्मोवाच --
श्लो ।। लक्षहोमं प्रवक्ष्यामि यथोक्तं तत्र शंभुना ।
भूमिकंपे दिशांदापे ग्रहयुद्धेप्युपस्थिते ।। 6
श्लो ।। केतु संदर्शनेचैव आदित्यश्य च कंपने ।
कृष्णवर्णे थवासूर्ये तथा छिद्रसमन्विते ।। 7
श्लो ।। रक्तवृष्टिस्तथानड्यो विपरीता भवंति च ।
निर्गतं गगनाद्धूमं वारिमध्येग्नि संस्थितिः ।। 8
श्लो ।। उपसर्गा स्तथालोके नानोत्पात समुद्भवे ।
यस्यराशौ ग्रहाःपंच षट्सप्तच सुराधिप ।। 9
श्लो ।। ग्रहणं चंद्र रव्योश्च ग्रहैर्वाष्ट मसंस्थितैः ।
सूर्यश्चाभ्यर्चनं कार्यं शिवस्याsशुभनाशनं ।। 10
श्लो ।। लक्षहोमो महामोमः कोटिहोमः पुरोदितः ।
गो भू हीरण्य वस्त्राश्व तिलदानं शुभावहं ।। 11
श्लो ।। पायसं दधि क्षीराज्यं देयं नैवेद्य मुत्तमं ।
एक लिंगे प्रकर्तव्य मथो विप्रग्रहेषुच ।। 12
वृषादि रहित मेक लिंगं ।।
श्लो ।। बाहुमात्रे ततः कुंडे जंघामात्रे थवा पुनः ।
होतव्यं सुरराजंद्र नान्येषु विधिरीदृशः ।। 13
श्लो ।। अहंते कधयिष्यामि लक्षहोमस्ययो विधिः ।
चतुर्हस्तं तथा कुंडं विस्तारं सुरसत्तम ।। 14
श्लो ।। षोडशांगुळविस्तार मुच्छ्राये षोडशांगुळं ।
चतुरंगुळ मौन्नत्यं चतुर्हस्तन्य कीर्तितं ।। 15
श्लो ।। द्वादशांगुळविस्तारो दैर्घ्यं द्विगुणमुच्यते ।
योनिः कुंडॆ प्रकर्तव्या नाधिकाशस्यते क्विचित् ।। 16
श्लो ।। यवव्रीहि घृत क्षीर तिलकंगुदळानि च ।
चूतस्य सूरराजेंद्र पालाश समिधस्तथा ।। 17
श्लो ।। दूर्वांकुरं शमी श्रेष्ठं जादुंबर्य श्शुभुवहाः ।
गायत्री त्र्यंबकश्चापि शंभवाये च कीर्तिताः ।। 18
श्लो ।। जातवेद समंत्रेण मंत्रेणेंद्रेणचैवहि ।
सहस्रसीर्णेण नमो हिरण्येने त्यधापिवा ।। 19
श्लो ।। रुद्रमंत्रै स्तधा सौरैः पांचरात्रागमोदितैः ।
होतव्यं शतमष्टौतु सहस्रमध संख्यया ।। 20
श्लो ।। पंकजोत्पल बिल्वादि होमद्रव्यं शुभावहं ।
कंपनं स्वेदनं गात्रे अशृपातार्थ जल्पनं ।। 21
श्लो ।। देवतानां सुराध्यक्ष उत्पाताः क्षयकारकाः ।
लक्षहोमं प्रकुर्वीत कोटिहोम मधापिवा ।। 22
श्लो ।। गोदोह रुद्रभवने महास्नानं शुभावहं ।
अन्यधा मारकोघोरो जायते राजविभ्रमः ।। 23
श्लो ।। ये देवास्ते ग्रहास्सर्वेये ग्रहास्तेतु जंगमाः ।
तेषां संपूजना न्नित्यं दीर्घायुः पुरुषोभवेत् ।। 24
"अत्र लक्षहोमे कोटिहोमेच बृहत्सराशरोक्तो विशेषः"
श्लो ।। युग्माश्छ ऋत्विजः कार्या ब्राह्मणा सै विपश्चितः ।
नियमव्रत संपन्ना स्सहिताः पार्धिवैर्ननु ।। 25
श्लो ।। नित्यं जप पराश्चेव नियोज्यासै सदा द्विजाः ।
कंदमूल फलाहारा दधिक्षीराशिनो पिवा ।। 26
श्लो ।। अग्नि सोमौ च सूर्यं च विष्णुंचैव प्रजापतिं ।
विश्वेदेवा स्महेंद्रं च मित्रं स्विष्चकृतं तधा ।। 27
श्लो ।। दधि मधु घृताक्ताश्च समिधश्चैव याज्ञियाः ।
होमये च्छतसाहस्रं मंत्रैश्चैव यधाक्रमं ।। 28
श्लो ।। चतुर्वंशति गायत्र्या मानस्तोकेतषट् तधा ।
त्रिषट् ग्रहादि मंत्रैश्च चतस्रो विष्णुदैवतैः ।। 29
श्लो ।। कूष्मंडै र्जुहुयत्पंच किरिकेयैःस्तु षोडश ।
हुनेद्दशसहस्राणि जातवेदस इत्यृचा ।। 30
श्लो ।। पंचैवतप सहस्राणि जुहुयादिं द्रदैवतैः ।
कोटिमे चतुर्हस्तं चतुरश्रायतं पुनः ।। 31
श्लो ।। योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलं ।
वेदीच कोटिहोमेश्या द्धस्तानांहि चतुष्ठयं ।। 32
श्लो ।। चतुरश्रा समातद्य त्त्रिबिर्विप्रैः समावृता ।
(वेदचतुष्ठयस्थाने चतुरो द्वारपालानुक्त्वा)
अष्टौतु होमकाः कार्या वेदवेदांगवेदिनः ।। 33
श्लो ।। एवं द्वादशते पूज्याः वस्त्रमाल्यानुलेपनैः ।
(अन्यते प्रग्वत्, संवर्त उवच)
भगवन् महदुत्पात संभवे भूप्रकंपने ।। 34
श्लो ।। निर्घातपांसुवर्षे च ग्रहभंगे तथैवच ।
जन्मनक्षत्र पीडासु अनावृष्टिभयेषुच ।। 35
श्लो ।। क्रूरासु ग्रहपीडासु दुर्भिक्षे देशविप्लवे ।
व्यादीनां संभवे जाते शरीरे चातिपीडिते ।। 37
श्लो ।। प्रब्रूहिमॆद्विजश्रेष्ठ तथारोग्यप्रदं नृणां ।
ननत्कुमार उवाच -
शृणुराज स्प्रवक्ष्यामि शांतिकर्म तथो त्तमं ।। 38
श्लो ।। कोटिहोमाख्यमतुलं सर्वकाम फलप्रदं ।
ब्रह्महत्यादि पापानि एन नश्यंति तत्क्षणात् ।। 39
श्लो ।। उत्पाताः प्रशमंयांति महत्संपद्यते सुखं ।
विधानं तस्य वक्ष्यमि शृणुष्वैकमवाभव ।। 40
श्लो ।। देवागारे च भवने तीर्धेवा शिवसन्निधौ ।
पर्वतेवा प्रकुर्वीत य इच्चेत् क्षेममात्मः ।। 41
श्लो ।। शुभनक्षत्र योगेच वारे सर्वगुणान्विते ।
यजमानस्यानुकूले कोटिहोमं समारभेत् । 42
श्लो ।। पूजमित्वा प्रयत्नेन ब्राह्मणं वेद पारगं ।
वस्त्रैश्च भूषणैश्चैव गंध माल्यानु लेपनैः ।। 43
श्लो ।। प्रणम्य विधि वत्तस्मै आत्मानं विनि वेदयेत् ।
त्वंनोगतिः पितामाता त्वंगतस्त्वं परायणं ।। 44
श्लो ।। त्वत्प्रसादेन विप्रर्षे सर्वम्येस्या न्मनोगते ।
आपद्वि मेक्षणार्धम्मे कुरुयज्ञ मनुत्तमं ।। 45
श्लो ।। कोटि होमाख्य मतुलं शांत्यर्धं सर्वकामदं ।
पूरोहित स्तथा प्राज्ञः शुक्लांबरधर श्शुचिः ।। 46
श्लो ।। ब्राह्मणै स्सहितः पुण्यै स्संयुतै स्ससमाहितैः ।
भूमिभागे समेशुद्धे प्रागुद क्प्रवणे तथै ।। 47
श्लो ।। पुण्याहं वाचयेत्पुण्य कृतोविप्रा न्सुपूजयेत् ।
ततस्तु सहितो विप्रैस्सूत्रये न्मंटपं शुभं ।। 49
श्लो ।। मध्येतु मंटपस्यापि कुंडं कुर्याद्वि चक्षणः ।
चतुर्हस्त प्रमाणेन आयामेन तधैवच ।। 50
श्लो ।। मेखला त्रितयं तस्य द्वादशांगुळ विस्तृतं ।
तत्प्रमाणां तधा योनिं कुर्वीत सुसमाहितैः ।। 51
श्लो ।। कुंडस्य पूर्वभागेतु वेदिं कुर्याद्विच क्षणः ।।
चतुर्हस्तां समांचैव हस्त मात्रोच्छ्रितां नृप । 52
श्लो ।। स्थापनं तत्र देवानां कुर्याद्यत्नेन बुद्धिमान् ।
उपलिप्यततो भूमिं मंटपस्यस मंततः ।। 53
श्लो ।। विन्यनेत्कलशां स्तत्र जलपूर्णां श्चतुर्दिशं ।
अश्वत्थ प्लक्ष चूताद्यैः पल्लि वैरुप शोभितान् ।। 54
श्लो ।। वितान मुपरिष्टाच्छ मंटपस्य प्रकल्पयेत् ।
स्थायोद्दिक्षु सर्वासु तोरणानि विचक्षणः ।। 55
श्लो ।। एवं संभृत संभारः पुरोधास्सु समाहितः ।
पुण्याह जयघोषेण होमकर्म समारभेत् ।। 56
श्लो ।। स्थापयित्या सुरान्वेद्यां वक्ष्यमाणा नरिदम ।
ब्रह्मणं पूर्वाभागेतु मध्ये देवं जनार्दनं ।। 57
श्लो ।। पश्चिमेच तथा रुद्रं वसुनुत्तर तस्तथा ।
वायौ सौम्यं तधैशाने लोकपालान् क्रमेणतु ।। 58
श्लो ।। एवं संस्थाप्य विबुधान् यधाप्थानं नृपोत्तम ।
पूजये द्विदिवद्वस्त्र गंधमाल्याम लेपनैः ।। 59
श्लो ।। वेदोक्त मंत्रै स्तल्लिगैः पुराणोक्तैः पृधक् पृधक् ।
आदित्य वसवोरुद्रा मरुतो लोकपा स्तथा ।। 60
श्लो ।। ब्रह्म जनाप्गनश्चैव शुलपाणि र्भगोर्यमा ।
एवं सन्निहितान् देवान् संपूज्य यत्नत स्सुधीः ।। 61
श्लो ।। नैवेद्यै र्विविधै र्भक्षैः फलै र्दीपै स्तधै वच ।
ततस्तुतै र्द्विजै स्सार्धं कुजस्य विधिपूर्वकं ।। 62
श्लो ।। कुर्यात्संस्कार करणं यधोक्तं वेद चिंतकैः ।
ततः प्रज्वालये द्वह्निं नाम्नाख्यातं घनार्चिषं ।। 63
श्लो ।। नियोजये द्विजां स्तत्र शत संख्या नृषो त्तम ।
अलाबेतु बहूनां च यथा लाभं नियोजयेत् ।। 64
श्लो ।। विद्या वृद्धाने वयो वृद्धान् गृहस्था स्संयतेंद्रिया ।। 65
श्लो ।। मुखानित्यस्य चत्वारि सप्तजिह्वाश्च पार्धिप ।
एवं जिर्वा मथैकंतु तत्स्मृतं सार्वकामुकं ।। 66
श्लो ।। ऋग्भिः पूर्वमुखे होमो यजुर्भिश्चोत्तरेमुखे ।
सामभिः पश्चिमेकार्योsधर्वभि र्दक्षिणावुखे ।। 67
ऋग्भिः = ऋग्वेदिभिः : ---
श्लो ।। होमोव्याहृतिभिश्चैव सर्वस्तत्र विधीयते ।
प्रणवाद्यैश्चतल्लिंगै स्वाहाकारांतयोजितैः ।। 68
श्लो ।। जुहुयात्सर्वदेवानां वेद्यांयेचोपकल्पिताः ।
एवं प्रगस्पयोद्यज्ञं कोटिहोमाख्य मुत्तमं ।। 69
श्लो ।। तिलाः कृष्णा घृताभ्यक्ताः किंचिद्व्रीहि समन्विताः ।
होतव्याः कोटिहोमेतु समिधस्तु पलाशजाः ।। 70
श्लो ।। पूर्णेहोम समस्रेतु दद्यात्पूर्णाहुतिं शुभां ।
पूर्णहुति स्समाख्याता कोटिहोमे सराधिप ।। 71
श्लो ।। सहस्राणि नृपश्रेष्ठ दश शास्त्र विशारदैः । 72
दक्षिण च सहस्रं धेनवः सहस्रं शंख इत्यादि सर्वेषा मधवा गावः इति पक्षे नवशतगावः = सवशतं सुवर्णानि. अध कोटिहोमस्य शतमुखदशमुख = द्विमुखै कमुख = भेदा उच्यंते = संवरण उवाच ----
श्लो ।। बहुत्वात्कर्मणोब्रह्मन् केटिहामः सुदुष्करः ।
नियमा ब्रह्मचर्याद्या दुष्करा इति मेमतिः ।। 73
श्लो ।। निरोधो ब्रह्मणानांच भूशय्यादिश्च दुष्करः ।
कार्ये गुरुलघीयस्त्वं पर्वकालाद्यपेक्षया ।। 74
श्लो ।। केटिहोमस्य संक्षेपं वदमॆ ब्रह्मसंभना ।
सनत्कुमार उवाच ---
शताननो दशमुखो द्विमुखैक मुखास्तथा ।। 75
श्लो ।। चतुर्विधो महाराजा कोटिहोमे विधीयते ।
कार्यस्य गरुतांज्ञात्वा नैवेद्या मध पर्वणः ।। 76
श्लो ।। यधा संज्ञेपतः कार्यः कोटिहोमस्तधाशृणु ।
कृत्वा कुंडशतं दिव्यं यधोक्तम्मनसम्मिंतं ।। 77
श्लो ।। एकै कस्मिन् तधा कुंडे दशविप्रान्नियोजयेत् ।
सद्यः पक्षेतु विप्राणां सहस्रं परिकीर्तितं ।। 78
श्लो ।। यधा कुंड बहुत्वेतु राडसूये यॆधाक्रतौ ।
स्यादेवाग्नि बहुत्वतु सचयज्ञे विभिज्यते ।। 80
श्लो ।। तधा कुंज शतेप्यत्र घृतार्छिषि नियोजिते ।
एक एवभवेद्यज्ञः कोटिहोमो नसंशयः ।। 81
श्लो ।। एवं यःकुरुते क्षिप्रं व्यानकैः कार्यगौरवात् ।
शतानन स्सविज्ञेयः केटिहोमो नसंशयः ।। 82
अत्र कुंडानां हस्त मात्रता. शीघ्रदाहि घृतादिपरा. तिल यवादौतु लक्षे शतांशे.
श्लो ।। लक्षार्धेत्रि करं कुडं लक्ष होमेचतुः करं ।
अयुतेत्वथ होतव्ये कुंडंस्याद्थस्त मात्रकं ।। 83
श्लो ।। द्विगुणं लक्ष होमेच केटिहोमे चतुर्गणम् ।
इति मंत्रांतरोक्तं ज्ञेयं ।। 84
इति शत मुखः ----
श्लो ।। स्वल्पैर होभिः कार्यस्स्या द्वर्षाकालादके यदा ।
तदा दशमुखः कार्यः कोटिहोमो महायते ।। 85
श्लो ।। विप्राणं द्वेशते तत्र विभज्य विनियो जयेत् ।
मंटपस्तु पंचा शत्करः पंच विंशति करोवा ।। 86
इति दशमुखः -----
श्लो ।। यत्रकुंड द्वयं कृत्वा विभज्यच विबावसुं ।
होमं कुर्युर्द्विजा भूयः संस्कृत्य विधि पूर्वाकं ।। 87
श्लो ।। शतं तत्र नियोज्याच विप्राणां प्रविभज्यवै ।
मासे थवार्ध मासेवा कार्या कालेह्युपस्थिते ।। 88
श्लो ।। तदातु द्विमुखः कार्यः कोटिहोमो विचक्षणैः ।
यदातु स्वेच्छया यज्ञं यजमान स्समापयेत् ।। 89
श्लो ।। कालेन बहुना राजन् स्तदाचैक मुखोभवेत् ।
एककुंड स्थितोवह्नि रेकचित्तै स्समाहितैः ।। 90
श्लो ।। नसंख्या नियमश्चात्र ब्राह्मणानां नरोत्तम ।
सकाल नियमश्चैव स्वेच्छया यज्ञ उच्यते ।। 91
श्लो ।। आवृत्ाय कर्तुकामस्य चातुर्मास्यादि कर्मवत् ।
सदा प्रसक्तः कर्तव्यो यज्ञोयं सार्व कालिकः ।। 92
श्लो ।। योय मेक मुखोराज न्कालेन बहुना भवेत् ।
यतो विहिततमायुश्च वित्तं चैवा स्थिहं सदा ।। 93
श्लो ।। आत स्संक्षेपत कार्यः धर्म कार्यां प्रसस्यते ।
तत स्समाप्ते यज्ञेतु कारयेत्सु समाहितः ।। 94
श्लो ।। शंखतूर्या निनादेन ब्रह्मघोष रवेणच ।
ततस्तु दासयोद्विप्रा नृत्विज श्श्रनांच शतं तधा ।। 95
श्लो ।। निष्कैक कनकैश्चै कुंडलै र्विविधैर् नृप ।
गो शतंचैव दातव्यं अश्वानांच शतं तधा ।। 96
श्लो ।। सहस्रंच सुवर्णानां सर्वेषा मपि दापयेत् ।
ग्रामैर्गज रथै रश्वैः पूजयेच्छ पुरोहितं ।। 97
श्लो ।। ततश्चा वबृथेस्नायात्तैर्घटैः पूर्व कल्पितैः ।
लक्ष होमोक्त मंत्रेण सदा विजय कारणौ ।। 98
श्लो ।। एवं समापयोद्यस्तु कोटिहोम मखं शुभं ।
तस्यारोग्यं प्रियाः पुत्रा आयुर्वुर्धि स्तधैवच ।। 99
श्लो ।। अनावृष्टि भयंचैव उत्पातभयमेवच ।
दुर्भिकं ग्रहपीडा च प्रशमंयांति भूतले ।। 100
श्लो ।। एतत्पुण्यं पापहरं सर्वकर्म फलप्रदं ।
सनकाख्येन मुनिना पार्धिवाय निवेदिते ।। 101
श्लो ।। सर्वोपसर्गशमनं भवने भवाय ।
येकारयंति मनुजा नृप कोटिहोमं ।
भोगानवास्या मनसोभिमतान् प्रकामां ।
तेयांति शक्रसदनं शिचि शुद्धसत्वाः ।। 102
इति भिविष्योत्तरे कोटि होमविधि स्संपूर्णं.
अ थ प्र स व शां तिः
तत्र बहुप्रसवेषु तच्छांतेरुक्तत्वाद्गोमुख प्रसव उच्यते ।।
गर्गः :---
श्लो ।। प्रणिपत्य रविं वक्ष्ये प्रायश्चित्त मनुस्मरन् ।
सर्वादिष्ट विनाशाय यदुक्तं ज्योतिरर्णवे ।। 1
श्लो ।। पित्रारिष्टॆ सुतारिष्टॆ मात्ररिष्टॆ तधैवच ।
यन्नक्षत्रोत्पत्तौ यद्यरिष्टं तत्रेदं कुर्यादित्यर्धः ।।
प्रायश्चित्तं तधाकुर्या त्तत्तद्दोषस्य शांतये ।। 2
श्लो ।। पूषाश्विन्यो र्गुरौ सार्प मुखाचिचित्रेंद्रमूलभे ।
एष्व प्पृक्षेषु जातस्य कुर्याद्गो जननं तथा ।। 3
तथा शब्दस्यमुच्चयार्थः ।। तेन पित्ररिष्ठा दौतन्नक्षत्रादि शांतिं कृत्वा ।। एतच्चकुर्यादित्यर्थः ।। पित्ररिष्ठे त्यनेनैव मूलादापिप्राः । पुनर्मालादि ग्रहणं । यत्र मूलादे श्चतुर्थपादादौ तदभावस्तत्रप्राप्त्यर्धं ।।
श्लो ।। जन्मर्क्षेवा त्रिजन्मर्क्षे शुभवारे शुभेदिने ।
कृत्वाभ्यंगादिकं सर्वं गुहालंकार पूर्वकं ।। 4
श्लो ।। गोमयेनोपलिप्याथ गुहस्येशानभागके ।
पंकजं कर्णंकायुक्तं रजोभिः स्वेतवर्णकैः ।। 5
श्लो ।। व्रीहीस्तत्रविनिक्षिप्य यधानित्तासारतः ।
नवशूर्पं च तन्मध्ये रक्तवस्त्रं प्रसारयेत् ।। 6
श्लो ।। स्थापयित्वा शिशुं तत्र पुनस्सूत्रेण वेष्टयेत् ।
प्राङ्मखं तमवाक्पादं तिल दर्भ गतं शिशुं ।। 7
श्लो ।। गोमुखं दर्शयित्वातु पुनर्जातंतु गोमुखात् ।
विष्णुर्यो नीतिमा क्तेन गव्येन स्सापयेच्छिशुं ।। 8़
श्लो ।। गवामंगेष्विति मंत्रेण गवामंगानि संस्पृशेत् ।
विष्णो श्रेष्ठेति मंत्रेण गोप्रसूतंतु बालकं ।। 9
श्लो ।। आचार्यस्तु समादाय पश्शन्मात्रे प्रदपयोत् ।
पिता वस्त्रं व्यपोहाध पुत्रस्य मुख मीक्षयेत् ।। 10
श्लो ।। पित्रे तधा प्रदातव्यं ततोमात्रे प्रदापयेत् ।
पिता वस्त्रं व्यपोहाध पुत्रस्य मुख मीक्षयेत् ।। 11
श्लो ।। गो मूत्रं गो मयं क्षीरं दधि सर्पिश्च संयुतं ।
आपोहिष्ठादिभि र्मंत्रै रभिषिचे त्तत श्शिशुं ।। 12
श्लो ।। मूर्ध्नि चाघ्रायुतं पुत्रं तन्मंत्रेण तदा पिता ।
अंगादंगा त्संभवसि हृदयादधि जायसे ।। 13
श्लो ।। आत्मावै पुत्रनामासि सजीव शरद श्शतं ।
मूर्ध नित्रि रवघ्रायं तं शिशुं स्थापये त्ततः ।। 14
श्लो ।। पुण्यहं वाचमेत्पश्चा द्ब्राह्मणै र्वेदपारगैः ।
दरिद्रा याध विप्राय तांगा मब्यर्च्य दापयेत् ।। 15
श्लो ।। गो वस्त्र स्वर्ण धान्यानि दद्या दर्कादितः क्रमात् ।
यधशक्ति धनं दद्या द्ब्राह्मणेब्य स्तथापिता ।। 16
श्लो ।। ततो होमं प्रकुर्वीत स्वशाबो क्तेन मार्गतः ।
उल्लेखनादिकं कृत्वा आद्यभागांत माचरेत् ।। 17
श्लो ।। होमस्येशानदिग्भागे धान्योपरि शुभं घटं ।
पंचगव्यं घटेस्थाप्य तिलां स्तत्र विनिक्षिपेत् ।। 18
"कषा योनिर्यासं ।।"
श्लो ।। वस्त्रयुग्मेच संछाद्य गंधाद्यै रर्चयेत्ततः ।
विष्णुं वरुण मभ्यर्च्य प्रतिमायं विधानतः ।। 19
श्लो ।। यत इंद्रादि भिर्मंत्रैः कुंभं स्पृष्ट्वाभि मंत्रयेत् ।
"यत इंद्रेति षडृचः सूक्तशेषाः।।"
दधि मध्वाज्य मुक्तेन होमं कूर्यात्प्रयत्नतः ।। 20
"युक्तेनेति भावोक्तः वेगेनेत्यर्धः ।।"
श्लो ।। आपोहिष्टेति तिसृभि रप्सुमेसोम इत्यथ ।
तद्विष्णोः परमंपद मक्षिभ्या मितिसूक्ततः ।। 21
श्लो ।। ऋग्भिराभिः प्रत्यृचंच अष्टाविंशति संख्यया ।
अशक्तावष्टसंख्यंवा दधि मद्वाज्य संयुतं ।। 22
श्लो ।। आधित्यादि ग्रहाणां च होमं किर्यात्समंत्रकं ।
"ग्रहाणां च दध्ययुत होमं कुर्यादित्येके ।।"
अन्यधा पुनर्दध्यादि ग्रहणस्य वैय्यर्ध्यावतैः ।। 23
इति प्रसव शांतिः ।।
अ ध गो प्र स व प्र यो गः
कर्त अस्य बालकस्य अमुकनक्षत्रोत्पत्ति सूचित अरिष्ट शांत्र्धं गोमुख प्रसवं करिष्ये ।। इति संकल्प्यं ।।
आदौ गणेशं संपूज्य आचार्यं वृणुयात् । आचार्यः श्वेत चुर्ण पद्मं कृत्व व्रीहिषु शूर्पं तत्र रक्तवस्त्रं तत्र तिला न्विकीर्य शूर्पेप्राज्म्खं शिशुं निधाय सुत्रेण शूर्पं वेषटिमित्या शिशुसमीपे गोमुख मानीय प्रसवं विभाव्य विष्णुर्योनिमिति सूक्तेन पंचगव्येन शिशुं स्सापयित्वा गवामंगेष्विति मंत्रेण गांस्पृशेत् । मंत्रस्तु ।। गवामंगेषु तिष्टंति भुवनानि चतुर्दश ।। यस्मात्तस्माच्छिवंयेस्या दतश्शांतिं प्रयच्छमे ।। ततो पिता पुनः मात्रेदत्वा ।। वस्त्र मपनीयमुख मीक्षते ।। ततः आचार्यः पंचगव्येन शिशुं अपोहिष्टेति तिसृभिः अभिषिंचेत् ।। ततः पिता अंगादंगादिति शिशुं मूर्द्नि त्रिरवघ्राय ।। अस्य गोमुखस्य प्रसवस्य पुण्याहं भवंतो बृवंतुः एवं वृद्धिश्रीः कल्याणमिति क्षिस्त्रिर्याच यित्वा ।। आचार्यायतांगां दद्यात् ।। ग्रहप्रीत्यर्धं गो वस्त्र स्वर्ण धान्यानि यधाशक्ति भूयसीं दद्यात् ।। ततो आचार्यः अग्निं नवग्रहांश्च प्रतष्ठाप्य ।। अन्वादानं चक्षुषी आज्येनेत्यंतमुक्त्वा ।। तत्र प्रधानं ।। आपश्चतुर्वारं ।। दधि मध्वाज्येन विष्णुं सकृत् ।। यक्ष्माणं अक्षीभ्य मितिसूक्तेन प्रत्यृच मष्टविंशति संख्ययावा ।। ग्रहानैकैकयाहुत्वा ।। शेषेण स्विष्टकृत मित्याज्यभागांते ।। ईशान्यं कुंभं संस्थाप्य । तत्र पंचगव्य तिलान् क्षिरदृमकषायांश्च क्षिप्त्वा ।। वस्त्रयुग्मे नावेष्ट्य ।। पूर्ण पात्रे तद्विष्णो रितिविष्णुं ।। तत्वायामीति वरुणंचावाह्य ।। संपूज्य कुंभंस्पृष्ट्वा ।। यत इंद्रेतिषण्णां कण्वपुत्र प्रगाथः ।। इंद्रो । बार्हतं प्रगाथच्छंदः ।। एतान् जप्त्वा यजमानेन त्यागेकृते मालितैर्दधि मद्वाज्यैः प्रत्यृचमष्टाविंशति संख्ययावाष्ट संख्ययावा जुहुयात् ।। आपोहिष्ठेत् ।। तद्विष्णो र्मेधातिथि र्विष्णुर्गायत्री ।। अक्षीभ्या मितिषण्णां विवृहयक्ष्महनुष्ठुन् ।। एतैः प्रतिमंत्रैः अष्टाविंशति रष्टौवाहुत्वा ग्रहमंत्रैश्चैकैकाहूतिं दधि मध्वाज्येनहुत्वा - स्विष्टकृदादि शेषं समाप्य ब्रह्मणान् भोजयेत् ।।
इति गोमुख प्रसवप्रयोगः ।।
अथ तथि नक्षत्र लग्न योगकरणादि गंडांतजानां क्रमेण शातयः उत्यते ।। तत्र नक्षत्र गंडांतजात शांति रारभ्यते ।। सत्रि विधः ।। तिथि नक्षत्र लग्न बेधात् ।। गंडांतो नाम संथि घटिकाः ।। सचोक्तो ज्योतिर्निबंधे ।। पूर्णानंदाख्ययोस्तिध्योः संधिर्नाडीद्वयं तधा ।। गंडांतं मृत्युदं जन्मयात्रो द्वाहव्रतादषु ।। कुळीर सिह्मयोः
कीट चापयो र्मीन मोषयोः ।ष गंडांत मंतराळंस्यात् घटिकार्दं मृतिप्रदं ।। सार्वेंद्र पौष्मभेष्वंत्य षोडशां शाभ संभवः ।। तदग्रभोषु च तथापादं गंडांत संज्ञितं ।। रत्ममाला यांतु नक्षत्रेषु मतान्तरमुक्तं ।। पौष्माश्विन्योः सार्पपित्र्यर्क्ष योश्चयच्च ज्योष्टामूलयो रंतराळं । तद्गंडांतंस्या चतुर्नाडि काहियात्रा जन्मो द्वाहकालेष्वनिष्टं ।। अत्र दोषतारतम्यं ज्ञोयं रत्न संग्रहे ।। सर्वेषां गंडजातानां परित्यागो विधीयते । सर्जयेददर्शनं यावद्वर्षं षाण्मासिकं तथा ।। तिध्यर्क्षगंडे पितृमातृ नाशो लग्नेतु संदौ तनयस्य नाश- । सर्वषुनो जीवतिहंति बंधून् जीवन्सुनस्स्या द्बहुवारणाश्वः ।। प्रयोग पारजाते गर्गब्रह्मौ । अश्विनी मख मूलादौ त्रिषण्डवचनाडिकाः । रेवती सार्पशाक्रांते मानर्त्वय संधिनः ।। अश्विनी मख मूलादौ नाडिकाद्वितयं तथा । रेवती सार्पशाक्रांते नाडिकाद्वयमेवहि ।। अश्वि मख मूलानां पूर्वार्धे पितृपीढनं । पू,ाहिशक्रपश्चार्दे जननीं बाध्यते शिशुं ।। पुतृघ्नस्तु दिवाजातो रात्रिजातस्तु मातृहा ।। दिनस्थ गंडांतजात इत्यर्थः ।। आत्मघ्न स्संध्ययोर्जातो नास्तिगंडो निरामयः । सर्वेषां गंडजातानां परित्यागो विधीयते ।। वर्जद्दर्शनं श्रावं तच्चषाण्मा सिकं भवेत् । तस्य शांतिं प्रवक्ष्यामि सोममंत्रेण भक्तिमान् ।। कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिर्नवा । अष्णाभिश्च चतुर्बिर्वा द्वाख्यांवा शोभनं तथा ।। तन्मध्ये पायसं शंखे नवनीतेनपूरिते । राजतं चंद्रममल मर्चयोत्सित पुष्पकैः ।। धवळैः क्षौमवासान्तु शुक्ल माल्यांबरावृतः । सोमोह मितिसंचित्य पुजां कुर्यादतं द्रितः ।। जपे त्साहस्रकं मंत्रं श्रद्धयाच समाहितः । दद्याद्वै दक्षिणांचापि गंडदोष प्रशांतये ।। शुक्लां वागीश्वरींचैव ताम्रपात्र समन्वितां । गंडदोषोप शांत्यर्धं दद्याद्वेदविदे शुचिः ।। ज्योतिर्विबंदे एकदंतेधिक मप्युक्तं दिवाजातं मातृयुक्तंतु रात्रिजं । स्नापये त्पितृमातृभ्यां संध्ययोरुभयोपपि ।। कांस्यपात्रे घृतं दद्या द्गंडदोषोपशांतयो । सक्षीरं मौक्तिकं शंखं श्वेतवस्त्रयुगं शुभं ।। यजुर्वेद विदे दद्यात् द्गंडदोषापनुत्तये । दद्याद्देमं हिरण्यं च ग्रहांश्चापि प्रपूज्ययोत् ।। आयुर्वृद्धिकरं जप्त्वा कुर्याद्ब्राह्मण तर्पणं । अत्र गोमुखप्रसवे नवग्रह शांतिश्च कार्यः ।। अन्यत् स्पष्टमिति प्रयोगेनोच्यते ।। इति गर्गोक्ते नक्षत्रादि गंडांतजात शांतिः ।।
अथ तिथि लग्न गंडांतजात शांतिः ।। उत्तर गार्ग्यः ।। तिथि गंडा न्ततजातस्य सुतस्यतुदिने तिथौ । शांतिः शुभेह्निवा कार्य । तावत्पुत्रंनलोकयेत् ।। तिथि गंडेत्वनड्वाहं नक्षत्रे धेनुमेवच । कांचनं लग्नगंदेतु गंडदोषो विनश्यति ।। आद्यभागः पितुर्गंडं त्रयाणा मभिषेचनं ।। मातापितृ शिशूना मित्यर्थः ।। उत्तरातिष्य (पेडि 133लो)चित्रासु पूर्वाषोढोद्भवस्यच । कुर्याद्वस्त्रद्वयान्वितं ।। वरुण स्यार्चनं कार्यं स्वस्तिवाचन पूर्वकं । कुंभे वरुणनक्षत्राधिपतिं च पूजयोदित्यर्धः ।। शतौषधानि रत्नानि मृत्त्वक्पल्लव संयुतान् । पूजांते समुदन्नाज्यै र्होमं तिलयवैस्तथा ।। ततः पूर्णहुतिं हुत्वा वेदाध्यायि कुटुंबिने । उत्तरा प्रधमेपादे तिलप्रातं तथैवच ।। तिष्येतुगां
सवत्सां च सुशीलांच पयस्विनीं । अजांचित्रासु वैदद्यात् पूर्वाषाढेतु कांचनं ।। यवांस्च व्रीहि माषांश्च तिलमुद्गान् प्रदापयेत् ।। तथा वत्तामुसारेण कुर्या द्बाह्मणभोजनं ।। पितुरायुष्य वृद्यर्धं शांतिरत्र विधीयते । एवं यः करुते सम्यके शांतिकर्म समाहितः ।। आयुरारोग्यमैश्वर्यं संप्राप्नोतिदिनेदिने ।।
इति तिथिलग्न गंडांतजात शांति ।।
अथ दिनक्षयादि शांतिः । उत्तर गार्ग्यः ।। अथातः संप्रवक्ष्यामि जन्मकाले विशेषतः । गंडांतानां च नामानि महादोषकराणिच ।। दिनक्षयो व्यतीपाते व्याघाते विष्टिवैधृतौ । शूले गंडेति गंडेच परिघे यमकंटके ।। कालगंडे मृत्युयोगे दग्धयोगेसुदारणे । तस्मिन् गंडदिनेप्राप्ते प्रनूतिर्यदिजायते ।। अतिदोषकरीप्रोक्त तत्र पापयुतेसति । दिनक्षयादौ गंडांतशब्दोयं पारिबाषिकः ।। यजनं देवतानां च ग्रहामांचैव पूजनं । दीपं शिवालयेभक्त्या घृतेन परिदापयेत् ।। अभिषेकं शंकराय अश्वद्धस्य प्रदक्षिणं । आयुर्वृद्धिकरं जाप्यं सर्वारिष्ट विनाशनं ।। मृत्युंजय मंत्रस्तु आशुश्शिशान इत्यादि यप इत्यर्थः । गुरुदै वत विप्राणां पूजनं गोत्र वर्धनं । सर्वारिष्टहरार्धाय ग्रहयज्ञं नमाचरेत् ।। शिवाय विधिवद्धक्या दीपदानं करुतियः । अखंडं गोघृतेनै वसवै मृत्युं जयेन्नरः । विष्णुमूर्तिं महापूण्य मश्वत्थं श्रीकरंसदा । प्रदक्षिणं सरोभक्या यःकरोति नरोत्तमः ।। अकालमृत्युं निर्जत्य दीर्घायुर्जायतेध्रुवं ।। गाणापत्यं च पुंसूक्तं सौरं मृत्युजयं शुभं शांतिं जप्यं रुद्रजाप्यं कृत्वा मृत्युंजयी भवेत् ।। मुलेवा सार्सगंडेवा कूर्यादेतानियत्नतः । आयुर्वृद्धिकरायाथ गंडदोष प्रशांतये ।। एषमूलादि शांत्या समुच्चयः ।।
इति सर्वगंड शांतिः ।।
अथ विषघटिका शांतिः ।। तदाह ज्योतिनिर्बंधे मृद्धकार्ग्यः ।। तिधीषु नागाद्रिगिरीशवारिधिर्गजाद्रि दिकावकदिक्च भास्करः ।। 15 - 5 - 8 - 7 - 7 - 11 - 4 - 8 - 7 - 10 - 3 - 10 - 12 - 7 - 8 - मुवीभ संख्याः स्रध मादितः क्रमात्परं निष्याख्यं घटिका चतुष्टयं । विंशच्चतुर्द्वा दशदिक्चशैवबाणास्च तत्वानि यधाक्रमेण ।। 20 - 4 - 12 - 10 - 7 - 5 - 25 - सूर्यदिवारेषु भवंत्यसंतरं नाड्यो विषाख्या घटिका चतुष्टयं ।। नक्षत्रेष्वाह नारदः ।। खमार्गणाः - 50 - वेदपक्षाः - 24 - खरामा - 30 - व्योम सागराः - 40 - वार्धिचंद्रा - 14 - रूपदस्रा - 21 - खरामा - 30 - व्योमाबहवः ।। 20 ।। द्विरामा - 32 - खाग्नयः - 30 - शूस्यदस्रा - 20 - कुंजरभुमयः - 18 - रूपपक्षाः - 21 - व्योमदस्रा - 20 - वेदचंद्राः - 14 - चतुर्दशाः - 14 - शून्यचंद्राः - 20 - शून्यचंद्राः - 10 - वेदचंद्राः 14 - ष़डक्षाः 6 - वेदबाहवः - 14 ।। शुन्यदस्रा - 10 शून्यचंद्र3 - 10 - पूर्णचंद्रा - 10 - गजेंदवः - 18 - तर्कचंद्रा - 16 - वेदपक्षाः - 14 - खरामाश्चा - 30 - अश्विभात्क्रमात् ।। आभ्यः
परास्स्युर्घटिकाश्च तस्रोविषसंज्ञिताः ।। तत्र जातस्य शांतिमाह वृद्ध गर्गः ।। विषनाडुषु संजाते सर्वारिष्ट भयप्रदं । पितरं मातुलात्मानौ घूतयोन्नात्रसंशयः ।। मातुश्च विषशस्त्रास्त्रैः क्रूरे लग्नेंशगेपिवा । तद्दोषपरिहाराय शांतिकर्म समाचरेत् ।। रुद्रो यमोग्नि मृत्युश्च देवताः परकीर्तिताः । सुवर्णेन यधाशक्या तत्तल्लक्षणलक्षिताः ।। प्रतमाः कारयित्वेव माढक व्रीहिकस्थले । स्थंडिलं परिकल्प्याथ कुंभमौषधि संयुतं ।। जलैः संपूर्यसंस्थाप्य मृगादिप्रक्षिपेतत्ततः । वस्त्रद्वयेन संवेष्टय पंचरत्नानि निक्षिपेत् ।। कुंभोपरिसंस्थाप्य च तस्रः प्रतिमास्तथा । संस्थाप्य तत्र मंत्रैश्च क्रमादर्चेद्दुनेत्तथा ।। समिच्चरु घृतद्रव्यैः प्रत्येकं च यथाक्रमं । ऋत्विग्भिश्च सहचार्योहु नेदष्टसहस्रकं ।। अष्टोत्तरशतं नाथ अष्टविंशतिमेनवा । तत स्तिलैर्हुनेद्देवान् तत्तन्मंत्रैश्च कृत्यवित् ।। ततोभिषे च योद्दानं मंत्रैः पौराणिकैः क्रमात् । प्रीयातां भगवानीशः पिनाकी सर्वतोमुखः ।। तममुर्तिप्रदानेन मम पापं विनाशय । दंष्ट्राकराळवदनो नीलांजन समूकृतिः । रक्ताक्षोसिगदापाणि र्मृत्योर्मां पापि सर्वदा ।। दानमेवं विधैर्मंत्रॆ र्यथाविधि समाहितः । गो भू हिरण्य वस्त्रॆश्च आचार्यं पूजयोत्सुधीः ।। एवं कुर्याद्विधा नेन विषदोषः प्रशाम्यति ।। इति घटिकाशांतिः ।।
अथ तिथि प्रसवशांतिः ।। तत्र कृष्ण चतुर्दशी जात शांतिः ।। प्रयोग पारिजाते गर्गः ।। कृष्णपक्षे चतुर्दश्यां प्रसूतेषड्विधं फलं । चतुर्दशीं च षड्भागं कुर्यादादौ शुभं स्मृतं ।। द्वितीयः पितरं हंति तृती यो मातरं तथा । चतुर्धो मातुलं हंति पंचमे वंश नाशनं ।। षष्ठेच धनहानि स्स्यादात्मनो वंशनाशनं । यस्मात्सर्व प्रयत्नेन शांतिं कुर्याद्वि धानतः ।। आचार्य मृत्विजो वृत्वा स्वस्ति वाचन पूर्वकं । रुद्रादि देवतां स्तस्मात्कर्षमात्र सुवर्णतः ।। तदर्दाधेनवा कुर्याद्वित्त शाठ्य कुर्यादि धानतः ।। आचार्य मृत्विजो वृत्वा स्वस्ति वाचन पूर्वकं । रुद्रादि देवतां स्तस्मात्कर्षमात्र सुवर्णतः ।। तदर्दाधेनवा कुर्याद्वि धनातः ।। आचार्य मृत्विजो वृत्वा स्वस्ति वाचन पूर्वकं । रुद्रादि देवतां स्तस्मात्कर्षमात्र सुवर्णतः ।। तदर्दाधेनवा कुर्याद्वित्त शाठ्य विवर्जितः । प्रतिमां कारये च्चंभो । सर्वलक्षण संयुतां ।। वृषभेच समासीनं वरदाभय पाणिनं । शुद्ध स्फतिक संकाशं श्वेतमाल्यांबरान्नितं । त्रियंबकाख्य मंत्रेण पूजां कुर्याद्वि धानतः । स्थापये च्चतुरः कुंभान् विदिक्षु च यधाविधि । आग्नेयी मारभ्य विदिक्ष्वित्यर्थः ।। आग्नेयं कुंभ मारभ्ये त्यग्रे दर्शनात् ।। पुण्यतीर्ध जलोपेतान् धान्यस्मो परिस्यसेत् ।। तन्मध्येस्थापयेत्कुंभं शतच्छिद्र समन्वितं । पंच मृत्पंच रत्नानि पंचत्व क्पंच पल्लवान् ।। पंच धान्यं सुवर्णंच तत्तस्मंत्रै र्विनिक्षि पेत् ।। शतौषधानि निक्षिप्य श्वेत वस्त्रश्च वेष्टयेत् ।। सुरभीणिच पुष्पाणि श्वेतानि परिवेषयेत् । सर्वे समुद्रा स्सरित स्तीर्धानि जलदानदाः ।। आयांतु यजमानस्य दुरितक्षय कारकाः । आवाह्य वारुणै र्मंत्त्रॆ रनेनच विधानतः ।। इमंम्मे वरुणे त्यनया तत्वाया मीतिवातथा । त्वन्नो अग्ने इत्यनया
सत्वन्न इति मंत्रतः ।। आनोभद्राख्य सूक्तंच भद्रा अग्नेश्च सूक्तकं । जप्त्यातु पुरुषसूक्तं कद्रुद्रंतु क्रमाज्जपेत् ।। ईश्वरस्याभिषेकंच ग्रह पूजांच कारयेत् । पूजां कर्मसु निर्वृत्य होमं कुर्याध्वि धानतः ।। ग्रहस्येशान दिग्भागे कुंडं कुर्या द्विधानतः । विस्तारा यामखातं चाप्यरत्नद्वय संम्मितं ।। कुंड कंठं पिरत्यज्य समंता दंगुळं क्रमात् । मेखलोच्छ्राय विस्तारौ चतुस्त्री द्व्यंगुळैः क्रमात् ।। पश्चिमे मध्यभागेतु योनिं कुर्याद्वि धानतः ।। योनिं षडंगुळ्यां तिर्यग्द्वा दशांगुळदैर्घिकां । अश्वथ्थदळ संकाशां किंचिन्नि म्नायतां शुभां ।। कुर्या दाघार पर्यंतं स्वगृह्योक्त विधानतः । समिधाज्यंचरुंचैव तिलिमाषामश्च सर्षपैः ।। सर्षपैः सहिता तिल माषा इत्यर्धः ।। अश्वद्ध प्लक्षपालाश समिद्भिः खादिरैः शुभैः ।। अष्टोत्तर सहस्रंवा अष्टोत्तर शतं तुवा । अष्टाविंशति रेतैश्च होमं कुर्यात्प्रुधक् पृथक् ।। त्रियंबकेन मंत्रेण तिलान् व्याहृतिभिः क्रमात् ।। ग्रह एवंच होतव्या - अस्मदुक्त विधानतः । एवं क्रमेण हुत्वाधा होमशेषं समापयेत् ।। सर्वालंकार युक्ताना त्रयाणा मभिषे चनं ।। त्रयो माता पितृ बालाः ।। चतुर्भिः कलशैरद्भिः बृहत्कुंभ समन्वितं - बृहत्कुंभं शतच्छिद्रं ।। दौतांऐराणि धृत्वाथ कुर्या दाज्यावलोकनं ।। पूर्णहुतिं जुहुया द्यजमान समन्नितः ।। तत्सर्वं पराया भक्त्या ईश्वराय निवेदयेत् । सर्वालंकार संयुक्तां सवत्सांगां पयस्वीनीं ।। प्रतिमां वस्त्रयुग्मं चाप्या चार्यय निवेदयेत् । ईश्वर प्रीतये शक्त्या कर्याद्ब्राह्मण भोजनं एवं यः कुरुते शांतिं सर्वपापैः प्रयुच्यते सर्वान्कामान वाप्नोति स्थिरजीवी सुखी भवेत् ।।
इति कृष्ण चतुर्षशी शांतिः ।।
अथ प्रयोगः ।। कर्ता पित्राद्यरिष्टादौ गोमुख प्रसवं कृता । देशकालौ संकीर्त्या असय बालकस्य कृष्ण चतुर्दशी जन्म सूचितारिष्ट निरसन द्वारा परमेश्वर प्रीत्यर्धं सनव ग्रहं मख गर्बितं कृष्ण चतुर्दशी जननशांतिं करिष्ये इति संकल्प्य ।। गणेशपूजा पुण्याहवाचन नांदी श्राद्दाचार्य त्व्रीग्वरणानि कुर्यात् । ततः आचार्यः आग्नेयादि विदिक्षु चतुरः कुंभान्मध्येच शतच्छिद्रे पंचमृदः पंच पल्लवान् पंचरत्नानि पंचत्वचः पंचधान्यानि सुवर्णं सतौषधीश्च निक्षिप्य वस्त्रॆ र्मल्यैश्चवेष्ट यित्वा ।। पूर्णपात्रे कर्षत दर्थार्द कृतां रुद्र प्रतिमां - त्रियंबकमिति मंत्रेण संपूज्य आग्नेयादि कोणेषु कंभान् संस्थाप्य ।। इमंम्मे - तत्वायामि - त्वन्नो आग्ने ।। सर्वे समुद्रा स्सरित स्तीर्थानि जलमानदाः । आयांतु यजमानस्य दुरितक्षय कारकाः ।। आग्नेयादि कोणस्थ कलश प्रतिमासु इमंम्मे इत्यादि त्रि भिर्मं तैः सर्वे समुद्रा इति वरुणं च संपूज्य रुद्रं पंच शांतिं अनोभद्रा - भद्राग्नेः सहस्र शीर्षां - कद्रुद्राय आयुस्तूक्तानि जपेत् ।। ततोग्रे ग्रहणां स्थापनं च कृत्वा समिद्वय मादायच क्षुष्यंतेत्र प्रदानं रुद्र मश्वत्थ प्लक्ष पलाश खादिर समिदाज्य चरुतिल माष सर्षप द्रव्यैः प्रत्येक मष्ट सहस्र मष्टशत मष्टाविंशति वारंवा त्र्यंबक
मंत्रेण प्रजापतिं व्यस्ताभि स्समसतव्याहृतिभिः सहस्मादि संख्यया तिल द्रव्येण शेषेण स्विष्टकृत मित्यादि क्रमेण निर्वापादि नाचरुं कृत्वा साचार्य त्व्रिजो होमादि बलि दानांते शत च्छिद्रेण चतुर्भिः कुंभैः ग्रह कुंभैश्चाभिषिंचेयुः ।। ततो यजमानो विभूतिं धृत्वा कांस्यपात्रे रूपं रूप मित्याज्यं सकुटुंबो वलोक्य सदक्षिणं सप्रातं आचार्यायगां वस्त्रयुगमृत्विग्भ्यश्च दक्षिणां च दत्वा विप्रान् संभोज्य कर्म रुद्रार्पणं कृत्वा भुंजीतेति ।।
इति श्री कमलाकर कृत कृष्ण चतुर्दशी शांति प्रयोगः ।।
अ थ सि नी वा लि कु हू शा ं ति ः
अथ सिनीवालिकुहू शांतिः ।। प्रयोग पारिजाते उत्तरगर्ग्यः ।। सिनीवाल्यां प्रनूतास्य द्दासीभार्या पशुस्तधा । गजाश्व महिषीचैव शक्रस्यापि श्रीयं हरेत् ।। कुहूप्रसूति रत्यर्धं सर्वदोषकरीस्मृता । यस्य प्रसूतिरेतेषां तस्यायुर्धन नाशनं ।। सर्वगंड समस्तत्र दोषस्तुप्रबलो भवेत् ।। शांतंविना विशेषेण परित्यागो नविद्यते । परित्यागे तत्र कार्यएव । शांतिं कुर्याद्धीमान् विचक्षणैः ।। शांतौ कृतामामपि त्यागः कार्यएव । शांतिं विनातु सुतरां त्याग इत्यर्थः ।। (तत्कालं तत्क्षणार्थेन शिशोरेवानुपालने । शांत्यभावे बालत्यागे चेत्यर्थः ) सत्यजेत्पंडितोमोहा दर्थादज्ञानतोपिवा । शांतिं विनैव बालंतु सत्यजेदित्यादि वचनादित्यर्थ्यः ।। तद्योगान्नाशये त्किंचि त्व्वयंवा नाशमश्नुते । बालयोगादित्यर्ध्यः ।। कल्पोक्त शांतिः कर्तव्यः शीघ्रं दोषापनुत्तये । रुद्रः शक्रश्चपितरः पूज्याःन्युर्देवाताः क्रमात् । कर्षमात्र सुवर्णेन तदर्थार्थेनवापुनः ।। आदवा शक्तितः कुर्या द्वित्तशाठ्यविवर्जितः । प्रतिमांकारये च्छंभो श्चतुर्बुज समन्वितां ।। त्रिशूल खड्ग वरदाभयहस्तां यथा क्रमात् । श्वेतवर्णां श्वेतपुष्पां श्वेतांबरवृषस्थितां ।। त्रिंबकेनतुमंत्रेण पूजांकुर्याद्यदाविधि । इंद्रश्चतुर्भुजो वज्रां कुशचापः ससायकः ।। रक्तवर्णो गजारुढो यत इंद्रेतिमंत्रतः । पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः ।। यष्ट्यक्षसूत्र कमंडल्वभयस्येवधारिणः । येते चेतच मंत्रेण पूजां कुर्यादनंतरं ।। आग्नेयींदिश मारभ्य कुंभान् कोणेषुविन्यसेत् । तन्मध्ये स्थापयेत्कुंभं शतच्छिद्र समन्वितं ।। तेष्वेव पंचगव्यादि तत्तन्मंत्रैश्च निक्षिपेत् । आदिशब्देन पंचमृत्पंच रत्नानि चतुर्दशीशांत्युक्तानि ।। कल्पोक्त शांतिः कर्तव्या कुर्याच्छीघ्रं स्वशक्तितः । गोदानं वस्त्रदानं स्वर्णंचोर्वीं वरां शूभां ।। दशदानाचिचोक्तानि क्षीर माज्यं गुडस्तथा । गोदानादि र्दश दानांतर्गतेपि द्विरनुष्ठानं ।। आज्यावेक्षणमेतानि तत्तन्मंत्रैश्च कारयेत् । समिच्चर्वाज्य होमंच तिलमाषैश्चनर्षपैः ।। तिलमाषा मेकद्रव्यं ।। अश्वत्थप्लक्षपालाश समिद्भिः खादिरादिभिः । अष्टोत्तरशतं
मुख्यं प्रत्येकं जुहुयाद्विजः । त्रिंबकेन च मंत्रेण तिलान् व्याहृतिभिः पुनः । चतुर्भिः कलशै र्युक्तं बृहत्कुंसमिन्वितं मुख्यं प्रत्येकं जुहुयाद्विजः । त्रिंबकेन च मंत्रेण तिलान् व्याहृतिभिः पुनः । चतुर्भिः कलशैर्युक्तं बृहत्कुंभसमिन्वितं । शांतिवत्सकलां कार्यं अभिषेकं च कारयेत् ।। चतुर्दशी शांतिपदित्यर्धः ।। पितृ मातृ शिशूं स्तत्राप्यभिषिंचेत्तुवारुणैः । शंकरस्याभि षेकं च कुर्याद्ब्राह्मणभोजनं । अन्येषांचैव सर्वेषां ब्राह्मणानां च तर्पणं । यधाशक्तनुसारेण द्विजाशीर्वादपूर्वकं ।।
इति सिनीवालीकुहू शांतिः ।।
अथ प्रयोगः ।। कर्तास्य बालस्य सिनीवालीकुहू जननसूचित सकलारिष्ट शांतिद्वारा श्री परमेश्वर प्रीत्यर्धं सिनीवाली जनन शांतिं करिष्ये इति संकल्प्य ।। गणेश पूजन पुण्यावाचन नांदी श्राद्थाचार्यार्त्यिगरणानि कुर्यात् । ततः आचार्यः सर्षपान् विकीर्य भूमिं प्रोक्ष्यग्नेयीमारभ्य विदिक्षु महींद्यौरित्यादि चतुरः कुंभान्मध्ये शतच्छिंद्रं संस्थाप्य चतुर्षपंचमृत्पंच पल्लव पंचरत्न पंचत्वक् पंचधान्य सुवर्णानि निक्षिप्य शतिच्छद्र पूर्णप्रातो परिकर्षतदधान्र्दकल्पितां रुद्रप्रतिमां संपूज्य तद्दक्षिमतोयत इंद्रेति मंत्रेणेंद्रं उत्तरतश्चयेचेह इति मंत्रेण पितृ मातृ प्रतिमां संपूज्य चतुर्षु कुंभेषु वरुणं संपूज्य आनोभद्राः - भद्रा सूक्तानि पठित्वा अग्निं प्रतिष्ठाप्य ।। ग्रहणां धान्यानिवादद्यात् ।। चक्षुषी आज्येनेत्यंते अत्र प्रधानं रुद्र मश्वत्थ पल्क्ष पलाशखदिर समुदाज्यचरु यव तिल मिश्र माषैः प्रत्येक मष्टोत्तर शत संख्याया प्रजापितिमेतैः द्रव्यैः व्याहृतिभि रष्टाविंशति संख्य याशेषेण स्वष्टकृत मित्यादित्यागे कृते होमं कृत्वा बलिदानांते मूर्थानमिति पूर्दाहुतिं हुत्वा शत च्छिद्रेण सर्व कुंभोदकैः तत्वाया मूत्यादि मंत्रैः रभिषिक्तो यजमान आचार्यादिभ्यो दशदानानि दद्यात् ।। गवा मंगेष्वितिगां ।। शरण्यं सर्व लोकानां लज्जाया रक्षणं परं । सुवेषदारि वस्त्रत्व मधः शांतिं प्रयच्छमे ।। इति वस्त्रं ।। हिरण्य गर्भेति हिरण्यं ।। सर्वभूताश्रया भूमिर्वराहेण समुद्धृता । अनंत सस्य फलदा मदः शांतिं प्रयच्छमे ।। इति भूमिं ।। क्षीरं त्विदं शंखवर्णं क्षीरादमृत संभवं । क्षीरात्क्षीरोत कीर्तिश्च क्षीरे प्राणस्य संस्थितः ।। तस्मात् क्षीर प्रदासेन अधः शांतिं प्रयच्छमे ।। इति क्षीरं ।। कामधेनुसु संभूतं सर्वक्रतुषु संस्थितं । देवानामाज्य माहर मदः शांतिं प्रयच्छमे ।। इत्याज्यं ।। यधा देवेषु विश्वात्म प्रवरश्च मदः शांतिं प्रयच्छमे ।। इत्याज्यं ।। यधा देवेषु विश्वात्म प्रवरश्च जनार्दनः । सामवेदस्तु वेदानां मह देस्तु येगिनां ।। प्रणवः सर्वमंत्राणां नारीणां पार्वाती मह देस्तु येगानां ।। प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षु रसोsमृतः ।। त्वंमे तस्मात्परां लक्ष्मीं ददस्वगुड सर्वदा ।। इति गुडं ।। ततः कांस्य प्राते रूपं रूपमिति मंत्रेण सकुटुंबः स्वप्रतिरूपं वीक्ष्य ।। आज्यं तेजस्समुद्दिष्ट माज्यं पापहरं स्मृतं ।। आज्यं सूराणामा हरमाज्ये देवाः प्रतिष्ठताः ।। इत्याज्य पात्रं ।।
ततो दश दानानि ।। तानिच ।। गो भू तिल हिरण्याज्य वासो धान्य गुडनिच ।। रौप्यं लवण मित्या हुर्दश दानानि पंडिता इति ।। तेषु षण्णां मंत्रा उक्ताः ।। महार्षे गोत्र संभूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम पापं व्यपोहतु ।। इति तिलान् ।। सर्व देव मयं धान्यं सर्वोत्तपत्तिकरं महात् । प्राणिनां जीवनोपाय मदः शांतिं प्रयच्छमे ।। इति धान्यं प्रीतिर्यातिः पितृणांच विष्णु शंकरयो स्सदा । शिवनेत्रोत्भवं राप्यमतः शांतिं प्रयच्छमे ।। इति रूप्यं ।। यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । शंभोः प्रीतिकरं नित्य मतः शांतिं प्रयच्चमे ।। इति लवणं ।। एतानि दक्षिणायुक्तानि देयानि ।। (अर्थक्रमेण पाठक्रमस्य भोधात् ्त एवांते दक्षिणासुक्तिः) केचिद्दक्षिणामपि पाठक्रमां मध्ये कुर्वंति । ततः रुद्रप्रतिमां त्र्यियंबक मित्यभिषेकं कृत्वा उत्तरपूजां कृत्वा विसृज्याचार्यहस्ते दत्वाग्निं विसृज्य संपूर्णतां वाचयित्वा ।। विप्रान् भोजनयेत् ।। सीनीवाली कुहोर्दर्श शांत्या समुच्चयः ।। अव्यभिचारादिकेचित् ।। तस्मात्सिनीवाल्यामेवेयं शांतिरस्तर्भूता ।। कुह्वंतु दोषमात्रमुक्तं । दर्शः सूर्येंदुसंगम इति कुह्वा एवदर्शितत्वात् तत्र दर्शशांतिरे वेतिः (केचित्तुदर्शव्यतीपाते पथकृद्वैश्वानरीं कुह्वांद्वयो स्समुच्चयमाहुः) नात्र गोमुख प्रसवः ।।
इति सिनीवालीकुहू शांतिप्रयोगाः ।।
अ थ द र्श शा ं ति ः
ना र द ः : ---
श्लो ।। अथातो दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहारार्धं शांतिं वक्ष्यामिते सदा ।। 1
श्लो ।। पुण्याहंवाच मित्वाच क्रतु संकल्पपूर्वकं ।
कुंडंवा मंडलं कुर्यात्तद्देत्तद्देशेस्थापयोद्घटं ।। 2
मंडलं सर्वतोभद्रं : ---
श्लो ।। तत्कुंभे निक्षिपेद्द्रव्यं दधि क्षीर घृतादिकं ।
आदिशब्दो द्गोमूत्र गोमयस्य ग्रोधौदुंबराश्वत्थचुत
निंबका तथा ---
पंचरत्नानि निक्षिप्य वस्त्रयुग्मे नवेष्टयेत् ।। 3
श्लो ।। सर्वे समुद्रास्सरितः तीर्धानि जलदानदाः ।
आयांतु यजमानस्य दुरितक्षयकारकाः ।। 4
श्लो ।। आपोहिष्ठेतृचाचैव कयानश्चित्र इत्यृचा ।
यत्किंचे दमृचाचैव (1)
(1) समुद्रजेष्ठाः सलिलस्यमध्या त्पुनानायंत्य निविश मानाः । इंद्रोया
वज्रीवृषभो ररादाताsआपो देवी रिहमामवंतु ।। याsआपो दिव्याsउतवास्रवंति खनित्रिमाsउतवायाः स्वयंजाः । समुद्रार्धयः शुचयः पावकास्ताs आपोदेवी रिहमामवंतु ।। यासां राजावरुणो यातिमध्ये सत्यानृतेsअवपश्य न्जनानां । मधुश्चुतः शुचयो याः पावकास्ताsआपो देवी रिहमामवंतु ।। यासुराजा वरुणो या सुसोमो विश्वे देवाया सूर्जंमदंति । वैश्वानरो याः स्वग्निः प्रविष्टस्ताsआपो देवी रिहमामवंतु ।।
समुद्र ज्यष्ठ इत्यृचा ।। 5
श्लो ।। अभिमंत्र्योदकं पश्चादग्नेः पूर्वाप्रदे शके ।
उदङ्मभखो मिमत्र्यैव पश्चात् दर्शदेवताः स्थापयेत् ।। 6
इत्यन्वयः ।।
मंडलं कुर्यादिति यदुक्तं तदाह : ---
श्लो ।। हारिद्रं रक्तकंचैव कृष्णं श्वेतं च नीलकं ।
एतेषां तंडुलैश्चैव सर्वतो भद्र मुद्धरेत् ।। 7
श्लो ।। दर्शाख्य देवतायाश्च सोम सूर्य स्वरूपिणी ।
प्रतिमा स्वर्णजा श्रेष्ठा राजती ताम्रज्sथवा ।। 8
दर्शदेवता रूप सोम सूर्य स्वरूपां प्रतिमां स्थापयेदित्य भेदे नान्वयः : --
(कह्वा अपि तत्वात् तत्रापि इदं)
श्लो ।। सर्वतो भद्र मध्येच स्थापये द्दर्शदेवतां ।
ग्रह वर्णं वस्त्रयुग्मं तद्वर्णं गंध पुष्पकं ।। 9
श्लो ।। आप्याय स्वेति मंत्रेण सविता पश्चातथैवच ।
उपचारैः समाराथ्य ततो होमं समाचरेत् ।। 10
श्लो ।। कृत्वा वह्निं प्रतिष्ठास्य क्रकु संकल्प मीदृशं ।
"आयुरारोग्य सिथ्यर्थं सर्वारिष्ट प्रशांतये ।। 11
श्लो ।। पुत्रस्य दर्शजनने दोषनिर्ह रणायच ।
माता पित्रोः कुमारस्य सर्वारिष्ट प्रशांतये ।। 12
श्लो ।। तेषा मायुश्रियोः प्राप्त्यै शांति होमं करोम्यहं ।"
इति श्लोक मंत्रौः ।। 13
श्लो ।। हुनेत्प वितृ मंत्रेण सोमो धेनुंच मंत्रतः ।
एतैर्मत्रै पृथके चैव हुनेदष्टोत्तरं शतं ।। 14
एतैरिति बहुवचनात् पितृ दैवत्य होमोप्यष्टोत्तरं शतं ।।
श्लो ।। दार्शश्च दवता होमः अष्टाविंशति संख्यया ।।
होम मेवंच कृत्वाधवि दध्याच्छाभिषेचनं ।। 15
श्लो ।। श्रीसुक्त मायुषं सूक्तं समुद्र ज्येष्ठ इत्यृचा ।
एतै र्मंत्रैश्चाभिषेकं माता पित्रोः शिशोस्तथा ।। 16
श्लो ।। ततः स्विष्ट कृदादिस्यात् होम शेषं समापयेत् ।
हिरण्यत रजतं चैव कृष्णां धेनुं सदक्षिणां ।। 17
श्लो ।। अन्येभ्योपि यधाशक्ति दातव्या दक्षिणा तधा ।
ब्राह्मणान् भोजये त्तत्र कार योत्स्यस्ति वाचनं ।। 18
( इति नारदोक्त दर्श शांतिः )
अथ दर्शशांति प्रयोगः :---
देशकालौ संकीर्त्या, अस्य बालस्य दर्श जनन सूचितारिष्ट निर सनद्वार श्री परमेश्वर प्रीत्यर्धं दर्श जनन शांतिं करिष्ये, इति संकल्प्य, गणेश पूजा पूण्यवाहचन् नांदी श्राद्धाचार्य र्त्विग्वरणानि कुर्यात्.
तत्र आचार्यः कुडात् स्थंडिलात्वापूर्वे पंचवर्णैः तंडुलै स्सर्वतोभद्रं विरच्य, तन्मधेय कुंभं संस्थाप्य, तत्र पंचगव्यं न्यग्रोधौदुंबराश्वत्थ चूत निंब वृक्षमूलानां त्वक्पल्लवांश्च पंचरत्नानि निक्षिप्य, वस्त्रयुग्मे नावेष्ट्य, सर्वे समुद्राः - 0 - इति मंत्रेण, आपोहिष्ठेत्यृचा ।।
कयानश्चित्रः, - 0- यत्किंचेदं, समुद्र ज्येषइठ इति चाभि मंत्र्य. पूर्णपात्रे आप्यायस्वेति सोमं, सवितापश्चात्तादिति सूर्यमावाह्य, ग्रहवर्णैः गंधपुष्पैश्च पूजयेत् ।।
केचित् पितृन् मध्ये, दक्षिणो त्तरयोश्च सोमसूर्यौ, पूजयंति तत्र मूलंचिंत्यं ततोग्निं, ग्रहांश्च प्रतिष्ठाप्य, अत्र प्रथानां - ग्रहान्, सोमं, सूर्यंच, अष्टोत्तर शतांविशत्यन्यतर संख्याया, समिच्छर्वाहुतिभिः, मध्ये कल्पोक्ताभिषेचने नशेषेणस्विष्ट कृतमित्यादि अन्वादध्यात् - परिस्तरणादि आज्यभागा्ते ग्रहादीन् हुत्वा, आयुरारोग्येति श्लोक मंत्राभ्यां होमं कृत्वा, हिरण्यवर्णा मितिसूक्तेन, आयुष्यं वर्चस्य मितिसूक्तेन, समुद्र ज्येष्ठा इत्यनयाच. माता पितृ शिशू नभिषिच्य, स्विष्टकृदादि बलिदानांते पूर्णा हुतिं कृत्वा, होमशेषं समाप्य, आचार्याय यथाशक्ति रजतं हिरण्यं कृष्णां धेनुंच सदक्षिणां दत्वा, ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वा, उत्तर पूजां विधाय, विसृज्या, आचार्याय प्रतिमां दद्यात् ---
अग्निं विसृज्य, ब्राह्मणान् भोजयुत्व, शांति पाठयित्वा, स्वस्तिवाचनं कुर्यात् इति.
इति नारायणभट्टं सूम रामकृष्ण भट्टात्मज
कमालाकरभट्ट कृत दर्शशांति प्रयोगः
इति तिथि शांतयः.
अ थ न क्ष त्र शा ं त यः
तत्रादौ ज्येष्ठा नक्षत्र शांतिः तदुत्पत्तौ फलं ब्रह्मयामळे :---
श्लो ।। ज्येष्टादौ जनने माता द्वितीये जननी पिता ।
तृतीये जननी भ्रातौ स्वयं माता चतुर्धके ।। 1
श्लो ।। आत्मानं पंचमे हंति षष्ठे गोत्रक्षयो भवेत् ।
गुप्तमेचोभ कुलं ज्येष्ठ भ्रातर मष्टमे ।। 2
श्लो ।। नवमेश्व शुरं हंति सर्वंहंति दशांशकः ।। 3
वसिष्ट :---
श्लो ।। सुरेश तारा जनितो धवाग्रजं द्विदैवता राजनितस्तु देवरं ।
पुरंजि दर्क्षेज नितस्चुत स्तथास्वस्याग्रजं हंति सपुत्रिकायदि ।। 4
विशषो निर्णयसिंधौ ज्ञेयः - प्रयोगः फारिजेते वृद्ध गार्ग्यः :---
श्लो ।। सुखासीनं मुनिश्रेष्ठं गर्गं मुनि गणान्वितं ।
कृत्वांज लिपुटो भूत्वा पप्रच्छ प्रति शानके ।। 5
श्लो ।। ज्येष्ठ नक्षत्र संभूत गंडदोष विनिर्णयं ।
तस्यशांतिं विथावंच यथावत्कध याम्यहं ।। 6
श्लो ।। घटिकै काचमैत्रौंते ज्येष्ठादौ घटिकाद्वायं ।
तयोस्संधि रतिज्ञेयं शिशु गंडं समीरितं ।। 7
श्लो ।। प्रथमेच द्वितीयेच ज्येष्ठ र्क्षेच तृतीयके ।
पादत्रेये जात नरः ज्येष्ठोप्यत्र प्रजायते ।। 8
श्लो ।। ज्येष्ठांत्य पादजातस्तु पितुः स्वस्य विनाशनः ।
जायते नात्र संदेहः दशाहाभ्यन्तरे तथा ।। 9
श्लो ।। तृतीये कन्यका जाताहंति शीघ्रं तथा ग्रजं ।
तच्छांति तस्य वक्ष्यामि गंडदोष प्रशांतिये ।। 10
श्लो ।। सुदिने शभ नक्षत्रे चंद्र तारा बलान्विते ।
भूतकान्ते यथाकुर्या ज्येष्ठा शांतिं विधानतः ।। 11
श्लो ।। वज्रांकुशधरं देवं ऐरावत गजान्वितं ।
कुर्याच्छचीपतिं रम्यं देवेंद्रं सुरनायकं ।। 12
श्लो ।। कर्ष मात्रम वर्णेन कर्षार्थेनाथ पादतः ।
तद्विधानं प्रकुर्वीत वित्तशाठ्या सकारयेत् ।। 13
श्लो ।। शालि तंडुल संपूर्ण कुंभस्यो परिपूजयेत् ।
इंद्रा येंदो मरुत्वत इति मंत्रेण वाग्यतः ।। 14
श्लो ।। गंध पुष्पैर्धुपदीपैः नानाभक्ष्व निवेदनै ।
पूजये दविप्रलोकपाल गणान्वितं ।। 15
श्लो ।। रक्तवस्त्राद्वयोपेतं पूजये त्सुरनायकं ।
तत्र संस्थापये त्कुंभान् चतुर्दिक्षु विशेषतः ।। 16
श्लो ।। तन्मध्ये स्थापयेत्कुंभं शतच्छिद्र समन्वितं ।
पुण्योदक समायुक्तान् वस्त्रयग्म निवेष्टतान् ।। 17
श्लो ।। कुंभेषु विन्यसेद्धीमान् पंचगव्यं समंत्रकं ।
पंचामृतं पंचरत्नं मृत्तिकाः पंचसंख्याकाः ।। 18
श्लो ।। पंचवृक्ष कशायांश्च पंचपल्लवकां स्तथा ।
सुवर्णं कुशदूर्वाश्च निक्षिपेच्छ सतौषधीः ।। 19
श्लो ।। पूजयेद्वारुणैर्मंत्रैः चतुःकुंभान् प्रयत्नतः ।
त्वन्नो अग्नेजपेददौ सत्वन्नोपि द्वितीयकं ।। 20
श्लो ।। समुद्रज्येति मंत्रं चेमंमेगंगे चतुर्धकं ।
पूजयेद्वस्त्रयुग्मद्यै श्चतुरः कलशानपि ।। 21
कलशस्थान् वरुणान् प्रीत्यर्थः :---
श्लो ।। जपंकुर्युः प्रयत्नेन मंत्रैरेभिः द्विजो त्तमाः ।
अनोभद्रा जपंकुर्या द्भद्राअग्ने र्विशेषतः ।। 22
श्लो ।। इंद्रसुक्तं रुद्रसूक्तं परं मृत्युंजयं ततः ।
इंद्रं संपूज्य देवेंद्रं वरुणं कुंभसंस्थितं ।। 23
श्लो ।। सुसंकल्प्य विधानेन होमकर्म ततश्चरेत् ।
समिद्भिः ब्रह्मवृक्षस्य शतमष्टोत्तरं यथा ।। 24
श्लो ।। सर्पिषा च रुणाचैव मूलमंत्रेण वाग्यतः ।
हुनेज्जप्येनचैतेन यत इंद्रभयेति च ।। 25
श्लो ।। तिलान् व्याहृतिभिर्हुत्वा शतमष्टोत्तरं पृथक् ।
भार्या शिशु समोपेतं यजमानं विशेषतः ।। 26
श्लो ।। अभिषेकं प्रकर्वीत सूत्रैर्वारुणसंज्ञकैः ।
समुद्र ज्येष्ठमंत्रैश्चापी मंमे वरुणशृथि ।। 27
श्लो ।। पृथिवी शांतादिभिर्मंत्रैः अभिषेकं समाचरेत् ।
अभिषेक निवृत्तौतु यजमान स्समाहितः ।। 28
श्लो ।। शुक्लांबराणि धृत्वाथ कुर्या दाज्यावलोकनं ।
रूपं रूपंपेति मंत्रेण चित्रं तच्चक्षुरेववा ।। 29
श्लो ।। देवतापुरतःस्थित्वा धूप दीप निवेदनं ।
दद्या दाचमनं सम्य क्तांबूलर्घ्ये तथैवच ।। 30
श्लो ।। नमस्ते सुरनाथाय नमस्तुभ्यां शचीपते ।
गृहाणार्घ्यं मयादत्तं गंडदोष प्रशांतये ।। 31
श्लो ।। कार्यं यत्पूजकादीनां शुभं लब्ध्वा समर्पयेत् ।
आचार्याय च गांदद्या त्सुशीलांच पयस्विनीं ।। 32
श्लो ।। रक्तवर्णांवत्सयुतां सर्वलंकारभूषितं ।
वस्त्रयुग्म पिधानंच यथा विभवसारतः ।। 33
श्लो ।। यक्ष गंधर्व सिद्धैश्च पूजितोपि शचीपते ।
दानेनानेनदेवेश गंडदोषं विनाशय ।। 34
श्लो ।। अष्टोत्तरशतंहुत्वा कुर्याद्ब्राह्मणभोजनं ।
ततोपिदक्षिणांदत्वा प्रणिपत्य समापयेत् ।। 35
श्लो ।। ज्येष्ठ शांति मिमांकृत्वा यथा विध्युक्तमार्गतः ।
गंडदोषं विनिर्जत्य आयुष्मान् जायते नरः ।। 36
श्लो ।। इत्युक्तं वृद्धगार्ग्येण शानकोsत्र विशेषतः ।
ज्येष्ठानक्षत्रसंभूत गंडदोष प्रशांतये ।। 37
श्लो ।। आज्ञानाद्वाधवाज्ञाना द्वैकल्याद्वाथनस्यच ।
यन्यूनमतिरिक्तंवा तत्सर्वं क्षंतुमर्हपि ।। 38
इति ज्येष्टानक्षत्र शांतिः
अथ ज्येष्ठा नक्षत्र शांति प्रयोगः ।। गोमुख प्रसवं कृत्वा, देशकालौ स्मृत्वा, अस्यशिशोः, ज्येष्ठ नक्षत्र सूचित सकलारिष्ट शांत्यर्धं, ज्येष्ठा नक्षत्र शांतिं करिष्ये, इति संकल्प्य, गणेश पूजा पुण्यहवाचन नांदी श्राद्धाचार्य र्त्विग्वरणानि कुर्यात्, ततः आचारः महीद्यौरिति भूमिं स्वृट्वा, ओषद यस्समिति यवान्निक्षिप्य, आकलशेश्विति कलशं संस्थाप्य, गंथेनाभ्यर्च्य, शालि तंडुलैः कलशं पूरयित्वा, पूर्णा दर्वीति पूर्ण पात्रं निधाय, तदुपरि कर्षतदर्थार्थ कृतां इंद्र प्रतिमां इंद्रा येंदो मरुत्वत इति मंत्रेण.
( मारिचः काश्यप ऋषिः, पवमान सोमो देवता गायत्री च्छंदः आवाहने विनियोगः )
( इंद्रा येंदो मरुत्वते पवस्व मथु मत्तमः । ऋतस्ययोनि मासदं ।। ऋ. 7-1-22 )
इंद्र :---
तत्तन्मत्त्रः लोकपालांश्चा वाह्व पूजयेत् । ततः पूर्वादिदिक्षु चतुरः कुंभास्मध्ये
शत च्चिद्रं संस्थाप्य, दिक्कुंभेषु पंचगव्य पंचामृत पंचरत्न पंच मृत्तिका पंच पल्लव सुवर्ण कुशदूर्वा शता षथीश्छक्षिप्त्वा, वस्त्र युग्मेन वेष्ट यित्वा, वरुण मावाह्य पूज येत्.
ततः पूर्वादि कलशान् त्वन्नो अग्ने - समुद्र ज्येष्ठा - इमंमे गंगे - इत्यभि मंत्र्य आनो भद्रा सूक्तं.
( आनो भद्रा इदि दशर्चस्य सूक्तस्य, गोतम ऋषिः विश्वेदेवा देवता, त्रिष्टुप् च्छंदः अद्या पंचमी सप्तमीच जगत्यः षष्ठी विराट् जपे विनियोगः ).
आनो भद्राः क्रतवोयंतु विश्वतो दब्दासोsआपरीतसsउद्भिदः । देवानो यथा सदमुद्वृदेsअसन्नप्रायुवो रक्षितारो दिवेदिवे ।। देवानां भद्रासुमतिर् ऋजूयतां देवानां राति रभिनो निवर्ततां । देवानां सख्यमुपसेद मावयं देवानsआयुः प्रतिरंतु जीवसे ।। तून्पूर्वया निविदा हूमहेवयं भगं मित्रमदितिं दक्षिमस्रिथं । आर्यमणं वरुणं सोम मश्विना सरस्वतीनः सुभगाम यस्करत् ।। तन्नोवातो मयो भुवातु भेषजं तन्माता पृथिवी तत्पिताद्यौः । तदावाणः सोमसुतो मयोभुव स्तदश्विना शृणुतं थिष्ण्यायुवं ।। तमीशानं जगतस्तस्धुषस्पतिं थियं जिन्वमवसे हूमहेवयं । पूषानो यथा वेद सामसदृधे रक्षितापायुरदब्धः स्वस्तये ।। स्वस्ति न इंद्रो वृद्धक्षवाः स्वस्तिनः पूषा विश्ववेदः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पति र्धथातु ।। पृषदश्वा मरुतः पृश्निमारुतः शुभं या वानो विदथेषु जग्मयः । अग्नि जिह्वामनवः सूरचक्षसो विश्वेना देवाs आवसागमन्निह ।। भद्रं कर्णेभिः शृणुयामदेवा भद्रं पश्येमाक्ष भिर्यजत्राः । स्थिरै रंगै स्तुष्टुवांस स्तनूभिर्व्यशेम देवहितं यदायः ।। शतमिन्नु शरदोsआंति देवा यत्रान श्चक्रा जर संतनूनां । पुत्रा सो यत्र पितरो भवंति मानो मथ्या रीरिषतायुर्गंतोः ।। अदितिर्द्यौ रदिति रंतरिक्ष मदिति र्माता सपिता सपुत्रः । विश्वे देवाs आदितिः पंचजना अदिति र्जात मदिति र्जनित्वं ।।
( ऋ. 1-6, 15, 16 )
रुद्रं त्र्यंबकंच जप्य्वा इंद्रायेंदो - 0, यत इंद्र भया महे इति --. इतिच अष्टोत्तर शतं, अष्टा विंशति, अष्टा वा जपेयुः --- ततोग्निं --, ग्रहांश्च प्रतिष्ठाप्य, अन्वा दद्यात् ।।
अत्र प्रधानं ।।
इंद्रं पलाश ससुदाज्यच रुड्रव्यैः, अष्ठोत्तर शत संख्यया, इंद्रायेंदो मरुत्व इति मंत्रेण प्रजापतिं, तिल द्रव्वेणाष्टोत्तर शतंव्या हृतिभिः, शेषेण स्विष्टकृत मित्यादि बल्यंते पूर्णाहुतिं पूर्ण पात्र विमोकं च कृत्वा, सहिते क्षत्र मित्यादि वारुण सूक्तैः समुद्र
ज्येष्ठाति चतुर्बिः, इमंमे वरुणेत्य नयाद्यौः शांतिंचाभिषिंचेत् ।। (नहिते क्षत्रं इत्यस्य सूक्तस्य).
ततो यजमानः रुपं रूपमिति मंत्रेण आज्य मवलोक्य तत्पात्रंस दक्षिणं ब्राह्मणाय दत्वा, इंद्रं संपूज्य.
श्लो ।। नमस्ते सुरनाथा यनमस्तुभ्यं शचीपते ।
गृहाणार्घ्यं मयादत्तं गंडदोष प्रशांतये ।। 1
इत्यर्घ्युं दत्वा, आचार्यादिभ्यो होमादि जन्यं श्रेयो गृहीत्वा, त मिंद्राय समर्प्य, आचार्याय रक्त वर्णां वस्त्र द्वययुतां सवत्सांगां.
श्लो ।। यक्ष गंधर्व सिद्धेश्च पूजतो सिशचीपते ।
दानेनाने नदेवेश गंडदोषं विनाशय ।। 2
इति मंत्रेण दद्यात् - ततः ऋत्विग्भ्योन्येभ्यश्च दक्षिणां दत्वा उत्तर पूजां विथाय विसृज्य.
श्लो ।। आज्ञानाद्वा थवा ज्ञानाद्वै कल्याद्वा धनस्यच ।
यन्न्यूनाति रिक्तंवा तत्सर्वं क्षंतु मर्हसि ।। 3
इति संप्रार्ध्य आचार्याय दत्वा, अग्निं संपूज्य, विभूतिं दृत्वौ, विसृज्य. अष्ट शतं विप्रान् सदक्षिणं संभोज्य, आशिषो गृहीत्वौ, भुजीत.
इति ज्येष्ठा नक्षत्र शांति प्रयोगः.
अथ मूल नक्षत्र शांतिः
तत्रौ दौत दुत्पत्ति दोषः : ----
श्लो ।। अभुक्त मूल संभूतं परित्यजेत्तु बालकं ।
समाष्टकं पितावाथन तन्मुखं विलोकयेत् ।। 1
श्लो ।। तदाद्यपादके तातः विपद्यत् जनन्यधो ।
धनक्षय स्तृतीयांशे चतुर्धके शुभावहः ।। 2
श्लो ।। प्रतीप मन्त्य पादेस्यत् फलंतदेव सार्पभे ।। 3
अभुक्त मूल माह वृद्ध वशिष्ठः :----
श्लो ।। ज्येष्ठांते घटिका चैका मूलादौ घटिकाद्वयं ।
अभुक्तमूल मित्याहुः जातं तत्रविवर्मयेत् ।। 4
बृहस्पतिस्तु :---
श्लो ।। ज्येष्ठांते घटिकार्धंतु मूलादौ घटिकार्धकं ।
तयोरंतर्गता नाडी अभुक्त मूल मुच्यते ।। 5
बृहन्नारदस्तु :---
श्लो ।। अभुक्त मूलगंडा तं घटिकानां चतुष्टयं ।
तत्रें द्रांत्य घटी द्वंद्वं मूलाद्यदवय मेवच ।। 6
इति कश्यप संहिता मांत्वन्यधा मूलमुक्तम् :---
श्लो ।। मूलाद्य पादजो हंति पितरंतु द्वितीयजः ।
मातरंस्वं तृतीयेर्धान् सुहृदंतु तुरीयजः ।। 7
फलं तदेव सार्पर्क्षे प्रतीपंत्वंत्य सादतः : ---
परिशिष्टे कात्यायनोपि - प्रथमे पितुर्नेष्टा द्वितीये मातुस्तृतीये धनधान्यस्य चतुर्थे कुल शोकापहः स्वयम पुण्यभागीस्यादिति ।।
वशिष्टः :----
श्लो ।। तौरी यजः शुभकरः फलमे तदेव ।
वैलो यतो भुजगथिष्ण्य भवस्य सर्वं ।। 8
पित्रादेः स्वस्यच शुभकरीति ज्ञेयं जयार्णवे : --
श्लो ।। मूलं स्तभंत्वच श्शाखा पत्रं पुष्पं ।
फलं शिखा । वेदाश्च 4 मुन यश्चैव 7 दिशश्च 10 वसव 8 स्तथा ।। 9
नव 9 बाण 5 रसा 6 रुद्रा 11 मूल भेदः प्रकीर्तिताः.
श्लो ।। मूले मूल विनाशा यस्तंभे हानिर्ध नक्षयः ।
त्वचि भ्रातृ विनाशाय शाखा मातृ विनाशकृत् ।। 10
श्लो ।। पत्रे सपरिवारस्य पुष्पेषु नृपवल्लभः ।
फलेषु लभते राज्यं शिखाया मल्प जीवितं ।। 11
अन्यत्रतु अन्यधा उक्तं :---
श्लो ।। मूले सप्तं - 7 घटीषु मूलहननं, स्तंभेष्ट साख्यक्षयं । तद्दिके 10 बंधु विनाशनंच विटपे रुद्रै 11 र्हतो मातुलः ।। पत्रेर्कैः - 12 सुकृतीत बाण 5 कुजमे मंत्री फलेसागरे - राज्यं वह्नि 3 शिखाल्प मायुरिति सन्मूला घ्रुषु स्यात्फलं पत्रादि घटिकाना मुत्त मत्वेति चरम दोषः अस्त्येव - यथा भूपाल पल्लभः :---
श्लो ।। वृषाशिसिंहेषु घटेतमूलं, दिविस्थितं युग्मतुलांगनांत्ये । पाताळगंमेष धनुः कुळीर नक्रेषु मर्त्येप्यिति संस्मरंति ।। 13
एतल्लग्न फलं :---
श्लो ।। स्वर्गेमूले भवेद्राज्यं पाता ळेच धनागमः ।
मृत्युलोके यदा मूलं तदा शून्यं समादिशेत् ।। 14
यथा वसिष्ठिः :---
श्लो ।। व्यतीपातेंग हीनिः स्यात् परिघोमृत्यु मादिशेत् ।
वैधृतौ पितृहानिः स्यात् सष्टे दावं धतां व्रजेत् ।। 15
श्लो ।। मूले समूलनाशस्यात् कुलनाशो धृतौ भवेत् ।
विकृतांगश्च हीनश्च संध्य योरुभ योरपि ।। 16
श्लो ।। पर्वण्यपि प्रसूतिश्च सुर्वारिष्ट भयप्रदा ।
तद्वत्त दंत जातश्च पादजात स्तथैवच ।। 17
तस्मा च्छांतिं प्रकुर्वित ग्रहाणां कृरचेतसां :----
व्यतीपातादौ शांतिग्रहमखयोः समुच्चयः अत्रयत् तत् प्रकारेण ग्रहमुख विधानं तत् अनारभ्या धीतस्य सप्तदश स्समित्राविंदा प्रकरणस्थे नैव ुपसंहारात् इतरेषु शांति कषु ग्रह मखानावश्यकत्वार्थं :----
शौनकः :----
श्लो ।। अथातः संप्रवक्ष्यामि मूलजात हितावच ।
माता पित्रार्थनस्यापि कुलस्य स्वहितायच ।। 18
श्लो ।। त्यागोवा मूलजातस्य स्यादष्टाब्दात्प्रदर्शनं ।
अभुक्त मूलजातानां परित्यागो विधीयते ।। 19
श्लो ।। अदर्शनादापि पितुः सतुतिष्ठे त्समाष्टकं ।
एवं च दुहितुर्ग्नेयं मूलजात फलं बुधैः ।। 20
श्लो ।। मुख्यकालं प्रवक्ष्यामि शांतिहोमस्य यत्नतः ।
जातस्य द्वादशाहेतु जन्मर्क्षेवा शुभेदिने ।। 21
श्लो ।। समाष्टके द्वादशाहे मंटपं कारयेद्बुधः ।
पुण्यभि मन्त्रितैस्तोयैः प्रोक्षितामांक्षितौततः ।। 22
ऋत्विजस्तु कश्यपोनोक्ताः :----
श्लो ।। ब्राह्मणोश्रोत्रियाश्चाष्टौ द्वादशत्वथषोडशेति ।
तत्रोद कुंभंशुक्ल क्ष्णंरक्त व्रमविवर्जितं ।। 23
अकृष्ण मूलनिर्णिक्तं पूर्णये न्निर्मलांभसा ---
निर्णिक्तं हिधौतं ---
श्लो ।। वस्त्रावकुंठितंकुर्यार्यात्पूरये त्तीर्थवारिणा ।
कुर्वन् हेमसमायुक्तं चूतपल्लव संयुतं ।। 24
श्लो ।। स्वस्तिकोपरिविन्यस्य नक्षीरद्रुमपल्लवैः ।
द्रोणव्रीहेंश्चनिक्षप्य ईशान्यां च निधापयेत् ।। 25
श्लो ।। पंचरत्नानि निक्षिप्य सर्वौषधि समन्विति ।
अर्चितं गंधपुष्पाद्यैः श्रीरुद्रंच स्पृशन्जपेत् ।। 26
श्लो ।। षडंगनहितं सम्यक् संजपेद्रुद्रसंख्यया ।
ऒह्वृचो रुद्रसूक्तै र्वछंदोर्गो रुद्रसामगैः ।। 27
श्लो ।। एकादशाष्टत्रिद्व्येक संख्यया शक्तितोजपेत् ।
अनया संख्ययाचैव रुद्रसुक्तं च सामसु ।। 28
श्लो ।। तत्रा प्रतिरथं सुक्तं शतरुद्रानुवाककं ।
शतरुद्रानुवाकः = त्वमग्ने रुद्र इति :---
रक्षामंत्रं तथा पुण्यं रक्षोघ्नं च स्पृशन्जपेत् ।। 29
एतेषामपि एकादशादि संख्यया जपः :---
श्लो ।। त्र्यंबकंतु जपेतसम्यक् अष्टोत्तर सहस्रकं ।
एकवारं तथाचापि पावमानीं स्पृशन्जपेत् ।। 30
श्लो ।। जपस्य पंचकुंभाःस्युः द्वयंवातदलाभतः ।
रुद्रकंभो निऋतिकुंभश्च भिन्नः एवं सप्तकुंभाः ।। 31
रुद्रकुंभो मध्ये ईशानादिकोण चतुष्टे चत्वार इति पंचवा --
कश्यप सःहितायांच शचिच्छिद्रं कोणेषु चत्वारः एवं पंचकुंभाः ---
श्लो ।। ईशानादि चतुष्कोणेष्व प्रणान् जलपूरितान् ।
पूर्वोक्त द्रव्य संयुक्तान् स्थापयेद्रक्त वर्णकान् ।। 32
शतच्छिद्रं बृहत्कुंभं स्थापये त्तंडुलोपरि तत्रपूर्वो दित सूक्त
जपः तेवै वोक्तः ----
श्लो ।। रुद्रेण क्रम ळोभद्रा भद्रा अग्ने सुभक्तितः ।।
आनोभद्रा अनेनैव पुं सूक्तेनैव चार्चयेत् ।। 33
मोचनी मूलजामित्यष्ट वाक्यानि एकको जपेत् ----
कुंभद्वय पक्षे चतुः प्रस्रवण मुक्तं कात्यायनेन - द्वितीयोद कुंभं कृत्वृ चतुः प्रस्रवणनं युक्तं - तत्र वरुण मुपरिष्टा न्मूलानि धारयेत् - वंश पात्रे कृत्वा, वस्त्रेभद्वेति - पंचकुंभ पक्षे मध्ये शत मूलानि - कुंभ द्वय माह ----
श्लो ।। श्री रुद्रस्यैक कुंभश्च सर्व सूक्तानि तत्रतु ।। 34
तथा पंचकुंभं पूर्वोक्तैः लक्षणैर्युक्तं ----
श्लो ।। चतुः प्रस्रवणं कुर्यात्पंच वक्त्रं तथैवच ।
वस्त्रावगुं ठितं कुर्यात् पूरयेत्तीर्थ वारिणा ।। 35
श्लो ।। पंचरत्न समायुक्तं आम्रपल्लव संयुतं ।
गजडश्व रध्या वल्मीक संगमाद्ध्रदगो कुलात् ।। 36
श्लो ।। राजद्वार प्रवेशाच मृदमानीय निक्षिषेत् ।
कुंभस्य नैऋते देशे हेमस्थानं प्रकल्पयेत् ।। 37
श्लो ।। देमया लेपिते देशे कुर्यात् स्थंडिल मुत्तमं ।। 38
कश्यपेनतु, उक्तं :---
श्लो ।। मंडपं चतुरश्रंच - चतुर्हस्त प्रमाणतः ।
चतुर्द्वार समायुक्तं - तोरणैद्यैर लंकृतं ।। 39
श्लो ।। पूर्वोक्त लक्षणोपेतं कुंडमीशानतो बहिः ।। इति ।। 40
श्लो ।। कृत्वाग्निमुख पर्यन्तं उल्लेखादि स्वशाकतः ।
पूर्णपात्र निधानांते कृत्वा पूजां समारभेत् ।। 41
श्लो ।। नक्षत्र देवता रूपं - सुवर्णेन प्रयत्नतः ।
निष्कमानेन वार्धेन - पादेनाध स्वशक्तितः ।। 42
श्लो ।। प्रतमां लक्षणेनैकां - कारयित्वा विचक्षणः ।
यद्वामूल विवर्णस्य - स्थापयित्वा प्रपूजयेत् ।। 43
श्लो ।। संस्मरेन्नि रुबुतिं श्यामं - सुमुखं सरवाहनं ।
रक्षोधिपं खड्गहस्तं - दिव्याभरण भूषितं ।। 44
ज्येतिर्निबंधेतु :---
श्लो ।। मूलं रूपं विधातव्यं - श्वेतं कुमप वाहनं ।
खड्गखेट धरं चोग्रं - द्विभुजं चवृकाननं ।। 45
इति उक्तंच :----
श्लो ।। प्रतिमा पूजनार्धाय - वस्त्रयुग्मं प्रकल्पयेत् ।
पंकजंकार येद्भूमौ - रक्ताभिः व्रीहि तंडुलैः ।। 46
श्लो ।। चतुर्विंशति पत्रैश्चं - शुक्लैर्वा कर्णिकान्वितं ।
तस्वो परन्य सेत्पात्रं - सौवर्णं रौप्य मृण्मये ।। 47
श्लो ।। शुद्ध वस्त्रेण संचाद्य तत्र मूलानि निक्षिपेत् ।। 48
मुलानि = शतमूलानि :---
श्लो ।। मुष्णुक्रांता सहदेवी तुळसी तुशतावरी ।
मूलानीमानि गृह्णीयात् शतालाभे विशेषतः ।। 49
श्लो ।। स्थापयेत्कीर्णिका मध्ये वस्त्र गंधाद्य लंकृतं ।
कूर्चहे मजलोपेतं कुंकुमौषधि संयुतं ।। 50
कूर्चो दर्भ स्तंबः - एवं विध कुंभंस्य सेदित्यर्धः :---
श्लो ।। कुंभोपरिन्यसे द्विद्वान् - मूल नक्षत्र देवतां ।
ज्येष्ठां पूर्वा मधांच - पूजयेद्देवतां शुभां ।। 51
श्लो ।। उत्तरषाड हुक्षाद्य सनूराधांत मर्चयेत् ।। 52
चतर्विंशति दळेषु उत्तराषाढाद्यानि चतुर्विंशति नक्षत्राणि
पूर्वदितः स्थापनीया नीत्यर्धः :----
श्लो ।। ऐंद्रादीशान पर्यंतं - पूजयेत् स्वस्व नामतः ।
स्वलिंगोक्तैश्च तन्मंत्रैः - प्रदाना दीन्प्र पूजयेत् ।। 53
कश्यपेनतु :----
श्लो ।। सुवर्णेन प्रमाणेन तदर्धार्देनवा पुनः ।
यधा वित्तानु सारेण प्रतिमां निबुरुते स्चुधीः ।। 54
श्लो ।। उदुंबर वटाश्वत्द प्लक्षाम्रत्वच पल्लवं ।
शतौषधीमूल शंख नवरत्नानि मृत्तिकाः ।। 55
श्लो ।। पंचामृतंतु सद्बीजं कुंकुमं रोचनं फलं ।
कुष्ठं मांसी हरिद्रीद्वे मुरा शैलेय चंदनं ।। 56
वचा चंपक मुस्ताच सर्वौषध्यो दश स्मृताः :--
श्लो ।। गजाश्वरथ्या वल्मीक संगमस्थान संभवाः ।
ह्रदगो राजनगरद्वार तश्चाष्टमृत्तिकाः ।। 57
श्लो ।। तिलनीषव्रीहि यवगोधुमाश्च प्रियंगवः ।
चणकैस्सहिताश्चाष्टौ सद्बीजाख्यानि सर्वदा ।। 58
श्लो ।। दधि मध्वक्षतैः कुंभान् वस्त्रेस्तल्लिंग मन्त्रकैः ।
मोषणश्चेचि मंत्रेण निरुऋतिं चार्चये त्ततः ।। 59
श्लो ।। पंचामृतेन संस्नाप्य आवाह्यथ समर्चयेत् ।
उपचारैः षोडषभिः यद्वा पंचोपचारकैः ।। 60
श्लो ।। रक्तचंदन गंधाद्यैः पुष्पैः कृष्णसितादिभिः ।
मेषशृंगादिधपैश्च घृतदीपै स्तथैवच ।। 61
श्लो ।। सुरासोळिकमां साद्यैः नैवेद्यैः भोजनादिभिः ।
मात्स्य मांस सुरदीनि ब्राह्मणानां विवर्जयेत् ।। 62
श्लो ।। उक्तद्रव्याद्यलाभेतु यधालाभं समर्पयेत् ।
पुष्पांतंतु समभ्यर्च होमंकुर्या द्यधोदितं ।। 63
श्लो ।। उक्तद्रव्याद्यलाभेतु यधालाभं समर्पयेत् ।
पुष्पंतंतु समभ्यर्च होमंकुर्या द्यधोदितं ।। 64
श्लो ।। निर्वासप्रोक्षणादीनि चरोः कुर्या द्यथाविधि ।
हविर्गृहित्वा विथिवत् नैरुऋत्यै त्यृचाहुवेत् ।। 65
श्लो ।। पायसं घृत सम्मिश्रं हुनेदष्टोत्तरं शतं ।
समिदाज्य चरून्पश्चा छ्छक्तितः संख्ययाहुवेत् ।। 66
स्वमंत्रः = नाममंत्रः :---
श्लो ।। कृणुष्वपेति पक्षर्गभिः जुहुयात्कृसरं ततः ।
गायत्र्या जातवेदेति त्रंबकमितिच क्रमात् ।। 67
श्लो ।। सीरायुंजंति तामग्निं वास्तोष्पत्यग्नि मेवच ।
तामग्निवर्णांतपसाज्वलन्तीं वैरोचनीं कर्मफलेषुजुष्टां ।। 68
श्लो ।। दुर्गां देवीं शरण महं प्रवद्ये सुतरसितंसे नमः ।
क्षेत्रस्यपतवै गृहामाग्निं दूतं तथैवच - श्री सूक्तेन तथाः ।। 69
विद्वान् समिदाज्य चरून् क्रमात् :---
श्लो ।। अष्टोत्तरशतै र्वापि अष्टाविंशतिभिः क्रमात् ।
अष्टाष्टसंख्ययावासि जूहुयाच्छक्तितो बुधः ।। 70
श्लो ।। त्वन्नः सोमेन पायसं जुहुयूत्तु त्रयोदश ।
चतुर्गृहीत माज्यंच याते रुद्रेति मंत्रतः ।। 71
श्लो ।। स्रुवेण जुहुयादाज्यां महाव्याहृतिभिः क्रमात् ।
हुत्वास्विष्टकृतं पश्छात् प्रायश्चत्ताहुतिं हुवेत् ।। 72
कश्यपेनतु :---
श्लो ।। दुर्गां ग्रहांश्च विघ्नोशं लोकपालांश्च पूजयेत् ।
प्रजापतयेस्वाहेति मुखांते जुहुयाद्घृतं ।। 73
श्लो ।। पलाशसमिदाज्याभ्यां सत्वन्नोष्ट सहस्रकं ।
अथवाष्टोत्तरशतं प्रत्येकं जुहुया त्ततः ।। 74
श्लो ।। मूलनक्षत्र मुष्टाभिः वाक्यैः मंत्रद्वयेनच ।
सामित्र सौम्य नैरुऋत्य मंत्रै रश्वत्थ संभवैः ।। 75
श्लो ।। समिद्भिश्च तिलैर्व्रीहीन् हुत्वाव्याहृतिभिः स्तधा ।
आचार्यो यजमानोवा अग्नौ पूर्णांहुतिं हुनेत् ।। 76
श्लो ।। सुमुद्रा दूर्मि सूक्तेन प्राजापत्य बुचातथा ।
पूर्णा दर्वेति सप्तेति मंत्रैः पूर्णाहुतिं हुनेत् ।। 77
श्लो ।। होमशेषं समाप्याथ वह्नि मारोपयेद्बुधः ।
ग्रहमुख विकृतित्वात् स्मार्ताग्नैः वह्नि समारोपः ।। 78
श्लो ।। कुंभाभि मंत्रणं कुर्यात् दक्षिणे नाभि मर्षयेत् ।
मृत्यु प्रशमानार्धाय जपेच्च त्रियंबकं शतं ।। 79
श्लो ।। रुद्र कुंभोक्त मंत्रेण रुद्र मंत्रं स्पृशन् जपेत् ।। 80
रुद्र कुंभस्य दक्षिणतोभि मर्शनं कृत्वा, याजुष बह्वृच सामगाभिः, पूरोक्तं जपं
जपेदित्यर्थः - एकादशाष्ट त्रिद्व्येक संख्यया, रुद्र सूक्तं सामवा जपेदित्यर्थः ---
श्लो ।। धूपं दीपं च नै वेद्यं कुंभ युग्मे निवेदयेत् ।
रुद्र कुंभे निरुऋति कुंभे चेत्यर्थः ---
प्रसाद मेत्ततोदेव मभिषेकार्ध मादरात् ।। 81
निऋरुतिं चंद्रं ----
श्लो ।। तस्मिन्काले ग्रहातिथ्यं कर्तव्यं भूति मिच्छता ।
पृथक् प्रश स्तस्तेनै व नक्षत्रेष्ट्यास हैववा ।। 82
तेनैव हेतुना ग्रहयज्ञः पृधक् प्रशकतः - मूलशांत्या सहैवत्यर्थः -----
श्लो ।। अभिषेक विधिं वक्ष्ये सर्वाचार्यैरुदीरितं ।। 83
श्लो ।। भद्रासनोपविष्टन्य यजमानस्य ऋत्विजः ।
दारपुत्रनमेतस्य कर्याः सर्वेभिषेचनं ।। 84
श्लो ।। अक्षीभ्यामितिसक्तेन पापमानीभिरेवच ।
आपोहिष्ठेतिनवभिः यत इंद्रद्वयेनच ।। 85
श्लो ।। सहस्राक्षेत्यृचाचापि देवस्यत्वैति मंत्रकैः ।
शिवसंकल्प मंत्रेण वक्ष्य माणैश्च मंत्रकैः ।। 86
वक्ष्यमाणैः श्लोकैःते च प्रयोगेवक्ष्यंते ----
श्लो ।। तच्छंयो रभिषेकंतु सर्वदोषोप शांतिदं ।
सर्वकामप्रदं दिव्यं मंगळानां च मंगळं ।। 87
श्लो ।। वस्त्रांतरित कुंभाभ्यां पश्चात् सुस्नापये द्बुधः ।। 88
श्लो ।। ततः शुक्लांबरधरः शुक्ल माल्यानुलेपनः ।
यजमानो दक्षिणाभिः तोषयेत् ऋत्विगादिकान् ।। 89
श्लो ।। धेनुं वपयस्निनीं दद्यात् आचार्याय सवत्सकां ।
निऋरुति प्रतिमां वस्त्रकुंभं हेमचदापयेत् ।। 90
श्लो ।। ग्रहार्ध वस्त्रप्रतिमा स्तत्तदुक्ताश्च दक्षिणाः ।
श्रीरुद्रजापिने देयः कृष्णोनड्वा स्प्रयत्नतः ।। 91
श्लो ।। तत्कुंभ वस्त्राप्रतिमां तस्मै दद्यात्प्रयत्नतः ।
इतरेभ्योपि विप्रेभ्यः शक्त्या दद्याच्च दक्षिणां ।। 92
श्लो ।। उक्तालाभे ततोदद्यात् आचार्य ब्रह्मऋत्विजां ।
तत्तन्मूलं प्रदातव्यं शक्त्या वाधप्रदापयेत् ।। 93
श्लो ।। आचार्याय च युद्दक्तं तदर्धं ब्रह्मणे भवेत् ।
सदस्याय ब्रहामणो र्धं ऋत्विग्भ्यश्च तदर्धकं ।। 94
श्लो ।। प्रच्छादनोर्णवस्त्रदि दद्याद्धेनुंच कांचनं ।
दानांते हवयेद्विप्रः सर्वमूल्यानि तत्रवै ।। इति ।। 95
देव ताच मूलां :----
श्लो ।। गृह्णीया दाशिषिंतेभ्यः प्रमम्याधक्ष मापयेत् ।
दद्या दन्नं पायसादि ब्राह्म णान् भोजयेच्छतं ।। 96
श्लो ।। अलाभे सति पंचशद्दशकं तदलाभतः ।
सर्वाशांतेश्च पठनं ब्राह्मणै राशिषस्तथा ।। 97
श्लो ।। गृही क्षमापयेद्विद्वान् निऋरुतिः प्रीयतामिति ।
विधाने चरितेस्मिंस्तु ततः शांतिः भवेद्ध्रुवं ।। 98
श्लो ।। गंडंते प्येवमेवस्यात् पुष्यार्धे तद्वदेवतु ।
पुष्याद्यर्धे प्रववेसि एव मेवशांतिः कार्या इत्यर्थः ।। 99
श्लो ।। समाष्टके द्वादशाहे कुर्याद्या शांतिमादरात् ।
इत्युक्तं मनुनावस्यक् मूलजात हितायच ।। 100
श्लो ।। माता पित्रो र्धनस्यापि बंधुदोषोप शांतये ।। 101
-- इति मदनरत्नोक्त शौनकेक्त मूलनक्षत्र शांतिः --