शतपथब्राह्मणम्/काण्डम् ९/अध्यायः २/ब्राह्मण ३

विकिस्रोतः तः
अग्निप्रणयनम्(अग्निचितिरहितम्).

९.२.३

अथातः सम्प्रेष्यति । उद्यच्छेध्ममुपयच्छोपयमनीरग्नये प्रह्रियमाणायानुब्रूह्यग्नीदेकस्फ्ययाऽनूदेहि ब्रह्मन्नप्रतिरथं[१] जपेति - ९.२.३.१

एतद्वै देवानुपप्रैष्यतः । एतं यज्ञं तंस्यमानान्दक्षिणतोऽसुरा रक्षांसि नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व इति - ९.२.३.२

ते देवा इन्द्रमब्रुवन् । त्वं वै नः श्रेष्ठो बलिष्ठो वीर्यवत्तमोऽसि त्वमिमानि रक्षांसि प्रतियतस्वेति तस्य वै मे ब्रह्म द्वितीयमस्त्विति तथेति तस्मै वै बृहस्पतिं द्वितीयमकुर्वन्ब्रह्म वै बृहस्पतिस्त इन्द्रेण चैव बृहस्पतिना च दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतं यज्ञमतन्वत - ९.२.३.३

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवापहतानि यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो इन्द्रेण चैवैतद्बृहस्पतिना च दक्षिणतो ऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते - ९.२.३.४

स यः स इन्द्रः । एष सोऽप्रतिरथोऽथ यः स बृहस्पतिरेष स ब्रह्मा तद्यद्ब्रह्माप्रतिरथं जपतीन्द्रेण चैवैतद्बृहस्पतिना च दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते तस्माद्ब्रह्माऽप्रतिरथं जपति - ९.२.३.५

[२]आशुः शिशानो वृषभो न भीम इति । ऐन्द्र्योऽभिरूपा द्वादश भवन्ति द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैवैतद्दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति ता द्वाविंशतिर्गायत्र्यः सम्पद्यन्ते तदाग्नेय्यो भवन्त्यग्निकर्म हि - ९.२.३.६

अथैनमुद्यच्छति । [३]उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति तस्योक्तो बन्धुः - ९.२.३.७

अथाभिप्रयन्ति । पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरिति देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्धन्त ते देवा असुराणां दिशोऽवृञ्जत तथैवैतद्यजमानो द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते दैवीरिति तदेना दैवीः कुरुते यज्ञमवन्तु देवीरिति यज्ञमिमवन्तु देवीरित्येतदपामतिं दुर्मतिं बाधमाना इत्यशनाया वा अमतिरशनायामपबाधमाना इत्येतद्रायस्पोषे यज्ञपतिमाभजन्तीरिति रय्यां च पोषे च यज्ञपतिमाभजन्तीरित्येतद्रायस्पोषे अधि यज्ञो अस्थादिति रय्यां च पोषे चाधि यज्ञोऽस्थादित्येतत् - ९.२.३.८

समिद्धे अग्नावधि मामहान इति । यजमानो वै मामहान उक्थपत्र इत्युक्थानि ह्येतस्य पत्राणीड्य इति यज्ञिय इत्येतद्गृभीत इति धारित इत्येतत्तप्तं घर्मं परिगृह्यायजन्तेति तप्तं ह्येतं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त देवा इत्यूर्जा ह्येतं यज्ञमयजन्त देवाः - ९.२.३.९

दैव्याय धर्त्रे जोष्ट्र इति । दैवो ह्येष धर्ता जोषयितृतमो देवश्रीः श्रीमनाः शतपया इति देवश्रीर्ह्येष श्रीमनाः शतपयाः परिगृह्य देवा यज्ञमायन्निति परिगृह्य ह्येतं देवा यज्ञमायन्देवा देवेभ्यो अध्वर्यन्तो अस्थुरित्यध्वरो वै यज्ञो देवा देवेभ्यो यज्ञियन्तोऽस्थुरित्येतत् - ९.२.३.१०

[४]वीतं हविः शमितं शमिता यजध्या इति । इष्टं स्विष्टमित्येतत्तुरीयो यज्ञो यत्र हव्यमेतीत्यध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञस्ततो वाका आशिषो नो जुषन्तामिति ततो नो वाकाश्चाशिषश्च जुषन्तामित्येतत् - ९.२.३.११

सूर्यरश्मिर्हरिकेशः पुरस्तात् । सविता ज्योतिरुदयां अजस्रमित्यसौ वा आदित्य एषो ऽग्निः स एष सूर्यरश्मिर्हरिकेशः पुरस्तात्सवितैतज्ज्योतिरुद्यच्छत्यजस्रं तस्य पूषा प्रसवे याति विद्वानिति पशवो वै पूषा त एतस्य प्रसवे प्रेरते सम्पश्यन्विश्वा भुवनानि गोपा इत्येष वा इदं सर्वं सम्पश्यत्येष उ एवास्य सर्वस्य भुवनस्य गोप्ता - ९.२.३.१२

तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति - ९.२.३.१३

अथाश्मानं पृश्निमुपदधाति । असौ वा आदित्योऽश्मापृश्निरमुमेवैतदादित्यमुपदधाति पृश्निर्भवति रश्मिभिर्हि मण्डलं पृश्नि तमन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण तपति - ९.२.३.१४

आग्नीध्रवेलायाम् । अन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधाति तस्मादेषोऽन्तरिक्षायतनो व्यध्वे व्यध्वे ह्येष इतः - ९.२.३.१५

स एष प्राणः । प्राणमेवैतदात्मन्धत्ते तदेतदायुरायुरेवैतदात्मन्धत्ते तदेतदन्नमायुर्ह्येतदन्नमु वा आयुरश्मा भवति स्थिरो वा अश्मा स्थिरं तदायुः कुरुते पृश्निर्भवति पृश्नीव ह्यन्नम् - ९.२.३.१६

स उपदधाति । [५]विमान एष दिवो मध्य आस्त इति विमानो ह्येष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षमित्युद्यन्वा एष इमांल्लोकानापूरयति स विश्वाचीरभिचष्टे घृताचीरिति स्रुचश्चैतद्वेदीश्चाहान्तरा पूर्वमपरं च केतुमित्यन्तरेमं च लोकममुं चेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति - ९.२.३.१७

उक्षा समुद्रो अरुणः सुपर्ण इति । उक्षा ह्येष समुद्रोऽरुणः सुपर्णः पूर्वस्य योनिं पितुराविवेशेति पूर्वस्य ह्येष एतं योनिं पितुराविशति मध्ये दिवो निहितः पृश्निरश्मेति मध्ये ह्येष दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्ताविति विक्रममाणो वा एष एषां लोकानामन्तान्याति - ९.२.३.१८

द्वाभ्यामुपदधाति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष न सादयत्यसन्नो ह्येष न सूददोहसाधिवदति प्राणो वै सूददोहाः प्राण एष किं प्राणे प्राणं दध्यामिति तं निधाय यथा न नश्येत् - ९.२.३.१९

अथोपायन्ति । इन्द्रं विश्वा अवीवृधन्निति तस्योक्तो बन्धुर्देवहूर्यज्ञ आ च वक्षत्सुम्नहूर्यज्ञ आ च वक्षदिति देवहूश्चैव यज्ञः सुम्नहूश्च यक्षदग्निर्देवो देवां आ च वक्षदिति यक्षच्चैवाग्निर्देवो देवाना च वहत्वित्येतत् - ९.२.३.२०

वाजस्य मा प्रसवः । उद्ग्राभेणोदग्रभीत् अधा सपत्नानिन्द्रो मे निग्राभेणाधरां अकरिति यथैव यजुस्तथा बन्धुः - ९.२.३.२१

उद्ग्राभं च निग्राभं च । ब्रह्म देवा अवीवृधन्। अधा सपत्नानिन्द्राग्नी मे विषूचीनान्व्यस्यतामिति यथैव यजुस्तथा बन्धुः - ९.२.३.२२

तद्या अमुष्मादादित्यादूर्ध्वाश्चतस्रो दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति - ९.२.३.२३

अथाग्निमारोहन्ति । [६]क्रमध्वमग्निना नाकमिति स्वर्गो वै लोको नाकः क्रमध्वमनेनाग्निनैतं स्वर्गं लोकमित्येतदुख्यं हस्तेषु बिभ्रत इत्युख्यं ह्येत एतं हस्तेषु बिभ्रति दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वमिति दिवस्पृष्ठं स्वर्गं लोकं गत्वा मिश्रा देवेभिराध्वमित्येतत् - ९.२.३.२४

प्राचीमनु प्रदिशं प्रेहि विद्वानिति । प्राची वै दिगग्नेः स्वामनु प्रदिशं प्रेहि विद्वानित्येतदग्नेरग्ने पुरो अग्निर्भवेहेत्यस्य त्वमग्नेरग्ने पुरोऽग्निर्भवेहेत्येतद्विश्वा आशा दीद्यानो विभाहीति सर्वा आशा दीप्यमानो विभाहीत्येतदूर्जं नो धेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते - ९.२.३.२५

पृथिव्या अहम् । उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति गार्हपत्याद्ध्याग्नीध्रीयमागच्छन्त्याग्नीध्रीयादाहवनीयं दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत् - ९.२.३.२६

स्वर्यन्तो नापेक्षन्ते । आ द्यां रोहन्ति रोदसी इति न हैव तेऽपेक्षन्ते ये स्वर्गं लोकं यन्ति यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिर इत्येष एव यज्ञो विश्वतोधार एत उ एव सुविद्वांसो य एतं वितन्वते - ९.२.३.२७

अग्ने प्रेहि प्रथमो देवयतामिति । इममेतदग्निमाह त्वमेषां प्रेहि प्रथमो देवयतामिति चक्षुर्देवानामुत मर्त्यानामित्युभयेषां हैतद्देवमनुष्याणां चक्षुरियक्षमाणा भृगुभिः सजोषा इति यजमाना भृगुभिः सजोषा इत्येतत्स्वर्यन्तु यजमानाः स्वस्तीति स्वर्गं लोकं यन्तु यजमानाः स्वस्तीत्येतत् - ९.२.३.२८

तद्या अमुष्मिंलोके पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति - ९.२.३.२९

अथैनमभिजुहोति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतयाऽऽहुत्या तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतयाऽऽहुत्या कृष्णायै शुक्लवत्सायै पयसा रात्रिर्वै कृष्णा शुक्लवत्सा तस्या असावादित्यो वत्सः स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणात्युपरि धार्यमाण उपरि हि स यमेतत्प्रीणाति दोहनेन दोहनेन हि पयः प्रदीयते - ९.२.३.३०

यद्वेवैनमभिजुहोति । शिर एतद्यज्ञस्य यदग्निः प्राणः पयः शीर्षंस्तत्प्राणं दधाति यथा स्वयमातृण्णामभिप्रक्षरेदेवमभिजुहुयात्प्राणः स्वयमातृण्णा रस एष शिरश्च तत्प्राणं च रसेन संतनोति संदधाति नक्तोषासा समनसा विरूपे इति तस्योक्तो बन्धुः - ९.२.३.३१

[७]अग्ने सहस्राक्षेति । हिरण्यशकलैर्वा एष सहस्राक्षः शतमूर्धन्निति यददः शतशीर्षा रुद्रोऽसृज्यत शतं ते प्राणाः सहस्रं व्याना इति शतं हैव तस्य प्राणाः सहस्रं व्याना यः शतशीर्षा त्वं साहस्रस्य राय ईशिष इति त्वं सर्वस्यै रय्या ईशिष इत्येतत्तस्मै ते विधेम वाजाय स्वाहेत्येष वै वाजस्तमेतत्प्रीणाति - ९.२.३.३२

द्वाभ्यामभिजुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदभिजुहोति - ९.२.३.३३

अथैनं निदधाति । सुपर्णोऽसि गरुत्मानित्येतद्वा एनमदो विकृत्या सुपर्णं गरुत्मन्तं विकरोति तं सुपर्णं गरुत्मन्तं चिनोति तं सुपर्णं गरुत्मन्तं कृत्वान्ततो निदधाति पृष्ठे पृथिव्याः सीद भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तभान तेजसा दिश उद्दृंहेत्येवं ह्येष एतत्सर्वं करोति - ९.२.३.३४

[८]आजुह्वानः सुप्रतीकः पुरस्तादिति । आजुह्वानो नः सुप्रतीकः पुरस्तादित्येतदग्ने स्वं योनिमासीद साधुयेत्येष वा अस्य स्वो योनिस्तं साध्वासीदेत्येतदस्मिन्त्सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमानं सादयति द्वाभ्यां निदधाति तस्योक्तो बन्धुर्वषट्कारेण तस्योपरि बन्धुः - ९.२.३.३५

अथास्मिन्त्समिध आदधाति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्त्समिद्भिश्चाहुतिभिश्च तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणाति समिद्भिश्चाहुतिभिश्च - ९.२.३.३६

स वै शमीमयीं प्रथमामादधाति । एतद्वा एष एतस्यामाहुत्यां हुतायाम्प्रादीप्यतोदज्वलत्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति त एतां शमीमपश्यंस्तयैनमशमयंस्तद्यदेतं शम्याऽशमयंस्तस्माच्छमी तथैवैनमयमेतच्छम्या शमयति शान्त्या एव न जग्ध्यै - ९.२.३.३७

[९]तां सवितुर्वरेण्यस्य । चित्रामाहं वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां पयसा महीं गामिति कण्वो हैनां ददर्श सा हास्मै सहस्रधारा सर्वान्कामान्दुदुहे तथैवैतद्यजमानाय सहस्रधारा सर्वान्कामान्दुहे - ९.२.३.३८

अथ वैकङ्कतीमादधाति । तस्या उक्तो बन्धुः। [१०]विधेम ते परमे जन्मन्नग्न इति द्यौर्वा अस्य परमं जन्म विधेम स्तोमैरवरे सधस्थ इत्यन्तरिक्षं वा अवरं सधस्थं यस्माद्योनेरुदारिथा यजे तमित्येष वा अस्य स्वो योनिस्तं यज इत्येतत्प्र त्वे हवींषि जुहुरे समिद्ध इति यदा वा एष समिध्यतेऽथैतस्मिन्हवींषि प्रजुह्वति - ९.२.३.३९

अथौदुम्बरीमादधाति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेद्रसेन प्रीणाति कर्णकवती भवति पशवो वै कर्णकाः पशुभिरेवैनमेतदन्नेन प्रीणाति यदि कर्णकवतीं न विन्देद्दधिद्रप्समुपहत्यादध्यात्तद्यद्दधिद्रप्स उपतिष्ठते तदेव पशुरूपं प्रेद्धो अग्ने दीदिहि पुरो न इति विराजाऽऽदधात्यन्नं विराडन्नेवैनमेतत्प्रीणाति तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.२.३.४०

अथाहुतीर्जुहोति । यथा परिविष्यानुपाययेत्तादृक्तत्स्रुवेण पूर्वे स्रुचोत्तरामग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ऋध्यामा त ओहैरिति यस्ते हृदिस्पृक्स्तोमस्तं त ऋध्यासमित्येतत्पङ्क्त्या जुहोति पञ्चपदा पङ्क्तिः पञ्चचितिको ऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.२.३.४१

अथ वैश्वकर्मणीं जुहोति । विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति। [११]चित्तिं जुहोमि मनसा घृतेनेति चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतद्यथा देवा इहागमन्निति यथा देवा इहागच्छानित्येतद्वीतिहोत्रा ऋतावृध इति सत्यवृध इत्येतत्पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मण इति योऽस्य सर्वस्य भूतस्य पतिस्तस्मै जुहोमि विश्वकर्मण इत्येतद्विश्वाहादाभ्यं हविरिति सर्वदैवाक्षितं हविरित्येतत् - ९.२.३.४२

अथ पूर्णाहुतिं जुहोति सर्वमेतद्यत्पूर्णं सर्वेणैवैनमेतत्प्रीणाति - ९.२.३.४३

[१२]सप्त ते अग्ने समिध इति प्राणा वै समिधः प्राणा ह्येतं समिन्धते सप्त जिह्वा इति यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वंस्तेषामेतदाह सप्त ऋषय इति सप्त हि त ऋषय आसन्त्सप्त धाम प्रियाणीति छन्दांस्येतदाह छन्दांसि वा अस्य सप्त धाम प्रियाणि सप्त होत्राः सप्तधा त्वा यजन्तीति सप्त ह्येतं होत्राः सप्तधा यजन्ति सप्त योनिरिति चितीरेतदाहापृणस्वेत्या प्रजायस्वेत्येतद्घृतेनेति रेतो वै घृतं रेत एवैतदेषु लोकेषु दधाति स्वाहेति यज्ञो वै स्वाहाकारो यज्ञियमेवैतदिदं सकृत्सर्वं करोति - ९.२.३.४४

सप्त सप्तेति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रीणाति तिस्र आहुतीर्जुहोति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तिस्रः समिध आदधाति तत्षट् तस्योक्तो बन्धुः - ९.२.३.४५

तिष्ठन्त्समिध आदधाति । अस्थीनि वै समिधस्तिष्ठन्तीव वा अस्थीन्यासीन आहुतीर्जुहोति मांसानि वा आहुतय आसत इव वै मांसान्यन्तराः समिधो भवन्ति बाह्या आहुतयोऽन्तराणि ह्यस्थीनि बाह्यानि मांसानि - ९.२.३.४६

अथातः सम्पदेव । षट्पुरस्ताज्जुहोति षडुपरिष्टात्षड्भिराश्मनः पृश्नेर्यन्ति द्वाभ्यामश्मानं पृश्निमुपदधाति चतुर्भिराग्नेर्यन्ति पञ्चभिरग्निमारोहन्ति तदेकान्न त्रिंशदाहुतिरेव त्रिंशत्तमी द्वाभ्यामग्निं निदधाति तद्द्वात्रिंशद्द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप् - ९.२.३.४७

तद्या अमूस्तिस्रोऽनुष्टुभः । गार्हपत्ये सम्पादयन्ति तासामेतामत्रैकामाहरन्ति तद्यदेतामत्राहरन्त्यत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र तस्मै नालमासीद्यदन्नमात्स्यत् - ९.२.३.४८

सोऽग्निमब्रवीत् । त्वयान्नमदानीति तथेति तस्माद्यदैवैतमत्राहरन्त्यथैषोऽलमन्नायालमाहुतिभ्यो भवति - ९.२.३.४९

अथो आहुः । प्रजापतिरेवैतं प्रियं पुत्रमुरस्याधत्त इति स यो हैतदेवं वेदा हैवं प्रियं पुत्रमुरसि धत्ते - ९.२.३.५०

यद्वेवैतमत्राहरन्ति । यान्वै तान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्नयमेव स योऽयमग्निश्चीयतेऽथ यामेषां तामूर्ध्वां श्रियं रसं समुदौहन्नेष स यमेतमत्राग्निमाहरन्ति तद्यदेतमत्राहरन्ति यैवैतेषां सप्तानां पुरुषाणां श्रीर्यो रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतच्छिर आत्माऽयमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति - ९.२.३.५१

  1. आशुः शिशानः (वा.सं. १७.३३-४९
  2. वासं १७.३३
  3. वासं १७.५३
  4. वा.सं. १७.५७
  5. वा.सं. १७.५९
  6. वा.सं. १७.६५
  7. वा.सं. १७.७१
  8. वा.सं. १७.७३
  9. वा.सं. १७.७४
  10. वा.सं. १७.७५
  11. वा.सं. १७.७८
  12. वा.सं. १७.७९