शतपथब्राह्मणम्/काण्डम् ९/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ औपवसथ्यदिवसात्प्राचीने दिवसे कर्तव्यं प्रयोगमभिधाय तथा तस्मिन्दिवसे कर्तव्यस्य प्रयोगस्याभिधानं, दर्भमुष्टिनिधानानन्तरं तदाज्यं दध्यादि चादाय चित्याग्निसमारोहणविधानं तत्र मंत्रं विनियुज्य तस्य व्याख्यानम्, अग्निमारुह्य पञ्चगृहीतेनाज्येन स्वयमातृण्णायां व्याघारणं कुर्यादिति विधानं, व्याघारणस्य स्वयमातृण्णाधारकत्वस्य प्रशंसनं, प्रकारान्तरेणापि स्वयमातृण्णायां व्याघारणत्वस्योपपादनं, ननु यद्येषा स्वयमातृण्णाऽग्नेरुत्तरवेदिस्तर्हि तद्व्याघारणं पूर्वोत्तरवेदिवद्धिरण्यदर्शनादिपूर्वकत्वेन भवितव्यमित्यभिधानं, स्वाहाकारवेट्कारयोः प्रत्यक्षत्वपरोक्षत्वाभिधानपूर्वकमाज्येन पञ्चगृहीतेन व्यतिहारमुत्तरवेदेर्व्याघारणात्तथैवास्या अपि उत्तरवेदित्वेन व्याघारणमुपपन्नमित्यभिधानं, क्रमेण व्याघारणमन्त्रान्प्रदर्श्य तेषां व्याख्यानं, प्रकारान्तरेण मन्त्राभिधानं प्रशस्याहुतीनां पञ्चत्वसंख्याऽग्नेः कार्त्स्न्येन तृप्तिहेतुर्भवतीति प्रतिपादनं, दध्यादीनां सोपयोगं विनियोगमभिधाय तेषां बहु. त्वात्सर्वान्नत्वं विहितं तत्समुक्षणं परिश्रिद्भ्यो बहिरपि कर्तव्यमित्यभिधानम्, उपरिष्टाद्दर्भमुष्टिं निदधातीत्युक्तान्दर्भान्समुक्षणे विनियुज्य तत्प्रशंसनं, पुनस्ते. षामेव दध्यादीनामग्नेरुपरिष्टाद्भागरूपेण प्रशंसनं, समुक्षणे मन्त्रद्वयं विनियुज्य साभिप्रायं तयोर्व्याख्यानं, प्रत्यवरोहणे मन्त्रजपस्यान्वयव्यतिरेकयोर्गुणदोषाभिधानम् , अग्नेरवरुह्य पश्चात्कर्तव्यप्रयोगस्य कथनं, तत्र प्रवर्ग्यस्य परिष्यन्दे उत्सादनविधानं. प्रवर्ग्योत्सादनस्याग्निरूपं स्थानान्तरं विधाय तत्प्रशंसनं, पुनस्तत्रैवोद्वासनस्य यज्ञस्य शिरःशरीरसन्धानरूपेण प्रशंसनं, यदा त्वग्नावुत्सादनं तदोक्तोद्वासने विशेषप्रतिपादनं चेत्यादि.


ब्राह्मण २

२ प्रवर्ग्योद्वासनानन्तरं सञ्चिते इष्टका समूहे स्थापनायाग्नि प्रणेतुं तावद्गार्हपत्ये आज्यहोमसमिद्धोमयोः सार्थवादं विधानं, तत्राज्यहोमे पूर्वं पञ्चगृहीतं गृहीत्वा तेनैकामाहुतिं हुत्वा पुनरेकस्यां स्रुचि षोडशगृहीतं गृहीत्वा तत्समं विभज्य ताभ्यां समभागाभ्यामपरमाहुतिद्वयं वैश्वकर्मणाऽऽभ्यां जुहुयादित्येवं तिस्र आहुतीर्जुहोतीति सार्थवादं निरूपणम् , एवमाज्यहोमप्रकारमभिधाय समिद्धोमे विशेषाभिधानं, तत्र ताश्च समिध औदुम्बर्यस्तिस्रश्चेति प्रतिपादनम्, उक्तानामाज्याहुतीनां पुरस्तादन्नरूपत्वेन संस्कारसदृशत्वोपवर्णनं, प्रथमाहुत्यर्थं पञ्चवारं ग्रहणस्याग्नेः शीर्षण्यप्राणपञ्चकोपधानरूपेण प्रशंसनं, प्रथमाहुति. होममन्त्रे तिग्मपदसम्बन्धस्य प्रशंसनम्, आहुतिद्वयार्थं षोडशवारं ग्रहणस्य प्रशंसनम्, एतदाहुतिद्वयमष्टाभिरष्टा भिर्ऋग्भिरित्येवमनुवाकशेषेण होतव्यं तथा चैताः सर्वा ऋचः • • सम्भूय सप्तदश भवन्ति, तस्या एतस्या मन्त्रगताया संख्यायाः कृत्स्नाग्निसंस्कारहेतुत्वेन प्रशंसनं, मिलिताया ग्रहणसंख्यायाः प्रशंसनं, समिधां होमस्य प्रकारान्तरेण प्रशंसनं, समिद्धोमे मंत्रत्रयं विनियुज्य तन्निगदव्याख्यातमिति प्रदर्शनम्, आज्यसमिदाहुतिसंख्यायाः पूर्वं पृथक्प्रशंसनं, पश्चात संभूय प्रशंसनं चेत्यादि.


ब्राह्मण ३

३ इत्थमग्निप्रणयनार्थं यथोक्तं होमं विधाय ततस्तत्प्रायणौपयिकीः क्रियाः कर्तुं तदुचितस्य सम्प्रेषस्य प्रतिपादनम् अत्र सम्प्रैषे ब्रह्मन्नप्रतिरथं जपेति यदुक्तं तस्योपयोगमभिधातुं पुराकल्पस्य निरूपणं, तत्राप्रतिरथस्येन्द्रत्वं ब्रह्मणो बृहस्पतित्वं च प्रतिपाद्य ब्रह्मणो द्वादशर्चाप्रतिरथसूक्तस्य जपकरणविधानम् , अप्रतिरथसूक्तस्य सोपपत्तिकं तद्गतऋक्संख्याछन्दोद्वारा प्रशंसनं, ततोऽग्नेः समन्त्रकमुद्यमनविधानम्, उद्यमनानन्तरमध्वर्युप्रभृतीनां " पञ्च दिशो दैवी:" इत्यादिभिः पञ्चभिर्मन्त्रैश्चित्यं प्रति गमनं विधाय तेषां मंत्राणां व्याख्यानम्, उक्तैर्मन्त्रैराग्नीध्रपर्यन्तं गत्वा तत्रैकस्य .पृश्निवर्णस्याश्मनः स्थानविशेषे उपधानस्य सोपपत्तिकं सार्थवादमभिधानम् , अभिहिते उपधाने मन्त्रद्वयं प्रदर्श्य तस्य व्याख्यानम् , उपधानमन्त्रयोर्द्वित्वं प्रशस्य प्रकृतस्याश्मन इष्टकान्तरवदुपधानस्य विधानात्तद्वदेव सादनसूददोहसाधिवदनयोः प्रसक्तौ तयोः सोपपत्तिकं सकारणं निषेधकरणं, तस्योपहितस्याश्मनो रक्षां विधायाहवनीयदेशं प्रति गच्छेयुरिति विधानं, तत्र मंत्रचतुष्टयं विनियुज्य तन्मध्ये द्वितीयमंत्रस्य व्याख्यानमवशिष्टं मंत्रत्रयं . निगदव्याख्यातमिति प्रदर्शनं च, उक्तमंत्रैराग्नीध्रादाहवनीपर्यन्तं. गमने सूर्यादूर्ध्वाभ्रातृव्यसम्बन्धिनीश्चतस्रो दिशस्तथैव प्राप्नोतीत्यभिधानं, चित्याग्निसमीपगमनानन्तरं "क्रमध्वमग्निना " इत्यादिभिः पञ्चभिर्मन्त्रैस्तस्यारोहणविधानं तेषां मन्त्राणां व्याख्यानं च, उक्तमन्त्रसाध्येन चित्याग्नेरारोहणेन स्वर्गे लोके विद्यमाना भ्रातृव्यसम्बन्धिनीः पञ्च दिशः पूर्ववत्प्राप्नोतीत्यभिधानं, चित्यानिसमारोहणानन्तरमस्मिन्नुख्याग्नौ होमस्य सार्थवादं विधानं, विहिते होमे द्रव्यस्य सकारणं सार्थवादं सविशेषमभिधानं, प्रकृतमभिहोमं प्रकारान्तरेण प्रशस्य तत्र मंत्रद्वयं विनियुज्य तत्र च पूर्वस्य प्रतीकं प्रदर्श्योत्तरस्य व्याख्यानं, मंत्रगतं द्वित्वं प्रशस्योख्याग्नेश्चितीनामुपरि निधानं विधाय च तत्र मंत्रद्वयं विनियुज्य तस्य व्याख्यानं, ततोऽस्मिनग्नौ समिधामाधानं विधाय ताः समिधश्चित्याग्निं प्राप्तस्यानेरुपरितनान्नरूपेण प्रशस्य तत्र शमीमयीं समिधं प्रथमामादध्यादिति सकारणमभिधानम्, अस्मिञ्छमीसमिध आधाने मंत्रं विनियुज्य तस्याभिप्रायवर्णनं, ततः स्तावकार्यवादातिदेशसहितं वैकङ्कतसमिदाधानं विधाय तत्र मन्त्रं च विनियुज्य तस्य व्याख्यानं, ततः सार्थवादं कर्णकवत्यौदुम्बरसमिधो होमं विधाय तदभावे प्रतिनिधिं चाभिधाय मन्त्रं च विनियुज्य तस्य प्रशंसनं, समिद्धोमगतत्रित्वसंख्यायाः प्रशंसनं, समिद्धोमानन्तरमाज्याहुतीनां विधानं, तत्र धर्मविशेषमभिधाय मंत्रं च विधाय तस्य छन्दःप्रशंसनसहितं तात्पर्याभिधानं, तत्र द्वितीयामाहुतिं विश्वकर्मणे जुहुयादिति विधाय तत्र मंत्रं च विनियुज्य तस्य व्याख्यानम् ।
पूर्णाहुतिः-उक्ताहुतिद्वयहोमानन्तरं तृतीयां पूर्णाहुतिसंज्ञकामाहुतिमाज्यपूर्णया सुचा जुहुयादिति विधाय तत्र मन्त्रं च विनियुज्य तस्य व्याख्यानं, मन्त्रे पौनःपुन्येन समाम्नातः सप्तशब्दप्रयोगः कृत्स्नस्याग्नेस्तृप्तिहेतुर्भवतीत्यभिधानं, समिदाज्यहोमगतां त्रित्वसंख्यामादौ पृथक्पृथक्प्रशस्य ततस्तस्या एव संख्यायाः सम्भूय प्रशंसार्थं स्तावकार्थवादातिदेशकथनं, समिदाहुतीनामस्थिमांसात्मकत्वात्तत्सन्निवेशानुसारेण तास्तिष्ठन्नासीनो वा जुहुयादित्यभिधानं, अस्थिमांसानुसारेण समिधोऽन्तराऽऽज्याहुतयस्तु बाह्याः कर्तव्या इत्यभिधानं, प्रतिज्ञापूर्वकमस्याग्निप्रणयनात्मकस्य कर्मणः सम्पत्तेरुपपादनं, तत्र चोक्तप्रकारेणानुष्टुभः सम्पादनेनैतासामेकामनुष्टुभमत्राहृतवन्तो भवन्तीति सप्रयोजनं सार्थवादमभिधानं, उक्तार्थवेदनस्य प्रशंसनं, प्रकारान्तरेणापि गार्हपत्यादग्नेराहरणस्य प्रशंसनं चेत्यादि.