शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ७/ब्राह्मणम् ४

विकिस्रोतः तः
Jump to navigation Jump to search

८.७.४

अथ स्वयमातृण्णासु सामानि गायति । इमे वै लोकाः स्वयमातृण्णास्ता एताः शर्करास्ता देवा उपधायैतादृशीरेवापश्यन्यथैताः शुष्काः शर्कराः - ८.७.४.[१]

तेऽब्रुवन् । उप तज्जानीत यथैषु लोकेषु रसमुपजीवनं दधामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथैषु लोकेषु रसमुपजीवनं दधामेति - ८.७.४.[२]

ते चेतयमानाः । एतानि सामान्यपश्यंस्तान्यगायंस्तैरेषु लोकेषु रसमुपजीवनमदधुस्तथैवैतद्यजमानो यदेतानि सामानि गायत्येष्वेवैतल्लोकेषु रसमुपजीवनं दधाति - ८.७.४.[३]

स्वयमातृण्णासु गायति । इमे वै लोकाः स्वयमातृण्णा एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति - ८.७.४.[४]

स वै भूर्भुवः स्वरिति । एतासु व्याहृतिषु गायति भूरिति वा अयं लोको भुव इत्यन्तरिक्षलोकः स्वरित्यसौ लोक एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति - ८.७.४.[५]

तानि वै नानाप्रस्तावानि । समाननिधनानि तानि यन्नानाप्रस्तावानि नानाह्यपश्यन्नथ यत्समाननिधनान्येका ह्येव यज्ञस्य प्रतिष्ठैकं निधनं स्वर्ग एव लोकस्तस्मात्स्वर्ज्योतिर्निधनानि - ८.७.४.[६]

अथैनं हिरण्यशकलैः प्रोक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं रूपमुत्तमदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति - ८.७.४.[७]

यद्वेवैनं हिरण्यशकलैः प्रोक्षति । एतद्वा अस्मिन्नदोऽमूं पुरस्ताद्रम्यां तनूं मध्यतो दधाति रुक्मं च पुरुषं चाथैनमेतत्सर्वमेवोपरिष्टाद्रम्यया तन्वा प्रच्छादयति - ८.७.४.[८]

द्वाभ्यांद्वाभ्यां शताभ्याम् । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति पञ्च कृत्वः पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति - ८.७.४.[९]

पश्चादग्रे प्राङ्तिष्ठन् । अथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन परीत्य दक्षिणत उदङ्तिष्ठंस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङ्तिष्ठंस्तथो हास्यैतत्प्रागेव कर्म कृतं भवति - ८.७.४.[१०]

सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वेति
सर्वं वै सहस्रं सर्वमसि सर्वस्मै त्वेत्येतत् - ८.७.४.[११]

अथातश्चितिपुरीषाणामेव मीमांसा । अयमेव लोकः प्रथमा चितिः पशवः पुरीषं यत्प्रथमां चितिं पुरीषेण प्रच्छादयतीमं तल्लोकं पशुभिः प्रच्छादयति - ८.७.४.[१२]

अन्तरिक्षमेव द्वितीया चितिः । वयांसि पुरीषं यद्द्वितीयां चितिं पुरीषेण प्रच्छादयत्यन्तरिक्षं तद्वयोभिः प्रच्छादयति - ८.७.४.[१३]

द्यौरेव तृतीया चितिः । नक्षत्राणि पुरीषं यत्तृतीयां चितिं पुरीषेण प्रच्छादयति दिवं तन्नक्षत्रैः प्रच्छादयति - ८.७.४.[१४]

यज्ञ एव चतुर्थी चितिः । दक्षिणाः पुरीषं यच्चतुर्थी चितिं पुरीषेण प्रच्छादयति यज्ञं तद्दक्षिणाभिः प्रच्छादयति - ८.७.४.[१५]

यजमान एव पञ्चमी चितिः । प्रजा पुरीषं यत्पञ्चमीं चितिं पुरीषेण प्रच्छादयति यजमानं तत्प्रजया प्रच्छादयति - ८.७.४.[१६]

स्वर्ग एव लोकः षष्ठी चितिः । देवाः पुरीषं यत्षष्ठीं चितिं पुरीषेण प्रच्छादयति स्वर्गं तल्लोकं देवैः प्रच्छादयति - ८.७.४.[१७]

अमृतमेव सप्तमी चितिः तामुत्तमामुपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति तस्मादस्य सर्वस्यामृतमुत्तमं तस्माद्देवा अनन्तर्हितास्तस्मादु तेऽमृता इत्यधिदेवतम् - ८.७.४.[१८]

अथाध्यात्मम् । यैवेयं प्रतिष्ठा यश्चायमवाङ्प्राणस्तत्प्रथमा चितिर्मांसम्पुरीषं यत्प्रथमां चितिं पुरीषेण प्रच्छादयत्येतस्य तदात्मनो मांसैः संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति नाधस्तात्संच्छादयति तस्मादिमे प्राणा अधस्तादसंच्छन्ना उपरिष्टात्तु प्रच्छादयत्येतदस्य तदात्मन उपरिष्टान्मांसैः संच्छादयति तस्मादस्यैतदात्मन उपरिष्टान्मांसैः संच्छन्नं नावकाशते - ८.७.४.[१९]

यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात् । तद्द्वितीया चितिर्मांसं पुरीषं यद्द्वितीयां चितिं पुरीषेण प्रच्छादयत्येतदस्य तदात्मनो मांसैः संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति पुरीष उपदधाति पुरीषेण प्रच्छादयत्येतदस्य तदात्मन उभयतो मांसैः संच्छादयति तस्मादस्यैतदात्मन उभयतो मांसैः संच्छन्नं नावकाशते - ८.७.४.[२०]

मध्यमेव तृतीया चितिः । यदूर्ध्वं मध्यादवाचीनं ग्रीवाभ्यस्तच्चतुर्थी चितिर्ग्रीवा एव पञ्चमी चितिः शिर एव षष्ठी चितिः प्राणा एव सप्तमी चितिस्तामुत्तमामुपदधाति प्राणांस्तदस्य सर्वस्योत्तमान्दधाति तस्मादस्य सर्वस्य प्राणा उत्तमाः पुरीष उपदधाति मांसं वै पुरीषं मांसेन तत्प्राणान्प्रतिष्ठापयति नोपरिष्टात्प्रच्छादयति तस्मादिमे प्राणा उपरिष्टादसंच्छन्नाः - ८.७.४.[२१]