शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ७/ब्राह्मणम् २

विकिस्रोतः तः

८.७.२

अथ लोकम्पृणामुपदधाति । असौ वा आदित्यो लोकम्पृणैष हीमांल्लोकान्पूरयत्यमुमेवैतदादित्यमुपदधाति तां सर्वासु चितिषूपदधातीमेवै लोका एताश्चितयोऽमुं तदादित्यमेषु लोकेषु दधाति तस्मादेष सर्वेभ्य एवैभ्यो लोकेभ्यस्तपति - ८.७.२.१

यद्वेव लोकम्पृणामुपदधाति । क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः क्षत्रं तद्विश्यत्तारं दधाति तां सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं दधाति - ८.७.२.२

सैषैकैव भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोत्यथ या द्वितीया मिथुनं तदर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नताया एकेन यजुषा बह्वीरिष्टका उपदधाति क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यथेतराः पृथङ्नाना यजुर्भिरुपदधाति विशं तत्क्षत्रादवीर्यतरां करोति पृथग्वादिनीं नानाचेतसम् - ८.७.२.३

स वा अस्यां स्रक्त्यां प्रथमे उपदधाति । अमुं तदादित्यमेतस्यां दिशि दधात्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतोऽनुपर्यैत्यथातस्तस्मादतोऽनुपर्यैति - ८.७.२.४

स यद्यत्रैव प्रथमे उपदधाति । तदुत्तमे अनूपदध्यात्सकृद्धैवासावादित्य इमांल्लोकान्पर्येत्य नातिप्रच्यवेतातिहृत्य पूर्वे उत्तमे अनूपदधात्यमुं तदादित्यमिमांल्लोकानतिप्रच्यावयति तस्मादसावादित्य इमांल्लोकानसंस्थितो दक्षिणावृत्पुनः पुनरनुपर्यैति - ८.७.२.५

लोकं पृण च्छिद्रं पृणेति । लोकं च पूरय च्छिद्रं च पूरयेत्येतदथो सीद ध्रुवा त्वमित्यथो सीद स्थिरा त्वं प्रतिष्ठितेत्येतदिन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्नितीन्द्राग्नी च त्वा बृहस्पतिश्चास्मिन्योनौ प्रत्यतिष्ठिपन्नित्येतदनुष्टुभा वाग्वा अनुष्टुब्वागिन्द्र इन्द्रो लोकम्पृणा न सादयत्यसन्नो ह्येष सूददोहसा वदति प्राणो वै सूददोहाः प्राणेनैवैनमेतत्संतनोति संदधाति - ८.७.२.६

तदाहुः । कथमेषा लोकम्पृणाऽयातयाम्नी भवतीत्यसौ वा आदित्यो लोकम्पृणाऽयातयामा वा एषोऽथो वाग्वै लोकम्पृणाऽयातयाम्न्यु वै वाक् - ८.७.२.७

स वै यजुष्मतीरुपधाय । लोकम्पृणया प्रच्छादयत्यन्नं वै यजुष्मत्य इष्टका आत्मा लोकम्पृणान्नं तदात्मना परिदधाति तस्मादन्नमात्मना परिहितमात्मैव भवति - ८.७.२.८

स वा आत्मन्नेव । यजुष्मतीरुपदधाति न पक्षपुच्छेष्वात्मंस्तदन्नं दधाति यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ यत्पक्षपुच्छेषु नैव तदात्मानमवति न पक्षपुच्छानि - ८.७.२.९

उभयीर्यजुष्मतीश्च लोकम्पृणाश्चात्मन्नुपदधाति । तस्मादयमात्मा द्विगुणो बहुलतर इव लोकम्पृणा एव पक्षपुच्छेषु तस्मात्पक्षपुच्छानि तनीयांसीवानूचीश्च तिरश्चीश्चात्मन्नुपदधात्यस्थीनि वा इष्टकास्तस्मादिमान्यन्वञ्चि च तिर्यञ्चि चात्मन्नस्थीनि पराचीरेव पक्षपुच्छेषु न हि किं चन पक्षपुच्छेषु तिर्यगस्थ्यस्ति तद्धैतदेव चितस्य चाचितस्य च विज्ञानमेवमेव चित इतरथाऽचितः - ८.७.२.१०

स वै स्वयमातृण्णां लोकम्पृणया प्रच्छादयति । प्राणो वै स्वयमातृण्णादित्यो लोकम्पृणा प्राणं तदादित्येन समिन्द्धे तस्मादयमुष्णः प्राणस्तया सर्वमात्मानं प्रच्छादयति सर्वं तदात्मानमादित्येन समिन्द्धे तस्मादयं सर्व एवात्मोष्णस्तद्धैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानमुष्ण एव जीविष्यञ्छीतो मरिष्यन् - ८.७.२.११

स यस्यां स्रक्त्यां प्रथमे उपदधाति । ततो दशभिर्दशभिः संच्छादयन्नेत्या स्वयमातृण्णायै स तेनैव दक्षिणावृज्जघनेन स्वयमातृण्णां संच्छादयन्नेत्यानूक्याया अथ पुनरेत्य तमवधिं संच्छादयति - ८.७.२.१२

आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणं पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्राऽथो एवं वा असावादित्य इमांल्लोकान्दक्षिणावृदनुपर्यैति - ८.७.२.१३

स एष प्राण एव यल्लोकम्पृणा । तया सर्वमात्मानं प्रच्छादयति सर्वस्मिंस्तदात्मन्प्राणं दधाति तद्यद्धास्यैषाङ्गं नाभिप्राप्नुयात्प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वैतन्म्लायति वा तस्मादेनं सर्वमेवैतया प्रच्छादयेत् - ८.७.२.१४

स वा आत्मन एवाधि पक्षपुच्छानि चिनोति । आत्मनो ह्येवाध्यङ्गानि प्ररोहन्त्यथ
यत्पुरस्तादर्वाचीरुपदध्याद्यथान्यत आहृत्याङ्गं प्रतिदध्यात्तादृक्तत् - ८.७.२.१५

न भिन्नां न कृष्णामुपदध्यात् । आर्च्छति वा एषा या भिद्यत आर्तम्वेतद्रूपंयत्कृष्णं नेदार्तमात्मानमभिसंस्करवा इति नाभिन्नां परास्येन्नेदनार्तमात्मनो बहिर्द्धा करवाणीति धिष्ण्येभ्यः प्रतिसंख्याय या विराजमतिरिच्येरन्नोत्तरामुद्भवेयुस्तद्वै खलु ता आर्च्छन्ति ता भित्त्वोत्कर उत्किरेदुत्करो वा अतिरिक्तस्य प्रतिष्ठा तद्यत्रातिरिक्तस्य प्रतिष्ठा तदेवैना एतत्प्रतिष्ठापयति - ८.७.२.१६

अथात इष्टकामात्राणामेव । पादमात्रीः प्रथमायां चोत्तमायां च चित्योरुपदध्यात्प्रतिष्ठा वै पादो यो वै पादः स हस्त ऊर्वस्थमात्र्यो वर्षिष्ठाः स्युर्न ह्यूर्वस्थात्किं चन वर्षीयोऽस्थ्यस्ति त्र्यालिखितवत्यस्तिस्रश्चितयः स्युस्त्रिवृतो हीमे लोका अपरिमिताऽऽलिखिते द्वे रसो हैते चिती अपरिमित उ वै रसः सर्वास्त्वेव त्र्यालिखितवत्यः स्युः सर्वे ह्येवेमे लोकास्त्रिवृतः - ८.७.२.१७

अथात इष्टकानामेवावपनस्य । यां कां च यजुष्मतीमिष्टकां विद्यात्तां मध्यमायां चिता उपदध्यादन्तरिक्षं वै मध्यमा चितिरन्तरिक्षमु वै सर्वेषां भूतानामावपनमथो अन्नं वै यजुष्मत्य इष्टका उदरं मध्यमा चितिरुदरे तदन्नं दधाति - ८.७.२.१८

तदाहुः । नोपदध्यान्नेदतिरेचयानीति स वा उपैव दध्यात्कामेभ्यो वा एता इष्टका
उपधीयन्ते न वै कामानामतिरिक्तमस्ति स वै नैवोपदध्यादेतावद्वा एतद्देवा अकुर्वन् - ८.७.२.१९