शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ७/ब्राह्मणम् १

विकिस्रोतः तः
Jump to navigation Jump to search

८.७.१

ऋतव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति तदेतत्सर्वं यदृतव्याः संवत्सरो वा ऋतव्याः संवत्सर इदं सर्वमिदमेवैतत्सर्वमुपदधात्यथो प्रजननमेतत्संवत्सरो वा ऋतव्याः संवत्सरः प्रजननं प्रजननमेवैतदुपदधाति - ८.७.१.[१]

यद्वेवऽर्तव्या उपदधाति । क्षत्रं वा ऋतव्या विश इमा इतरा इष्टकाः क्षत्रं तद्विश्यत्तारं दधाति ताः सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं दधाति - ८.७.१.[२]

यद्वेवऽर्तव्या उपदधाति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः संवत्सरमेवैतदृतुभिः संतनोति संदधाति ता वै नानाप्रभृतयः समानोदर्का ऋतवो वा असृज्यन्त ते सृष्टा नानैवासन् - ८.७.१.[३]

तेऽब्रुवन् । न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुं रूपैः समायामेति त एकैकमृतुं रूपैः समायंस्तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूनां रूपं ता यन्नानाप्रभृतयो नाना ह्यसृज्यन्ताथ यत्समानोदर्का रूपैर्हि समायन् - ८.७.१.[४]

स उपदधाति । तपश्च तपस्यश्च शैशिरावृतू इति नामनी एनयोरेते नामभ्यामेवैने
एतदुपदधात्यसौ वा आदित्यस्तपस्तस्मादेतावृतू अनन्तर्हितौ तद्यदेतस्मादेतावृतू अनन्तर्हितौ तस्मादेतौ तपश्च तपस्यश्च - ८.७.१.[५]

अग्नेरन्तःश्लेषोऽसीति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः संवत्सरमेवैतदृतुभिः संतनोति संदधाति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधय इतीदमेवैतत्सर्वमृतुभिः कल्पयति कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रता इत्यग्नयो हैते पृथग्यदेता इष्टकास्ते यथाऽनयोर्ऋत्वोर्ज्यैष्ठ्याय कल्पेरन्नेवमेतदाह ये अग्नयः समनसोऽन्तरा द्यावापृथिवी इमे इति यथैव यजुस्तथा बन्धुः शैशिरावृतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्त्विति यथेन्द्रं देवा अभिसंविष्टा एवमिमावृतू ज्यैष्ठ्यायाभिसंविशन्त्वित्येतद्द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति - ८.७.१.[६]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य द्यौरेव पञ्चमी चितिर्द्यौरस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.७.१.[७]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य शिर एव पञ्चमी चितिः शिरोऽस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.७.१.[८]

स पुरस्तात्स्वयमातृण्णायै च विश्वज्योतिषश्चऽर्तव्ये उपदधाति । द्यौर्वा उत्तमा स्वयमातृण्णादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिवश्चादित्याच्चऽर्तून्दधाति तस्मादर्वाचीनमेवात ऋतवोऽथो प्रजननमेतदर्वाचीनं तद्दिवश्चादित्याश्च प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते स्थितं हैवातः पराक्प्रजननं यावन्तो ह्येव सनाग्रे देवास्तावन्तो देवाः - ८.७.१.[९]

अथ प्रथमायै स्वयमातृण्णायै प्रथमायै च विश्वज्योतिष उपरिष्टादृतव्ये उपदधाति । इयं वै प्रथमा स्वयमातृण्णाग्निः प्रथमा विश्वज्योतिस्तदूर्ध्वानृतून्दधाति तस्मादित ऊर्ध्वा ऋतवोऽथो प्रजननमेतदितस्तदूर्ध्वं प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते - ८.७.१.[१०]

ता न व्यूहेत् । नेदृतून्व्यूहानीति यो वै म्रियत ऋतवो ह तस्मै व्युह्यन्ते तस्माद्यत्रैव प्रथमे उपदधाति तत्सर्वा उपदध्यात् - ८.७.१.[११]

अथो इमे वै लोका ऋतव्याः । इमांस्तल्लोकानूर्ध्वांश्चितिभिश्चिनोत्यथो क्षत्रं वा ऋतव्याः क्षत्रं तदूर्ध्वं चितिभिश्चिनोत्यथो संवत्सरो वा ऋतव्याः संवत्सरं तदूर्ध्वं चितिभिश्चिनोति ता नान्यया यजुष्मत्येष्टकयोपरिष्टादभ्युपदध्यान्नेत्क्षत्रं विशाभ्युपदधानीति - ८.७.१.[१२]

ता हैता एव संयान्यः । एतद्वै देवा ऋतव्याभिरेवेमांल्लोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमान ऋतव्याभिरेवेमांल्लोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः - ८.७.१.[१३]

तदु ह चरकाध्वर्यवः । अन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव रेचयन्त्येता उ एव संयान्यः - ८.७.१.[१४]

अथ विश्वज्योतिषमुपदधाति । आदित्यो वा उत्तमा विश्वज्योतिरादित्यो ह्येवामुष्मिंलोके विश्वज्योतिरादित्यमेवैतदुपदधाति - ८.७.१.[१५]

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति - ८.७.१.[१६]

स पुरस्तात्स्वयमातृण्णायै विश्वज्योतिषमुपदधाति । द्यौर्वा उत्तमा स्वयमातृण्णादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिव आदित्यं दधाति तस्मादेषोऽर्वाचीनमेवातस्तपत्यथो प्रजननमेतदर्वाचीनं तद्दिवः प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते - ८.७.१.[१७]

अथ प्रथमायै स्वयमातृण्णायै । उपरिष्टाद्विश्वज्योतिषमुपदधातीयं वै प्रथमा स्वयमातृण्णाग्निः प्रथमा विश्वज्योतिरितस्तदूर्ध्वमग्निं दधाति तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽथो प्रजननमेतदितस्तदूर्ध्वं प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते - ८.७.१.[१८]

अथ मध्यमायै स्वयमातृण्णायै । उपरिष्टाद्विश्वज्योतिषमुपदधात्यन्तरिक्षं वै मध्यमा स्वयमातृण्णा वायुर्मध्यमा विश्वज्योतिरन्तरिक्षे तद्वायुं दधाति तस्मादयमन्तरिक्षे वायुः - ८.७.१.[१९]

तान्येतानि ज्योतींषि । तद्यदेता एवमुपदधात्येतान्येवैतज्ज्योतींषि सम्यञ्चि दधाति
तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽर्वाङ्सावादित्यस्तपत्यन्तरिक्षेऽयं तिर्यङ् वायुः पवते - ८.७.१.[२०]

परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यद्दिवस्पृष्ठे ज्योतिष्मतीमिति दिवो ह्यसौ पृष्ठे ज्योतिष्मानादित्यः - ८.७.१.[२१]

विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतत्सूर्यस्तेऽधिपतिरिति सूर्यमेवास्या अधिपतिं करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ८.७.१.[२२]

ता हैता एव संयान्यः । एतद्वै देवा विश्वज्योतिर्भिरेवेमांल्लोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो
विश्वज्योतिर्भिरेवेमांल्लोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः - ८.७.१.[२३]

तदु ह चरकाध्वर्यवः । अन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव रेचयन्त्येता उ एव संयान्यः - ८.७.१.[२४]