शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ४/ब्राह्मणम् ४

विकिस्रोतः तः

प्रतिज्ञापूर्वकं स्तोमेष्टकानां स्पृदिष्टकानां च क्रमदेशयोरभिधानम्

८.४.४

अथातोऽन्वावृतम् । त्रिवृद्वतीं पुरस्तादुपदधात्येकविंशवतीं पश्चात्पञ्चदशवतीं दक्षिणतः सप्तदशवतीमुत्तरतः - ८.४.४.१

एतद्वै प्रजापतिम् । त्रिवृद्वत्यामुपहितायां पञ्चदशवत्यां मृत्युरसीददिमामत उपधास्यते तमत्र ग्रहीष्यामीति तं प्रापश्यत्तं प्रख्याय परिक्रम्यैकविंशवतीमुपाधत्तैकविंशवतीं मृत्युरागच्छत्पञ्चदशवतीमुपाधत्त पञ्चदशवतीं मृत्युरागच्छत्सप्तदशवतीमुपाधत्त सोऽत्रैव मृत्युं न्यकरोदत्रामोहयत्तथैवैतद्यजमानोऽत्रैव सर्वान्पाप्मनो निकरोत्यत्र मोहयति - ८.४.४.२

अथोत्तराः । त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधात्येकविंशवत्यामेकविंशवतीं पञ्चदशवत्यां सप्तदशवतीं सप्तदशवत्यां पञ्चदशवतीं ता यदेवं व्यतिहारमुपदधाति तस्मादक्ष्णयास्तोमीया अथो यदेते स्तोमा अतोऽन्यथानुपूर्वं तस्माद्वेवाक्ष्णयास्तोमीया अथो एवं देवा उपादधतेतरथाऽसुरास्ततो देवा अभवन्परासुरा भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद - ८.४.४.३

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य त्रिवृद्वत्यावेव शिरस्ते यत्त्रिवृद्वत्यौ भवतस्त्रिवृद्धि शिरो द्वे भवतो द्विकपालं हि शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः - ८.४.४.४

प्रतिष्ठैकविंशवत्यौ । ते यदेकविंशवत्यौ भवतः प्रतिष्ठा ह्येकविंशो द्वे भवतो द्वन्द्वं हि प्रतिष्ठा पश्चादुपदधाति पश्चाद्धीयं प्रतिष्ठा - ८.४.४.५

बाहू पञ्चदशवत्यौ । ते यत्पञ्चदशवत्यौ भवतः पञ्चदशौ हि बाहू द्वे भवतो द्वौ हीमौ बाहू पार्श्वत उपदधाति पार्श्वतो हीमौ बाहू - ८.४.४.६

अन्नं सप्तदशवत्यौ । ते यत्सप्तदशवत्यौ भवतः सप्तदशं ह्यन्नं द्वे भवतो द्व्यक्षरं ह्यन्नं ते अनन्तर्हिते पञ्चदशवतीभ्यामुपदधात्यनन्तर्हितं तद्बाहुभ्यामन्नं दधाति बाह्ये पञ्चदशवत्यौ भवतोऽन्तरे सप्तदशवत्यौ बाहुभ्यां तदुभयतोऽन्नं परिगृह्णाति - ८.४.४.७

अथ या मध्य उपदधाति । स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्माऽथ यदतोऽन्यदतिरिक्तं तद्यद्वै देवानामतिरिक्तं छन्दांसि तानि तद्यानि तानि छन्दांसि पशवस्ते तद्ये ते पशवः पुण्यास्ता लक्ष्म्यस्तद्यास्ताः पुण्या लक्ष्म्योऽसौ स आदित्यः स आसामेष दक्षिणतः - ८.४.४.८

ता हैकेऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति । जिह्वा हनू इति वदन्तो याश्चतुर्दश ते हनू याः षट्सा जिह्वेति न तथा कुर्यादति ते रेचयन्ति यथा पूर्वयोर्हन्वोरपरे हनू अनूपदध्याद्यथा पूर्वस्यां जिह्वायामपरां जिह्वामनूपदध्यात्तादृक्तद्यत्राहैव शिरस्तदेव हनू तज्जिह्वा - ८.४.४.९

अस्मिन्नु हैकेऽवान्तरदेश उपदधति । असौ वा आदित्य एता अमुं तदादित्यमेतस्यां दिशि दध्म इति न तथा कुर्यादन्यानि वाव तानि कर्माणि यैरेतमत्र दधाति - ८.४.४.१०

दक्षिणत उ हैक उपदधति । तदेताः पुण्या लक्ष्मीर्दक्षिणतो दध्मह इति तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षत उत्तरत स्त्रिया उत्तरत आयतना हि स्त्री तत्तत्कृतमेव पुरस्तात्त्वेवैना उपदध्याद्यत्राहैव शिरस्तदेव हनू तज्जिह्वाऽथैताः पुण्या लक्ष्मीर्मुखतो धत्ते तस्माद्यस्य मुखे लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते - ८.४.४.११

सैषा ब्रह्मचितिः । यद्ब्रह्मोपादधत तस्माद्ब्रह्मचितिः सा प्रजापतिचितिर्यत्प्रजापतिमुपादधत तस्मात्प्रजापतिचितिः सऽर्षिचितिर्यदृषीनुपादधत तस्मादृषिचितिः सा वायुचितिर्यद्वायुमुपादधत तस्माद्वायुचितिः सा स्तोमचितिर्यत्स्तोमानुपादधत तस्मात्स्तोमचितिः सा प्राणचितिर्यत्प्राणानुपादधत तस्मात्प्राणचितिरतो यतमदेव कतमच्च विद्यात्तेन हैवास्यैषाऽऽर्षेयवती बन्धुमती चितिर्भवत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः - ८.४.४.१२

इत्याहवनीयचित्यां पञ्चचितिकायां चतुर्थी चितिः