शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ४/ब्राह्मणम् १

विकिस्रोतः तः

८.४.१ अष्टादशस्तोमेष्टकोपधानम्

चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन् - ८.४.१.१

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना एतां चतुर्थीं चितिमपश्यन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तेषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत् - ८.४.१.२

ते ब्रह्माब्रुवन् । त्वामिहोपदधामहा इति किं मे ततो भविष्यतीति त्वमेव नः श्रेष्ठं भविष्यसीति तथेति तेऽत्र ब्रह्मोपादधत तस्मादाहुर्ब्रह्मैव देवानां श्रेष्ठमिति तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे ब्रह्मवै चतुर्थी चितिस्तस्मादाहुर्ब्रह्मणा द्यावापृथिवी विष्टब्धे इति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधाति - ८.४.१.३

यद्वेव स्तोमानुपदधाति । एतद्वै देवाः प्रजापतिमब्रुवंस्त्वामिहोपदधामहा इति तथेति स वै नाब्रवीत्किं मे ततो भविष्यतीति यदु ह किं च प्रजापतिर्देवेष्वीषे किमस्माकं ततो भविष्यतीत्येवोचुस्तस्मादु हैतद्यत्पिता पुत्रेष्विच्छते किमस्माकं ततो भविष्यतीत्येवाहुरथ यत्पुत्राः पितरि तथेत्येवाहैवं हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति - ८.४.१.४

यद्वेव स्तोमानुपदधाति । ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति - ८.४.१.५

यद्वेव स्तोमानुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य वायुरादायोत्क्रम्यातिष्ठद्देवताश्च भूत्वा संवत्सररूपाणि च - ८.४.१.६

तमब्रवीत् । उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतद्वायुः प्रत्यदधात् - ८.४.१.७

तद्या एता अष्टादश प्रथमाः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै वायुर्वायुमेवैतदुपदधाति - ८.४.१.८

स पुरस्तादुपदधाति । आशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तं तदुपदधाति तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽथो वायुर्वा आशुस्त्रिवृत्स एषु त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति - ८.४.१.९

भान्तः पञ्चदश इति । य एव पञ्चदश स्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति - ८.४.१.१०

व्योमा सप्तदश इति । य एव सप्तदश स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वाव व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चऽर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति - ८.४.१.११

धरुण एकविंश इति । य एवैकविंश स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा आदित्यो धरुण एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ संवत्सररूपाण्युपदधाति - ८.४.१.१२

प्रतूर्तिरष्टादश इति । य एवाष्टादश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चऽर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधाति - ८.४.१.१३

तपो नवदश इति । य एव नवदश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपदधाति - ८.४.१.१४

अभीवर्तः सविंश इति । य एव सविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वा अभीवर्तः सविंशस्तस्य द्वादश मासाः सप्तऽर्तवः संवत्सर एवाभीवर्तः सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव तद्रूपमुपदधाति - ८.४.१.१५

वर्चो द्वाविंश इति । य एव द्वाविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव वर्चो द्वाविंशस्तस्य द्वादश मासाः सप्तऽर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वाविंशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमस्तदेव तद्रूपमुपदधाति - ८.४.१.१६

सम्भरणस्त्रयोविंश इति। य एव त्रयोविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव सम्भरणस्त्रयोविंशस्तस्य त्रयोदश मासा सप्तऽर्तवो द्वे अहोरात्रे संवत्सर एव सम्भरणस्त्रयोविंशस्तद्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि सम्भृतस्तदेव तद्रूपमुपदधाति - ८.४.१.१७

योनिश्चतुर्विंश इति । य एव चतुर्विंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव योनिश्चतुर्विंशस्तस्य चतुर्विंशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिस्तदेव तद्रूपमुपदधाति - ८.४.१.१८

गर्भाः पञ्चविंश इति । य एव पञ्चविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव गर्भाः पञ्चविंशस्तस्य चतुर्विंशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविंशस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वऽर्तून्प्रविशति तदेव तद्रूपमुपदधाति - ८.४.१.१९

ओजस्त्रिणव इति । य एव त्रिणव स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति वज्रो वा ओजो वज्रस्त्रिणवोऽथो संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोजस्वितमस्तदेव तद्रूपमुपदधाति - ८.४.१.२०

क्रतुरेकत्रिंश इति । य एवैकत्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षडृतवः संवत्सर एव क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव तद्रूपमुपदधाति - ८.४.१.२१

प्रतिष्ठा त्रयस्त्रिंश इति । य एव त्रयस्त्रिंश स्तोमस्तं तदुपदधाति तद्यत्तमाह प्रतिष्ठेति प्रतिष्ठा हि त्रयस्त्रिंशोऽथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षडृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति - ८.४.१.२२

ब्रध्नस्य विष्टपं चतुस्त्रिंश इति । य एव चतुस्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः सप्तऽर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्यं चतुस्त्रिंशस्तदेव तद्रूपमुपदधाति - ८.४.१.२३

नाकः षट्त्रिंश इति । य एव षट्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिंशस्तस्य चतुर्विंशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्मै चनाकं भवत्यथो संवत्सरो वाव नाकः संवत्सरः स्वर्गो लोकस्तदेव तद्रूपमुपदधाति - ८.४.१.२४

विवर्तोऽष्टाचत्वारिंश इति । य एवाष्टाचत्वरिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तोऽष्टाचत्वारिंशस्तस्य षड्विंशतिरर्धमासास्त्रयोदश मासाः सप्तऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेव तद्रूपमुपदधाति - ८.४.१.२५

धर्त्रं चतुष्टोम इति । य एव चतुष्टोम स्तोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्रं चतुष्टोमः स आभिश्चतसृभिर्दिग्भि स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति - ८.४.१.२६

ता वा एताः । अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृतौ प्राणो वै त्रिवृद्वायुरु प्राणो
वायुरेषा चितिः - ८.४.१.२७

यद्वेवाष्टादश । अष्टादशो वै संवत्सरो द्वादश मासाः पञ्चऽर्तवः संवत्सर एव प्रजापतिरष्टादशः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तत्कृत्वोपदधाति - ८.४.१.२८