शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

८.२.३ पञ्चप्राणभृदिष्टकोपधानम्

अथ प्राणभृत उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वायुमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ८.२.३.१

प्राणभृत उपदधाति । प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वायुं दधाति तस्मादनयोर्वायुः सर्वत उपदधाति सर्वतस्तद्वायुं दधाति तस्मात्सर्वतो वायुः सर्वतः समीचीः सर्वतस्तत्सम्यञ्चं वायुं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वाति दिश्या अनूपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः - ८.२.३.२

यद्वेव प्राणभृत उपदधाति । आस्वेवैतत्प्रजासु प्राणान्दधाति ता अनन्तर्हिता वैश्वदेवीभ्य उपदधात्यनन्तर्हितांस्तत्प्रजाभ्यः प्राणान्दधाति प्राणं मे पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्म उर्व्या विभाहि श्रोत्रं मे श्लोकयेत्येतानेवास्वेतत्कॢप्तान्प्राणान्दधाति - ८.२.३.३

अथापस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ८.२.३.४

अपस्या उपदधाति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वृष्टिं दधाति तस्मादनयोर्वर्षति सर्वत उपदधाति सर्वतस्तद्वृष्टिं दधाति तस्मात्सर्वतो वर्षति सर्वतः समीचीः सर्वतस्तत्समीचीं वृष्टिं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वर्षति वायव्या अनूपदधाति वायौ तद्वृष्टिं दधाति तस्माद्यां दिशं वायुरेति तां दिशं वृष्टिरन्वेति - ८.२.३.५

यद्वेवापस्या उपदधाति । एष्वेवैतत्प्राणेष्वपो दधाति ता अनन्तर्हिताः प्राणभृद्भ्य उपदधात्यनन्तर्हितास्तत्प्राणेभ्योऽपो दधात्यथो अन्नं वा आपोऽनन्तर्हितं तत्प्राणेभ्योऽन्नं दधात्यपः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात्पाहि दिवो वृष्टिमेरयेत्येता एवैष्वेतत्कॢप्ता अपो दधाति - ८.२.३.६

अथ च्छन्दस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमानाः पशूनेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ८.२.३.७

छन्दस्या उपदधाति । पशवो वै छन्दांसि पशूनेवास्मिन्नेतद्दधाति सर्वत उपदधाति सर्वतस्तत्पशून्दधाति तस्मात्सर्वतः पशवोऽपस्या अनूपदधात्यप्सु तत्पशून्प्रतिष्ठापयति तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्ति - ८.२.३.८

यद्वेव च्छन्दस्या उपदधाति । प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्छन्दांसि भूत्वा तान्गायत्री छन्दो भूत्वा वयसाऽऽप्नोत्तद्यद्गायत्र्याऽऽप्नोदेतद्धि छन्द आशिष्ठं सा तद्भूत्वा प्रजापतिरेतान्पशून्वयसाऽऽप्नोत् - ८.२.३.९

मूर्धा वय इति । प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव च्छन्दोऽभवत् - ८.२.३.१०

क्षत्रं वय इति । प्रजापतिर्वै क्षत्रं स वयोऽभवन्मयन्दं छन्द इति यद्वा अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव च्छन्दोऽभवत् - ८.२.३.११

विष्टम्भो वय इति । प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव च्छन्दोऽभवत् - ८.२.३.१२

विश्वकर्मा वय इति । प्रजापतिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत् - ८.२.३.१३

तानि वा एतानि । चत्वारि वयांसि चत्वारि च्छन्दांसि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाऽऽप्नोत्तस्माज्जीर्णं पशुं वयसाऽऽप्त इत्याचक्षते तस्मादु सर्वास्वेव वयो वय इत्यनुवर्ततेऽथ येऽस्मात्ते पशव उदक्रामन्नेते ते पञ्चदशोत्तरे वज्रो वै पशवो वज्रः पञ्चदशस्तस्माद्यस्य पशवो भवन्त्यपैव स पाप्मानं हते वज्रो हैव तस्य पाप्मानमपहन्ति तस्माद्यां कां च दिशं पशुमानेति वज्रविहितां हैव तामन्वेति - ८.२.३.१४