सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २

विकिस्रोतः तः

द्वितीया चितिः

ब्राह्मणम् १

१ द्वितीया चितिः-तत्र प्रथमं द्वितीयस्याश्चितेरुपधानं विधाय तदीयप्रयोजनस्य प्रथमचितिप्रयोजनप्रतिपादनपूर्वकमुपपादनम्, तत्राश्विनीनां प्रथममुपधानं विधातुमुपोद्घातकथनम् , एवमुपोद्घातत्वेन द्वितीयचित्युपधानेऽश्वि. कर्तृत्व प्रतिपाद्यापोद्घातिकमाश्विनीनामुपधानं विधाय तत्र मन्त्रचतुष्टयं विनियुज्य तेषां पादशोऽनूद्य व्याख्यानम् , एतासां चतसृणामिष्टकानां संभूय प्रशंसनम्, तासामुपधाने स्थानविशेषं गुणान्तरं च विधाय तयोः प्रशंसनम् , उपधानसादनसूददोहसाधिवदनानां नानात्वं विधाय तत्प्रशंसनम्, मध्ये उपधेयाया आश्विन्याः सार्थवादं विधानम् , विहित उपधाने मन्त्रं विनियुज्य तस्य व्याख्यानम् , एतासामाश्विनीनामात्मभाग उपधानस्यानुवाद पुरःसरमाख्यायिकया प्रतिपादनम् प्रजापत्यवयवसन्धानरूपेऽर्थे मन्त्राणामपि सामर्थ्यमस्तीति प्रतिपाद्य स्थानविशेषस्य सर्वत उपधानस्य चाप्येतदर्थानुगुणत्वस्य सकारणमाविष्करणम् , ऋतव्येष्टकोपधानम्--तत्र पूर्वं मंत्रतदर्थविवरणोपेतं सार्थवादमृतव्ययोरिष्टकयोरुपधानं विधाय तद्विधिसिद्धं द्वित्वमनूद्य तस्य प्रशंसनम् , इष्टकयोर्द्वित्वात्पृथक्सादनप्राप्तौ सकृत्सादनत्वाभिधानम्, ऋतव्ययोर्द्वितीयचितावुपधानस्य प्रशंसनम् , अग्नेः संवत्सररूपस्य लोकत्रयात्मकत्वकल्पनायाः प्रयोजनं प्रतिपाद्य पुनः प्रकारान्तरेण प्रशंसनं चेत्यादि.


ब्राह्मणम् २ पञ्च वैश्वदेवेष्टकोपधानम्

२ पञ्चवैश्वदेवेष्टकोपधानम्—तत्रादौ वैश्वदेवीनामुपधानं विधाय तस्याख्यायिकया प्रशंसनम् , वैश्वदेवीनामुपधानं प्रकारान्तरेण प्रशंस्य तासामुपधाने स्थानस्य सविशेषं सार्थवादमभिधानं तत्राप्याश्विनीनामानन्तर्याभिधानं च, पुनः प्रकारान्तरेण वैश्वदेवीनामुपधानप्रशंसनम्, आसां पञ्चानां वैश्वदेवीनामुपधाने मन्त्रान्विधातुमुपोद्घातकथनम् , अनुषञ्जप्रकारसहितान्मन्त्रान्विधाय तेषां व्याख्यानं, कृत्स्नमन्त्राणां मध्यमभागस्य नानारूपत्वस्य सार्थवादं निरूपणं चेति.


ब्राह्मणम् ३ पञ्च प्राणभृदिष्टकोपधानम्

३ पञ्चप्राणभृदिष्टकोपधानम्--तत्र प्राणभृदिष्टकानामुपधानं विधाय तत्प्रशंसनं, तासां स्थानस्य सविशेषमभिधानं, तासामुपधाने गुणविशेषकथनं, सार्थवादं दिश्यानन्तर्याभिधानं, प्रकारान्तरेण प्राणभृतः प्रशंस्य तासामुपधानमन्त्रान्विनियुज्य संगृह्य तत्तात्पर्याभिधानं, अपस्येष्टकोपधानम्--तत्रापस्यानामुपधानं सार्थवादं विधायासां प्राणभृद्भ्यो व्यवधानाभावस्य सप्रयोजनं प्रतिपादनम्, अपस्यानामुपधानमन्त्रान्विनियुज्य संगृह्य तत्तात्पर्याभिधानं,
एकोनविंशतिवयस्येष्टकोपधानम् --तत्र छन्दस्येष्टकानामुपधानं सार्थवादं विधायासां पूर्ववत्सर्वत उपधानमपस्यानांसान्निध्यं च विधाय ततयोः प्रशंसनं, छन्दस्यानां पशुरूपत्वेन या स्तुतिः कृता पुनस्तस्या एव ज्येष्ठत्वप्रदर्शनम् , इत्थमिष्टकानां पशुरूपतामुपपाद्याथ पूर्वदिश्युपधेयानां चतसृणामिष्टकानां मन्त्रान्विधाय व्याख्याय चार्थान्निष्पन्नं गायत्रीरूपमिष्टमिति प्रदर्शनं, गायत्रीछन्दः-सम्पत्तिं प्रदर्श्य या प्रजापतेर्वयस आप्तिरुक्ता सेदानीन्तनव्यवहारस्य मूलमिति प्रदर्शनम्, आप्तव्यानां पशूनां स्वरूपं सामान्येन निर्दिश्य पशूनां तद्गतसंख्यायाश्च प्रशंसनं, युक्तिभिरुपपादितस्यार्थस्य लोकस्थित्या दृढीकरणं चेत्यादि.


ब्राह्मणम् ४

४ " पञ्चदशोत्तरे " इति ये पशवः संग्रहेण निर्दिष्टास्तेषामिदानीं दक्षिणोत्तरपश्चिमदिक्षु क्रमेणोपधेयेष्टकामन्त्रव्याख्यानप्रसङ्गेन दर्शनं, सर्वेषु मन्त्रेषु निरुक्तं यत्पशुवयश्छन्दसां पौर्वापर्यमभिहितं तस्य प्रशंसनम् , इष्टकानां पश्वात्मना स्तुतेः प्रयोजनाभिधानं, सोपपत्तिकं शिरआदिरूपोपधानक्रमनिरूपणं, अविभागेन विहितानां पश्वात्मिकानामिष्टकानां यथोचितं मध्याद्यङ्गेषु विभज्य विनियोगप्रतिपादनं तत्रापि विशेषाभिधानं च, शिरःपुच्छयोरणुतरत्वस्य सोपपत्तिकमभिधानं, स्तावकार्थवादातिदेशसहितं लोकम्पृणेष्टकयोः स्थानविशेषे उपधानविधानं, स्तावकार्थवादातिदेशसहितं पुरीषनिवपनविधानं चेत्यादि.