शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ३/प्रथमं ब्राह्मणम्

विकिस्रोतः तः
७.३.१ सोमक्रयणम्


चितो गार्हपत्यो भवति । अचित आहवनीयोऽथ राजानं क्रीणात्ययं वै लोको गार्हपत्यो द्यौराहवनीयोऽथ योऽयं वायुः पवत एष सोम एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण पवते - ७.३.१.१

यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः सोम आत्मंस्तत्प्राणं मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः - ७.३.१.२

यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्नी रसः सोम आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तः - ७.३.१.३

राजानं क्रीत्वा पर्युह्य । अथास्मा आतिथ्यं हविर्निर्वपति तस्य हविष्कृता वाचं विसृजतेऽथ वा एतद्व्यतिषजत्यध्वरकर्म चाग्निकर्म च कर्मणः समानतायै समानमिदं कर्मासदिति - ७.३.१.४

यद्वेव व्यतिषजति । आत्मा वा अग्निः प्राणोऽध्वर आत्मंस्तत्प्राणं मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः - ७.३.१.५

यद्वेव व्यतिषजति । आत्मा वा अग्नी रसोऽध्वर आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तोऽथाहवनीयस्यार्धमैति - ७.३.१.६

तद्धैके । उभयत्रैव पलाशशाखया व्युदूहन्त्युभयत्र वै चिनोतीति न तथा कुर्यादवस्यति वाव गार्हपत्येनोर्ध्व एवाहवनीयेन रोहति तस्मात्तथा न कुर्यात् - ७.३.१.७

अथ गार्हपत्य एवोषान्निवपति । नाहवनीयेऽयं वै लोको गार्हपत्यः पशव ऊषा अस्मिंस्तल्लोके पशून्दधाति तस्मादिमेऽस्मिंलोके पशवः - ७.३.१.८

अथाहवनीय एव पुष्करपर्णमुपदधाति । न गार्हपत्य आपो वै पुष्करपर्णं द्यौराहवनीयो दिवि तदपो दधात्युभयत्र सिकता निवपति रेतो वै सिकता उभयत्र वै विक्रियते तस्माद्रेतसोऽधि विक्रियाता इति - ७.३.१.९

ता नाना मन्त्राभ्यां निवपति । मनुष्यलोको वै गार्हपत्यो देवलोक आहवनीयो नानो वा एतद्यद्दैवं च मानुषं च द्राघीयसा मन्त्रेणाहवनीये निवपति ह्रसीयसा गार्हपत्ये द्राघीयो हि देवायुषं ह्रसीयो मनुष्यायुषं स पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति रेतो वै सिकता अस्माद्रेतसोऽधीमा विक्रियान्ता इति - ७.३.१.१०

तदाहुः । यद्योनिः परिश्रितो रेतः सिकता अथ पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति कथमस्यैतद्रेतोऽपरासिक्तं परिगृहीतं भवतीत्युल्बं वा ऊषास्तद्यदूषान्पूर्वान्निवपत्येतेनो हास्यैतदुल्बेन रेतोऽपरासिक्तं परिगृहीतम्भवत्यथाहवनीये परिश्रितोऽभिमन्त्रयते तस्योक्तो बन्धुरथ सिकता निवपति रेतो वै सिकता एतयो अस्यैतद्योन्या रेतोऽपरासिक्तं परिगृहीतं भवति - ७.३.१.११

अथाहवनीय एवाप्यानवतीभ्यामभिमृशति । न गार्हपत्येऽयं वै लोको गार्हपत्यः स्वर्गो लोक आहवनीयोऽद्धो वा अयमस्मिंलोके जातो यजमानः स्वर्ग एव लोके प्रजिजनयिषितव्यस्तद्यदाहवनीय एवाप्यानवतीभ्यामभिमृशति न गार्हपत्ये स्वर्ग एवैनं तल्लोके प्रजनयति - ७.३.१.१२

लोगेष्टकोपधानम्

अथ लोगेष्टका उपदधाति । इमे वै लोका एषोऽग्निर्दिशो लोगेष्टका एषु तल्लोकेषु दिशो दधाति तस्मादिमा एषु लोकेषु दिशः - ७.३.१.१३

बाह्येनाग्निमाहरति । आप्ता वा अस्य ता दिशो या एषु लोकेष्वथ या इमांल्लोकान्परेण दिशस्ता अस्मिन्नेतद्दधाति - ७.३.१.१४

बहिर्वेदेरियं वै वेदिः । आप्ता वा अस्य ता दिशो या अस्यामथ या इमां परेण दिशस्ता अस्मिन्नेतद्दधाति - ७.३.१.१५

यद्वेव लोगेष्टका उपदधाति । प्रजापतेर्विस्रस्तस्य सर्वा दिशो रसोऽनु व्यक्षरत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेताभिर्लोगेष्टकाभिस्तं रसमदधुस्तथैवास्मिन्नयमेतद्दधाति - ७.३.१.१६

बाह्येनाग्निमाहरति । आप्तो वा अस्य स रसो य एषु लोकेष्वथ य इमांल्लोकान्पराङ्रसोऽत्यक्षरत्तमस्मिन्नेतद्दधाति - ७.३.१.१७

बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स रसो योऽस्यामथ य इमां पराङ्रसोऽत्यक्षरत्तमस्मिन्नेतद्दधाति - ७.३.१.१८

स्फ्येनाहरति । वज्रो वै स्फ्यो वीर्यं वै वज्रो वित्तिरियं वीर्येण वै वित्तिं विन्दते - ७.३.१.१९

स पुरस्तादाहरति । मा मा हिंसीज्जनिता यः पृथिव्या इति प्रजापतिर्वै पृथिव्यै जनिता मा मा हिंसीत्प्रजापतिरित्येतद्यो वा दिवं सत्यधर्मा व्यानडिति यो वा दिवं
सत्यधर्माऽसृजतेत्येतद्यश्चापश्चन्द्राः प्रथमो जजानेति मनुष्या वा आपश्चन्द्रा यो मनुष्यान्प्रथमोऽसृजतेत्येतत्कस्मै देवाय हविषा विधेमेति प्रजापतिर्वै कस्तस्मै हविषा विधेमेत्येतत्तामाहृत्यान्तरेण परिश्रित आत्मन्नुपदधाति स यः प्राच्यां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्राचीमेवास्मिन्नेतद्दिशं दधाति - ७.३.१.२०

अथ दक्षिणतः । अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सहेति यथैव यजुस्तथा बन्धुर्वपां ते अग्निरिषितो अरोहदिति यद्वै किं चास्यां सास्यै वपा तामग्निरिषित उपादीप्तो रोहति तामाहृत्यान्तरेण पक्षसंधिमात्मन्नुपदधाति स यो दक्षिणायां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो दक्षिणामेवास्मिन्नेतद्दिशं दधाति - ७.३.१.२१

अथ पश्चात् । अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियमितीयं वा अग्निरस्यै तदाह तद्देवेभ्यो भरामसीति तदस्मै दैवाय कर्मणे हराम इत्येतत्तामाहृत्यान्तरेण पुच्छसंधिमात्मन्नुपदधाति स यः प्रतीच्यां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्रतीचीमेवास्मिन्नेतद्दिशं दधाति स न सम्प्रति पश्चादाहरेन्नेद्यज्ञपथाद्रसमाहराणीतीत इवाहरति - ७.३.१.२२

अथोत्तरतः । इषमूर्जमहमित आदमितीषमूर्जमहमित आदद इत्येतदृतस्य योनिमिति सत्यं वा ऋतं सत्यस्य योनिमित्येतन्महिषस्य धारामित्यग्निर्वै महिषः स हीदं जातो महान्त्सर्वमैष्णादा मा गोषु विशत्वा तनूष्वित्यात्मा वै तनूरा मा गोषु चात्मनि च विशत्वित्येतज्जहामि सेदिमनिराममीवामिति सिकताः प्रध्वंसयति तद्यैव सेदिर्यानिरा यामीवा तामेतस्यां दिशि दधाति तस्मादेतस्यां दिशि प्रजा अशनायुकास्तामाहृत्यान्तरेण पक्षसंधिमात्मन्नुपदधाति स य उदीच्यां दिशि रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो उदीचीमेवास्मिन्नेतद्दिशं दधाति - ७.३.१.२३

ता एता दिशः । ताः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशस्तिष्ठन्नुपदधाति तिष्ठन्तीव हि दिशोऽथो तिष्ठन्वै वीर्यवत्तरः - ७.३.१.२४

ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति न पक्षपुच्छेष्वात्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुच्छेषु - ७.३.१.२५

तदाहुः । कथमस्यैताः पक्वाः शृता उपहिता भवन्तीति रसो वा एताः स्वयंशृत उ वै रसोऽथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं शृतमुपहितं भवति - ७.३.१.२६

अथोत्तरवेदिं निवपति । इयं वै वेदिर्द्यौरुत्तरवेदिर्दिशो लोगेष्टकास्तद्यदन्तरेण वेदिं चोत्तरवेदिं च लोगेष्टका उपदधातीमौ तल्लोकावन्तरेण दिशो दधाति तस्मादिमौ लोकावन्तरेण दिशस्तां युगमात्रीं वा सर्वतः करोति चत्वारिंशत्पदां वा यतरथा कामयेताथ सिकता निवपति तस्योक्तो बन्धुः - ७.३.१.२७

ता उत्तरवेदौ निवपति । योनिर्वा उत्तरवेदिर्योनौ तद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु भवति ताभिः सर्वमात्मानं प्रच्छादयति सर्वस्मिंस्तदात्मन्रेतो दधाति तस्मात्सर्वस्मादेवात्मनो रेतः सम्भवति - ७.३.१.२८

अग्ने तव श्रवो वय इति । धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंलोके श्रावयति महि भ्राजन्ते अर्चयो विभावसविति महतो भ्राजन्तेऽर्चयः प्रभूवसवित्येतद्बृहद्भानो शवसा वाजमुक्थ्यमिति बलं वै शवो बृहद्भानो बलेनान्नमुक्थ्यमित्येतद्दधासि दाशुषे कव इति यजमानो वै दाश्वान्दधासि यजमानाय कव इत्येतत् - ७.३.१.२९

[१]पावकवर्चाः शुक्रवर्चा इति । पावकवर्चा ह्येष शुक्रवर्चा अनूनवर्चा उदियर्षि भानुनेत्यनूनवर्चा उद्दीप्यसे भानुनेत्येतत्पुत्रो मातरा विचरन्नुपावसीति पुत्रो ह्येष मातरा विचरन्नुपावति पृणक्षि रोदसी उभे इतीमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम् - ७.३.१.३०

ऊर्जो नपाज्जातवेदः सुशस्तिभिरिति । ऊर्जो नपाज्जातवेदः सुष्टुतिभिरित्येतन्मन्दस्व धीतिभिर्हित इति दीप्यस्व धीतिभिर्हित इत्येतत्त्वे इषः संदधुर्भूरिवर्पस इति त्वे इषः संदधुर्बहुवर्पस इत्येतच्चित्रोतयो वामजाता इति यथैव यजुस्तथा बन्धुः - ७.३.१.३१

इरज्यन्नग्ने प्रथयस्व जन्तुभिरिति । मनुष्या वै जन्तवो दीप्यमानोऽग्ने प्रथस्व मनुष्यैरित्येतदस्मे रायो अमर्त्येत्यस्मे रयिं दधदमर्त्येत्येतत्स दर्शतस्य वपुषो विराजसीति दर्शतस्य ह्येष वपुषो विराजति पृणक्षि सानसिं क्रतुमिति पृणक्षि सनातनं क्रतुमित्येतत् - ७.३.१.३२

इष्कर्तारमध्वरस्य प्रचेतसमिति । अध्वरो वै यज्ञः प्रकल्पयितारं यज्ञस्य प्रचेतसमित्येतत्क्षयन्तं राधसो मह इति क्षयन्तं राधसि महतीत्येतद्रातिं वामस्य सुभगां महीमिषमिति रातिं वामस्य सुभगाम्महतीमिषमित्येतद्दधासि सानसिं रयिमिति दधासि सनातनं रयिमित्येतत् - ७.३.१.३३

ऋतावानमिति । सत्यावानमित्येतन्महिषमित्यग्निर्वै महिषो विश्वदर्शतमिति विश्वदर्शतो ह्येषोऽग्निं सुम्नाय दधिरे पुरो जना इति यज्ञो वै सुम्नं यज्ञाय वा एतं पुरो दधते श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगेत्याशृण्वन्तं सप्रथस्तमं त्वा गिरा देवं मनुष्या हवामह इत्येतत् - ७.३.१.३४

स एषोऽग्निरेव वैश्वानरः । एतत्षडृचमारम्भायैवेमाः सिकता न्युप्यन्तेऽग्निमेवास्मिन्नेतद्वैश्वानरं रेतो भूतं सिञ्चति षडृचेन षडृतवः संवत्सरः संवत्सरो वैश्वानरः - ७.३.१.३५

तदाहुः । यद्रेतः सिकता उच्यन्ते किमासां रेतो रूपमिति शुक्ला इति ब्रूयाच्छुक्लं हि रेतोऽथो पृश्नय इति पृश्नीव हि रेतः - ७.३.१.३६

तदाहुः । यदार्द्रं रेतः शुष्काः सिकता निवपति कथमस्यैता आर्द्रा रेतोरूपम्भवन्तीति रसो वै छन्दांस्यार्द्र उ वै रसस्तद्यदेनाश्छन्दोभिर्निवपत्येवमु हास्यैता आर्द्रा रेतोरूपं भवन्ति - ७.३.१.३७

तदाहुः । कथमस्यैता अहोरात्राभ्यामुपहिता भवन्तीति द्वे वा अहोरात्रे शुक्लं च कृष्णं च द्वे सिकते शुक्ला च कृष्णा चैवमु हास्यैता अहोरात्राभ्यामुपहिता भवन्ति - ७.३.१.३८

तदाहुः । कथमस्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्तीत्यनन्तानि वा अहोरात्राण्यनन्ताः सिकता एवमु हास्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्त्यथ कस्मात्समुद्रियं च्छन्द इत्यनन्तो वै समुद्रोऽनन्ताः सिकतास्तत्समुद्रियं छन्दः - ७.३.१.३९

तदाहुः । कथमस्यैताः पृथङ्नाना यजुर्भिरुपहिता भवन्तीति मनो वै यजुस्तदिदं मनो यजुः सर्वाः सिकता अनुविभवत्येवमु हास्यैताः पृथङ्नाना यजुर्भिरुपहिता भवन्ति - ७.३.१.४०

तदाहुः । कथमस्यैताः सर्वैश्छन्दोभिरुपहिता भवन्तीति यदेवैना एतेन षडृचेन निवपति यावन्ति हि सप्तानां च्छन्दसामक्षराणि तावन्त्येतस्य षडृचस्याक्षराण्येवमु हास्यैताः सर्वैश्छन्दोभिरुपहिता भवन्ति - ७.३.१.४१

यद्वेव सिकता निवपति । प्रजापतिरेषोऽग्निः सर्वमु ब्रह्म प्रजापतिस्तद्धैतद्ब्रह्मण उत्सन्नं यत्सिकता अथ यदनुत्सन्नमिदं तद्योऽयमग्निश्चीयते तद्यत्सिकता निवपति यदेव तद्ब्रह्मण उत्सन्नं तदस्मिन्नेतत्प्रतिदधाति ता असंख्याता अपरिमिता निवपति को हि तद्वेद यावत्तद्ब्रह्मण उत्सन्नं स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वान्त्सिकता निवपति - ७.३.१.४२

तदाहुः । कैतासामसंख्यातानां संख्येति द्वे इति ब्रूयाद्द्वे हि सिकते शुक्ला च कृष्णा चाथो सप्तविंशतिशतानीति ब्रूयादेतावन्ति हि संवत्सरस्याहोरात्राण्यथो द्वे द्वापञ्चाशे शते इत्येतावन्ति ह्येतस्य षडृचस्याक्षराण्यथो पञ्चविंशतिरिति पञ्चविंशं हि रेतः - ७.३.१.४३

ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति न पक्षपुच्छेष्वात्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुच्छेषु न सादयति नेद्रेतः प्रजातिं स्थापयानीति - ७.३.१.४४

अथैना आप्यानवतीभ्यामभिमृशति । इदमेवैतद्रेतः सिक्तमाप्याययति तस्माद्योनौ रेतः सिक्तमाप्यायते सौमीभ्यां प्राणो वै सोमः प्राणं तद्रेतसि दधाति तस्माद्रेतः सिक्तं प्राणमभिसम्भवति पूयेद्ध यदृते प्राणात्सम्भवेदेषो हैवात्र सूददोहाः प्राणो वै सोमः सूददोहाः - ७.३.१.४५

आप्यायस्व समेतु ते । विश्वतः सोम वृष्ण्यमिति रेतो वै वृष्ण्यमाप्यायस्व समेतु ते सर्वतः सोम रेत इत्येतद्भवा वाजस्य संगथ इत्यन्नं वै वाजो भवान्नस्य संगथ इत्येतत्सं ते पयांसि समु यन्ति वाजा इति रसो वै पयोऽन्नं वाजाः सं ते रसाः समु यन्त्वन्नानीत्येतत्सं वृष्ण्यभिमातिषाह इति सं रेतांसि पाप्मसह इत्येतदाप्यायमानो अमृताय सोमेति। प्रजात्यां तदमृतं दधाति । तस्मात्प्रजातिरमृता।दिवि श्रवांस्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तमं स ह्येनममुष्मिंलोके श्रावयति द्वाभ्यामाप्याययति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः - ७.३.१.४६

अथातः सम्पदेव । चतस्रो लोगेष्टका उपदधाति षडृचेन निवपति द्वाभ्यामाप्याययति तद्द्वादश द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ७.३.१.४७

  1. वासं १२.१०७