शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ३

विकिस्रोतः तः

प्रथमं ब्राह्मणम् सोमक्रयणादिकम्

१ सोमक्रयणादिकम्-तत्र साग्निचित्ये क्रतौ सोमक्रयणस्य कालं विधाय तत्प्रशंसनं, सोमक्रयस्य मध्ये ऽनुष्ठानस्याधिलोकतयाऽध्यात्मतया च प्रशंसनं, राजक्रयस्य मध्येऽनुष्ठानस्य कृत्स्नशरीरे रसानुषङ्गहेतुत्वेनापि प्रशंसनम् , आतिथ्यहविष्कृदन्ते आहवनीयचितिसंस्कारं विधातुं तत्पूर्वतनस्य चोदकप्राप्तस्य सोमतिथ्यादिप्रयोगजातस्यानुक्रमणम्, सौमिकाग्निककर्मणोः परस्परं व्यतिषङ्गस्य सप्रयोजनं सार्थवादं विधानम् , वाग्विसर्जनानन्तरमाहवनीयसमीपदेशगमनविधानम् , गार्हपत्यस्थानवदाहवनीयस्थानस्यापि पलाशशाखया व्युदूहनमेकीयमतेनोपन्यस्य सोपपत्तिकं तस्य दूषणं, गार्हपत्यचितिवत्प्राप्तमूषनिवपनं सकारणं निषिध्याहवनीये प्रतिनियतं विधास्यमानं पुष्करपर्णोपधानमनूद्य तस्य प्रतिनियतफलप्रतिपादनेन प्रशंसनं, गार्हपत्यवदाहवनीयेऽपि सिकतानिवपनं कर्तव्यमिति विधानम् , उभयत्र मन्त्रभेदं विधाय तत्प्रशंसनम् , गार्हपत्यचयने सिकतानिवपनस्य पूर्वभावित्वमनूद्य प्रशंस्य च तत्र पूवभावित्वे दोषप्रदर्शनम् , आहवनीयचितौ तु सिकतानिवपनात्पूर्वं परिश्रिद्भि परिश्रयणमभिप्रेत्य स्तावकार्थवादातिदेशयुतं तदभिमन्त्रणविधानम्, सिकतानिवपनं सार्थवादं विधाय न्युप्तानां सिकतानां सोपपत्तिकं सफलं समन्त्रकमभिमर्शनविधानम्, सार्थवादं लोगेष्टकानामुपधानविधानम्, वेदेर्बाह्यदेशेनेष्टकानामाहरणम् विधाय तत्प्रशंसनम्, आहरणस्याग्निक्षेत्रापेक्षया बहिर्देशवत्त्वं वेद्यपेक्षयाऽपि तथात्वमिति विधानम् , विहितं लोगेष्टकानामुपधानमनूद्य तत्प्रशंसनम्, आहरणस्याग्निबाह्यत्वमनूद्य तत्प्रशंसन, बहिर्वेदरित्येतदप्यनूद्य तस्य पृथिवीसकाशाद्बहिर्भूतरसस्थापनहेतुत्वेन प्रशंसनं, लोगेष्टकानामाहरणे साधनं विधाय तत्प्रशंसनं, पूर्वस्माद्दिग्भागादाहरणस्य मन्त्रतदर्थविवरणोपेतं विधानम् , आहृताया इष्टकायाः स्थानविशेषे उपधानविधानम् , एवमेव दक्षिणतः पश्चादुत्तरतश्च क्रमादाहरणं मंत्रतद्गतविषमपदव्याख्यानयुतं विधायाहृतानामिष्टकानां तत्तत्स्थानविशेषे उपधानविधानम् , उत्तरस्यां दिशि मंत्रतदभिप्रायसहितं सिकतानां प्रध्वंसनं विधायोपहितानामिष्टकानां सम्भूय प्रशंसनं, धर्मविशेषं विधाय तत्प्रशंसनं, सकारणं स्थितिगुणविविष्टं उपधानादीनां पृथगनुष्ठानविधानं, सफलमासां सम-न्त्रकत्वमनूद्याग्निक्षेत्रस्यात्मभागे एवोपधानं कर्तव्यमिति प्रतिपादनम् , इतरेष्टकावदासां श्रपणाभावादशृतत्वमाशङ्कय तन्निरसनं, चोदकप्राप्तमुत्तरवेदिनिवपनमस्मिन्नवसरे कर्तव्यमिति सोपपत्तिकमभिधायोत्तरवेदेः परिमाणं च विधाय स्तावकार्थवादातिदेशयुतं सिकतानिवपनविधानं, निवपनस्थ
स्थानविशेषं विधाय तत्प्रशंसनम् , अस्यात्मभागस्य सिकताभिः प्रच्छादनविधानं, अस्मिन्निवपने " अग्ने तव" इति षडृचं सूक्तं करणत्वेन विधाय तस्य क्वचिद्विषमपदव्याख्यानं क्वचित्पादशोऽनूद्य प्रतिमंत्रं व्याख्यानं च, विनियुक्तस्यास्य षडृचस्य सूक्तस्य वैश्वानराग्निरूपत्वद्वारा संख्याद्वारा च प्रशंसनं, सिकतानां रेतस्त्वप्रतिपादनाय तत्साम्यत्वस्य प्रश्नपूर्वकमभिधानं, सिक तानां शुक्लकृष्णरूपद्वयस्य प्रश्नपूर्वकं प्रशंसनं, संख्यासम्पत्तेरप्याशङ्कापूर्वकं प्रतिपादनम्, उपधानकरणस्य षडृचस्य यच्छन्दस्तस्य "समुद्रियम् "-इति नाम कस्मान्निमित्तादिति पृच्छाकरणम् , अनन्तानां सिकतानामुपधानं पृथक्पृथक्कथं समंत्रकं स्यादिति प्रश्नपूर्वकं तदुपपादनम्, एतस्मिन्षडृचे सप्तानां छन्दसामन्तर्भावप्रदर्शनाय प्रशंसनम्, उत्सन्नयज्ञभागस्य पुनराहरणार्थत्वेन सिकतानिवपनं प्रशंस्य तासामपरिमितत्वमनूद्य तत्प्रशंसनं विद्वदनुष्ठानप्रशंसनं च, अपरिमितानामप्येतासां संख्याविशेषप्रदर्शनद्वारा प्रश्नपूर्वकं प्रशंसनं, लोगेष्टकावत्सिकतानामप्यात्मभागे एवोपधानविधानं सिकतानामिष्टकात्वाविशेषात्प्रसक्तस्य सादनस्य सकारणं निषेधनं, सार्थवादं समन्त्रकमेतासामभिमर्शनविधानं, तत्र मन्त्राणां क्वचिद्विषमपदव्याख्यानं क्वचिदप्रसिद्धार्थपदव्याख्यानं च, मंत्रगतं द्वित्वं छन्दोविशेषं चानूद्य तत्स्तावकार्थवादातिदेशकथनं, लोगेष्टकादिसंख्यां सम्भूय तत्प्रशंसनं चेति.



द्वितीयं ब्राह्मणम्

२ आहवनीयदेशसंस्कारसमनंतरं प्राकृतमातिथ्यप्रवर्ग्योपसत्प्रचरणमनुक्राम्य प्रागुक्तयोराग्निकसौमिककर्मणोर्व्यतिषङ्गस्य प्रदर्शनं, तत्र पूर्वमानुडुहे चर्मणि प्रथमचित्यर्थानामिष्टकानां समूहस्योपशमनं सार्थवादं विधाय तदर्थं लोहितगुणकस्यानुडुहश्चर्मणः सार्थवादं प्राचीनग्रीवं देशविशेषे स्तरणविधानं, आस्तृते चर्मणि चितेरौष्ण्योपशमं विधायानन्तरं चितेः सार्थवादमाज्येन तूष्णीं प्रोक्षणविधानं, प्रोक्षणमनूद्य हविष्ट्वसम्पादनद्वारा सप्रयोजनं तत्प्रशंस्य तदीयाज्यकरणत्वमन्त्रकत्वं चानूद्य तयोः प्रशंसनम् , आज्यप्रोक्षणे करणविशेषं विधाय तत्प्रशंसनं, प्रथमचितिप्रोक्षणसमये द्वितीयतृतीयादिचित्यर्थानामिष्टकानां प्रोक्षणस्य विधित्सया ब्रह्मवादिनां प्रश्नोत्तराणां प्रतिपादनम् , आहवनीयदेशं प्रति नयनं विधातुमध्वर्योर्होत्रे सम्प्रैषदानविधानं, ततः प्रथमचित्यर्थानामिष्टकानां पूर्वस्यां दिशि हरणं विधाय रक्षोनिरसनहेतुत्वेनाख्यायिकया प्रशंस्य च तस्य प्रकृते योजनम् उक्तं सम्प्रैषं व्याख्याय होत्राऽनुवक्तव्यामृचमेकीयमतेनोपन्यस्य तस्या व्याख्यानम्, एकीयमतं प्रतिषिध्य स्वमतस्य निगमनम्, आग्नेयीत्यादिधर्मानवयुत्यानूद्य तेषां प्रशंसनं, इष्टकाहरणसमये श्वेतस्याश्वस्य पुरतोनयनस्य सार्थवादं विधानं, अश्वप्रमुखर्त्विग्यजमानानामग्निक्षेत्रसमीपगमनविधानं, स्तावकार्थवादातिदेशयुतमश्वकर्तृकं सप्रकारकं चितिमभिलक्ष्य तत्तद्दिगाक्रमणाभिधानं, तस्याश्वस्य प्रत्यङ्मुखनयनसमये चितेरवघ्रापणं विधाय तस्य प्रजासु प्राणप्रतिष्ठापनहेतुत्वेन लोकत्रयसमावपने हेतुत्वेन च प्रशंसनं, अश्वावघ्राणमनूद्य अश्वात्मकप्रजापतिना रूपेण निलीयमानस्याग्नेश्चेतव्यस्य लाभो नान्ये नेत्याख्यायिकया प्रशंसनम् , अश्वस्य वर्णनियमं सार्थवादं विधायालाभे वर्णान्तरविशिष्टत्वस्याप्यभिधानम् अश्वासम्भवे ऽनड्वान्वेति पक्षान्तरनिरूपणं च, अग्निक्षेत्रस्याधिरोहणे प्रकारविशेषस्य विधित्सया प्रशंसनं, तत्रैकीयं मतमुपन्यस्य तद्दूषयित्वा पुच्छस्योत्तरभागे उत्तरपक्षस्य सन्धौ चाधिरोहणं कर्तव्यमिति निगमनम्, आरोहणानन्तरं प्राकृतवैकृतपदार्थानामनुष्ठाने क्रमविशेषस्य प्रतिपादनं, पुष्करपर्णस्योपधानविधानं, सायंकाले कर्तव्यकर्मणो विधानं, तत्राश्वस्त्र परितो नयनं सायमस्तमयात्प्रागेव कर्तव्यमिति सार्थवादं निरूपणं, परिणयनक्रियायास्त्रिरावृत्तिं विधाय तत्प्रशंसनं, तस्याश्वस्य पुन प्रयोगविधानं चेत्यादि.