सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ३/चतुर्थं ब्राह्मणम्

विकिस्रोतः तः


३.३.४ सोमानयनम्

नीडे कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसीति सोऽसावेव बन्धुरथैनमासादयत्यदित्यै सद आसीदेतीयं वै पृथिव्यदितिः सेयं प्रतिष्ठा तदस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति तस्मादाहादित्यै सद आसीदेति - ३.३.४.१

अथैवमभिपद्य वाचयति । अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमिति देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङाद्बिभयाचक्रुस्त एनमेतज्ज्यायांसमेव वधाच्चक्रुर्यदाहास्तभ्नाद्द्यां वृषभो अन्तरिक्षमिति - ३.३.४.२

अमिमीत वरिमाणं पृथिव्या इति । तदेनेनेमांल्लोकानास्पृणोति तस्य हि न हन्तास्ति न वधो येनेमे लोका आस्पृतास्तस्मादाहामिमीत वरिमाणं पृथिव्या इति - ३.३.४.३

आसीदद्विश्वा भुवनानि सम्राडिति । तदेनेनेदं सर्वमास्पृणोति तस्य हि न हन्तास्ति न वधो येनेदं सर्वमास्पृतं तस्मादाहासीदद्विश्वा भुवनानि सम्राडिति - ३.३.४.४

विश्वेत्तानि वरुणस्य व्रतानीति तदस्मा इदं सर्वमनुवर्त्म करोति यदिदं किं च न कं चन प्रत्युद्यामिनं तस्मादाह विश्वेत्तानि वरुणस्य व्रतानीति - ३.३.४.५

अथ सोमपर्याणहनेन पर्याणह्यति । नेदेनं नाष्ट्रा रक्षांसि प्रमृशानिति गर्भो वा एष भवति तिर इव वै गर्भास्तिर इवैतत्पर्याणद्धं तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्पर्याणद्धं तस्माद्वै पर्याणह्यति - ३.३.४.६

स पर्याणह्यति । वनेषु व्यन्तरिक्षं ततानेति वनेषु हीदमन्तरिक्षं विततं वृक्षाग्रेषु वाजमर्वत्सु पय उस्रियास्विति वीर्यं वै वाजाः पुमांसोऽर्वन्तः पुंस्वेवैतद्वीर्यं दधाति पय उस्रियास्विति पयो हीदमुस्रियासु हितं हृत्सु क्रतुं वरुणो विक्ष्वग्निमिति हृत्सु ह्ययं क्रतुर्मनोजवः प्रविष्टो विक्ष्वग्निमिति विक्षु ह्ययं प्रजास्वग्निर्दिवि सूर्यमदधात्सोममद्राविति दिवि ह्यसौ सूर्यो हितः सोममद्राविति गिरिषु हि सोमस्तस्मादाह दिवि सूर्यमदधात्सोममद्राविति - ३.३.४.७

अथ यदि द्वे कृष्णाजिने भवतः । तयोरन्यतरत्प्रत्यानह्यति प्रतीनाहभाजनं यद्यु एकं भवति कृष्णाजिनग्रीवा एवावकृत्य प्रत्यानह्यति प्रतीनाहभाजनं सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकं यत्रैतशेभिरीयसे भ्राजमानो विपश्चितेति सूर्यमेवैतत्पुरस्तात्करोति सूर्यः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण परिवहन्ति - ३.३.४.८

उद्धते प्रऽउग्ये फलके भवतः । तदन्तरेण तिष्ठन्त्सुब्रह्मण्यः प्राजति श्रेयान्वा एषोऽभ्यारोहाद्भवति को ह्येतमर्हत्यभ्यारोढुं तस्मादन्तरेण तिष्ठन्प्राजति - ३.३.४.९

पलाशशाखया प्राजति । यत्र वै गायत्री सोममच्छापतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णोऽभवत्तस्मात्पर्णो नाम तद्यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात्पलाशशाखया प्राजति - ३.३.४.१०

अथानड्वाहावाजन्ति । तौ यदि कृष्णौ स्यातामन्यतरो वा कृष्णस्तत्रविद्याद्वर्षिष्यत्यैषमः पर्जन्यो वृष्टिमान्भविष्यतीत्येतदु विज्ञानम् - ३.३.४.११

अथ युनक्ति । उस्रावेतं धूर्षाहावित्युस्रौ हि भवतो धूर्षाहाविति धूर्षाहौ हि भवतो युज्येथामनश्रू इति युज्येते ह्यनश्रू इत्यनार्ताविति तत् अवीरहणावित्यपापकृताविति तद्ब्रह्मचोदनाविति ब्रह्मचोदनौ हि भवतः स्वस्ति यजमानस्य गृहान्गच्छतमिति यथैनावन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह - ३.३.४.१२

अथ पश्चात्परिक्रम्य । अपालम्बमभिपद्याह सोमाय क्रीतायानुब्रूहीति सोमाय पर्युह्यमाणायेति वाऽतो यतरथा कामयेत - ३.३.४.१३

अथ वाचयति । भद्रो मेऽसि प्रच्यवस्व भुवस्पत इति भद्रो ह्यस्यैष भवति तस्मान्नान्यमाद्रियतेऽप्यस्य राजानः सभागा आगच्छन्ति पूर्वो राज्ञोऽभिवदति भद्रो हि भवति तस्मादाह भद्रो मेऽसीति प्रच्यवस्व भुवस्पत इति भुवनानां ह्येष पतिर्विश्वान्यभि धामानीत्यङ्गानि वै विश्वानि धामान्यङ्गान्येवैतदभ्याह मा त्वा परिपरिणो विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो विदन्निति यथैनमन्तरा नाष्ट्रा रक्षांसि न विन्देयुरेवमेतदाह - ३.३.४.१४

श्येनो भूत्वा परापतेति । वय एवैनमेतद्भूतं प्रपातयति यद्वा उग्रं तन्नाष्ट्रा रक्षांसि नान्ववयन्त्येतद्वै वयसामोजिष्ठं बलिष्ठं यच्छ्येनस्तमेवैतद्भूतं प्रपातयति यदाह श्येनो भूत्वा परापतेति - ३.३.४.१५

अथ शरीरमेवान्ववहन्ति । यजमानस्य गृहान्गच्छ तन्नौ संस्कृतमिति नात्र तिरोहितमिवास्ति - ३.३.४.१६

अथ सुब्रह्मण्यामाह्वयति । यथा येभ्यः पक्ष्यन्त्स्यात्तान्ब्रूयादित्यहे वः पक्तास्मीत्येवमेवैतद्देवेभ्यो यज्ञं निवेदयति सुब्रह्मण्यो३ं सुब्रह्म्ण्यो३ इति ब्रह्म हि देवान्प्रच्यावयति त्रिष्कृत्व आह त्रिवृद्धि यज्ञः - ३.३.४.१७

इन्द्रागच्छेति । इन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रागच्छेति हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जारेति तद्यान्येवास्य चरणानि तैरेवैनमेतत्प्रमुमोदयिषति - ३.३.४.१८

कौशिक ब्राह्मण गौतम ब्रुवाणेति । शश्वद्धैतदारुणिनाऽधुनोपज्ञातं यद्गौतम ब्रुवाणेति स यदि कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेतेत्यहे सुत्यामिति यावदहे सुत्या भवति - ३.३.४.१९

देवा ब्रह्माण आगच्छतेति । तद्देवांश्च ब्राह्मणांश्चाहैतैर्ह्यत्रोभयैरर्थो भवति यद्देवैश्च ब्राह्मणैश्च - ३.३.४.२०

अथ प्रतिप्रस्थाता । अग्रेण शालामग्नीषोमीयेण पशुना प्रत्युपतिष्ठतेऽग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्पशुनात्मानं निष्क्रीणीते - ३.३.४.२१

तद्धैके । आहवनीयादुल्मुकमाहरन्त्ययमग्निरयं सोमस्ताभ्यां सहसद्भ्यां निष्क्रेष्यामह इति वदन्तस्तदु तथा न कुर्याद्यत्र वा एतौ क्व च तत्सहैव - ३.३.४.२२

स वै द्विरूपो भवति । द्विदेवत्यो हि भवति देवतयोरसमदे कृष्णसारङ्गस्यादित्याहुरेतद्ध्येनयो रूपतममिवेति यदि कृष्णसारङ्गं न विन्देदथो अपि लोहितसारङ्ग स्यात् - ३.३.४.२३

तस्मिन्वाचयति । नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत दूरे दृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसतेति नम एवास्मा एतत्करोति मित्रधेयमेवैनेनैतत्कुरुते - ३.३.४.२४

अथाध्वर्युरारोहणं विमुञ्चति । वरुणस्योत्तम्भनमसीत्युपस्तम्भनेनोपस्तभ्नाति वरुणस्य स्कम्भसर्जनी स्थ इति शम्ये उद्वृहति स यदाह वरुणस्य स्कम्भसर्जनी स्थ इति वरुण्यो ह्येष एतर्हि भवति यत्सोमः क्रीतः - ३.३.४.२५

सोमानयनम्.
आसन्दी

अथ चत्वारो राजासन्दीमाददते । द्वौ वा अस्मै मानुषाय राज्ञ आददाते अथैतां चत्वारो योऽस्य सकृत्सर्वस्येष्टे - ३.३.४.२६

औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरी भवति - ३.३.४.२७

नाभिदघ्ना भवति । अत्र वा अन्नं प्रतितिष्ठत्यन्नं सोमस्तस्मान्नाभिदघ्ना भवत्यत्रो एव रेतस आशयो रेतः सोमस्तस्मादत्रदघ्ना भवति - ३.३.४.२८

तामभिमृशति । वरुणस्य ऋतसदन्यसीत्यथ कृष्णाजिनमास्तृणाति वरुणस्य ऋतसदनमसीत्यथैनमासादयति वरुणस्य ऋतसदनमासीदेति स यदाह वरुणस्य ऋतसदनमासीदेति वरुण्यो ह्येष एतर्हि भवति - ३.३.४.२९

अथैनं शालां प्रपादयति । स प्रपादयन्वाचयति या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यानिति गृहा वै दुर्या गृहान्नः शिवः शान्तोऽपापकृत्प्रचरेत्येवैतदाह - ३.३.४.३०

अत्र हैके । उदपात्रमुपनिनयन्ति यथा राज्ञ आगतायोदकमाहरेदेवमेतदिति वदन्तस्तदु तथा न कुर्यान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्मान्नोपनिनयेत् - ३.३.४.३१