शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ३

विकिस्रोतः तः

प्रथमं ब्राह्मणम्

१ -सोमक्रयण्यनुगमाद्युपसदन्तप्रयोगनिरूपणं तत्र समन्त्रं सोमक्रयण्या गोरनुक्रमण- विधानं, यज्रमानर्त्विजां सप्तमे पदे पर्युपवे- शनकथनं, होमाय हिरण्यनिधानस्य प्रशंसा, होमसाधनाज्यस्य प्रशंसा, पदे समंत्रकं होमविधानं, सार्थवादं समंत्रकं पदे परिलेखनविधानं, प्रशंसासहितं सप्रयोजनं परिलिखितप्रदेशेऽपांनिनयनविधानम्, अध्वर्य्वर्पितस्य पदपांसो समंत्रकं प्रतिग्रहविधानं, अध्वर्योरात्मोपस्पर्शनकथनं- नेष्ट्रकर्तृकपत्नीवाचनविधानं, संख्यापनमंत्रपठनं, सोमक्रयण्या गोर्लक्षणाभिधानम्, तत्र विनियोगसहकृतं मुख्यकल्पानुकल्पवर्णनं सार्थवादं सोमक्रयण्या गर्भात्प्रागवस्था- वत्त्वाङ्गवैकल्यराहित्ययोः कथनं चेत्यादि


द्वितीयं ब्राह्मणम्

२ -अध्वर्योः पात्रे पांसुप्रक्षेपानन्तरं सार्थवादं हस्तप्रक्षालनकथनं, सार्थवादमध्वर्योः स्वानामिकायां हिरण्यबन्धनविधानं, सोमार्थमध्वर्योः सोमोपहनन-सोमपर्याणहन-उष्णीषाणामाहरणसम्प्रैषकथनं तत्रोष्णीषस्थाने विकल्पकथनं, उपरवप्रदेशे सोमराजस्य विवेचनविधानं, क्रयदेशमा- यत्सु ऋत्विग्यजमानेषु अध्वर्युकर्तृकं यज. मानवाचनविधानं, क्रीयमाणस्य सोमस्य प्रशंसा, विवेचितस्य सोमस्याभिमर्शन- विधानं, विवेचने पक्षान्तरमुपन्यस्य तन्निराकरणम् आस्तृते वाससि समंत्रं सोमस्योन्मानविधानं तत्र विधीयमानो- न्मानमंत्रस्य देवताद्वारा प्रशंसनं मन्त्र- गतच्छन्दःप्रशंसनं च', दशकृत्व उन्माने एक एव मन्त्र इति प्रदर्शनम्, अंगुलीनां क्रमादुत्सर्गे संयोजने च कृतेऽर्थसिद्धस्य समञ्चनप्रसारणभावगतमानस्य बहुधा प्रशंसनं, मानगतसंख्यायाः प्रशंसनं, सार्थवादं समंत्रमुष्णीषेण ग्रन्थिं कुर्या- दितिविधानं, ग्रंथिमध्ये समंत्रकं सुषिरकरणविधानं, सोमपणनोपक्रमश्चेत्यादि

सोमक्रयणम्


तृतीयं ब्राह्मणम् (सोमक्रयणम्)

३ सप्रकारं सोमक्रयार्थं व्यवहारविधानं, तत्प्रसङ्गेन सोमविक्रेतृप्रयुक्तसोममहत्त्वापेक्षयाऽध्वर्योः समेक्रयसाधनभूताया गोरधिकमहत्त्ववर्णनं तत्र व्यवहारपूर्वकक्रय्यस्य कलाशफादिरूपपञ्चवरपणनस्य च प्रशंसनं, एकहायन्या गवा सह देयेषु हिरण्यादिदशद्रव्येषु मध्यहिरण्यदानावसरेऽध्वर्युकर्तृकं यजमानवाचनविधानं, समंत्रकं सोमविक्रयिणो- हिरण्येनाभिप्रकम्पनविधानं तन्मंत्राभिप्रायकथनं च, क्रयाय दत्तां प्रत्यङ्गमुखीमजामालभ्याध्वर्योर्यजमानवाचनविधानं वाचनमंत्रव्याख्यानं च, क्रमाद्वामदक्षिणबाह्वोरजाप्रदाने सोमादाने च विनियोगप्रदर्शनं, सार्थवादं सव्याख्यानं सोमस्यादाने निधाने च मंत्रविधानं, सार्थवादं समंत्रं सोमक्रयणानामनुदेशनं, दीक्षाकाले धृतस्य शिरः प्रावरणस्यापवारणविधानम्, अघ्वर्युकर्तृकं गृहीतसोमस्य यजमानस्य वाचनविधानं, राजान (सोम )मादाय समंत्रमुत्थानशकटारोहणयोर्विधानं तत्रारोहणमंत्रस्याख्यायिकया प्रशंसनं च, उदकुम्भसमीपे क्रयस्य तत्साधनभूतस्य दशसंख्याविशिष्टस्य द्रव्यजातस्य प्रशंसनं चेत्यादि

चतुर्थं ब्राह्मणम् (सोमानयनम्)

४ सोमानयनं तत्र शकटमध्ये सोमनिधानार्थं कृष्णाजिनस्तरणविधानं, सोम- स्यासादनकथनं, अध्वर्युकर्तृकं सोमालम्भनपूर्वकं यजमानवाचनविधानं, वाचनमंत्रस्य चतुर्धा विभागेन व्याख्यानं, सार्थवादं समंत्रं सोमपर्याणहनेन वाससा पर्याहननविधानं, कृष्णाजिनस्य द्वित्वपक्ष एकत्वपक्षे च मंत्रमंत्रार्थवादसहितः प्रतिनाहविधिः, प्रउगादुन्नतयोः फलकयोरन्तरा स्थितसु ब्रह्मण्यकर्तृकं सार्थवादं साभिप्रायं पलाश- शाखयाऽनुत्प्राजनविधानं, मंत्रतद्व्याख्यानसहितमुस्रयोजनविधानम्, अनुडुहोर्वर्ण- विशेषस्य कथनम्, ऐच्छिकविकल्पाश्रयेण सोमाय क्रीताय सोमाय पर्युह्यमाणाय वानुवाचनविधानम्, अध्वर्युकर्तृकं यजमानवाचनविधानं तन्मंत्रव्याख्यानं च, सार्थवादं सप्रकारकं सुब्रह्मण्याह्वानविधानं, सार्थवादं सप्रकारकं शालां पूर्वेण प्रतिप्रस्थातुरग्नीषोमीयं पशुमादाय प्रत्युपस्थानविधानम, अग्नीषोमीयिपशोर्द्वैरूप्ये कारणनिदेशपूर्वकं प्रतिनिधिद्वयस्य निर्देशनं, अजे आगते सति तमालभ्य वाचनं विधानं, तन्मंत्रार्थविवरणं च, अध्वर्योः शकटारोहणविमुञ्चनपूर्वकं समंत्रं शकटस्योत्तंभनेनोपस्तम्भनविधानं, शम्ययोः मंत्रतद्व्याख्यानयुतमुद्धरणविधानम्, अध्वर्युमुखानां तद्वर्ग्याणां चतुर्णामृत्विजां सार्थवादं राजासन्द्या आदानविधानं राजासन्द्या औदुम्बरीत्वं विधिपूर्वकं प्रशंस्य प्रमाणकथनं समंत्रकं तदभिमर्शन- विधानं च, यजमानपञ्चमानां प्रागुक्तचतुर्णामृत्विजां शालाप्रपादनं तदवसरे चाध्वर्युकर्तृकं यजमानवाचनविधानं, वाचन मंत्रस्यार्थविवरणं तात्पर्यनिरूपणं च, उद पात्रनिनयनं कर्तव्यमिति कस्यचित्पक्षं प्रतिपाद्य तन्निराकरणं चेत्यादि.