सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् २/अध्यायः ४/ब्राह्मण ४

विकिस्रोतः तः


२.४.४.

प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे । प्रजाकामो बहुः प्रजया पशुभिः स्यां श्रियं गच्छेयं यशः स्यामन्नादः स्यामिति - २.४.४.१

स वै दक्षो नाम । तद्यदेनेन सोऽग्रेऽयजत तस्माद्दाक्षायणयज्ञो[] नामोतैनमेके वसिष्ठयज्ञ इत्याचक्षत एष वै वसिष्ठ एतमेव तदन्वाचक्षते स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं प्रजापतेः प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.४.४.२

तेनो ह तत ईजे । प्रतीदर्शः श्वेक्नः स ये तं प्रत्यासुस्तेषां विवचनमिवास विवचनमिव ह वै भवति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.४.४.३

तमाजगाम । सुप्ला सार्ञ्जयो ब्रह्मचर्यं तस्मादेतं च यज्ञमनूचेऽन्यमु च सोऽनूच्य पुनः सृञ्जयाञ्जगाम ते ह सृञ्जया विदांचक्रुर्यज्ञं वै नोऽनूच्यागन्निति ते होचुः सह वै नस्तद्देवैरागन्यो नो यज्ञमनूच्यागन्निति स वै सहदेवः सार्ञ्जयस्तदप्येतन्निवचनमिवास्त्यन्यद्वा अरे सुप्ला नाम दध इति स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं सृञ्जयानां प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.४.४.४

तेनो ह तत ईजे । देवभागः श्रौतर्षः स उभयेषां कुरूणां च सृञ्जयानां च पुरोहित आस परमता वै सा यो न्वेवैकस्य राष्ट्रस्य पुरोहितोऽसत्सान्वेव परमता किमु यो द्वयोः परमतामिव ह वै गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.४.४.५

तेनो ह तत ईजे । दक्षः पार्वतिस्त इमेऽप्येतर्हि दाक्षायणा राज्यमिवैव प्राप्ता राज्यमिह वै प्राप्नोति य एवं विद्वानेतेन यजते तस्माद्वा एतेन यजेत स वा एकैक
एवानूचीनाहं पुरोडाशो भवत्येतेनो हास्यासपत्नानुपबाधा श्रीर्भवति स वै द्वे पौर्णमास्यौ यजते द्वे अमावास्ये द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते - २.४.४.६

अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां ते द्वे देवते द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते - २.४.४.७

अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यं ते द्वे देवते द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते - २.४.४.८

अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां ते द्वे देवते द्वे वै मिथुनम्मिथुनमेवैतत्प्रजननं क्रियते - २.४.४.९

अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथैतावेव मित्रावरुणौ द्वे देवते द्वे वै मिथुनम्मिथुनमेवैतत्प्रजननं क्रियत एतदु हास्य तद्रूपं येन बहुर्भवति येन प्रजायते - २.४.४.१०

अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां यमेवामुमुपवसथेऽग्नीषोमीयं पशुमालभते स एवास्य सः - २.४.४.११

अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यम्प्रातःसवनमेवास्याग्नेयः पुरोडाशो आग्नेयं हि प्रातःसवनमथैन्द्रं सांनाय्यं माध्यन्दिनमेवास्य तत्सवनमैन्द्रं हि माध्यन्दिनं सवनम् - २.४.४.१२

अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां तृतीयसवनमेवास्य तद्वैश्वदेवं वै तृतीयसवनमिन्द्राग्नी वै विश्वे देवाः - २.४.४.१३

अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथ यामेवामूं मैत्रावरुणीं वशामनूबन्ध्यामालभते सैवास्य मैत्रावरुणी पयस्या स पौर्णमासेन चामावास्येन चेष्ट्वा यावत्सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति तदु खलु महायज्ञो भवति - २.४.४.१४

अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यामेतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत यास्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयतेऽथ यत्संनयत्यामावास्यं वै सांनाय्यं दूरे तद्यदमावास्येति क्षिप्र एवैतद्वृत्रं जघ्नुषे तमेतेन रसेनाप्रीणन् क्षिप्रे ह वै पाप्मानमपहते य एवं विद्वान्पौर्णमास्यां संनयत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमास्तमेतत्पूर्वेद्युरभिषुण्वन्ति प्रातर्भक्षयिष्यन्तस्तमेतद्भक्षयन्ति यदपक्षीयते - २.४.४.१५

अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यामभिषुणोत्येवैनमेतत्तस्मिन्नभिषुत एतं रसं दधात्येतेन रसेन तीव्रीकरोति स्वदयति ह वै देवेभ्यो हव्यं स्वदते हास्य देवेभ्यो हव्यं य एवं विद्वान्पौर्णमास्यां संनयति - २.४.४.१६

अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां दर्शपूर्णमासयोर्वै देवते स्त इन्द्राग्नी एव ते एवैतदञ्जसा प्रत्यक्षं यजत्यञ्जसा ह वा अस्य दर्शपूर्णमासाभ्यामिष्टं भवति य एवमेतद्वेद - २.४.४.१७

अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणो योऽपक्षीयते स मित्रस्तावेतां रात्रिमुभौ समागच्छतस्तदुभावेवैतत्सह सन्तौ प्रीणाति सर्वं ह वा अस्य प्रीतं भवति सर्वमाप्तं य एवमेतद्वेद - २.४.४.१८

तद्वा एतां रात्रिम् । मित्रो वरुणे रेतः सिञ्चति तदेतेन रेतसा प्रजायते यदापूर्यते
तद्यदेषात्र मैत्रावरुणी पयस्यावकॢप्ततमा भवति - २.४.४.१९

सांनाय्यभाजना वा अमावास्या । तददस्तत्पौर्णमास्यां क्रियते स यद्धात्रापि संनयेज्जामि कुर्यात्समदं कुर्यात्तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्योऽधि जनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे - २.४.४.२०

मिथुनादिद्वा एनमेतत्प्रजनयति । योषा पयस्या रेतो वाजिनं तद्वा अनुष्ठ्यायन्मिथुनाज्जायते तदेनमेतस्मान्मिथुनात्प्रजननात्प्रजनयति तस्मादेषात्र पयस्या भवति - २.४.४.२१

अथ वाजिभ्यो वाजिनं जुहोति । ऋतवो वै वाजिनो रेतो वाजिनं तद्वनुष्ठ्येवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्माद्वाजिभ्यो वाजिनं जुहोति - २.४.४.२२

स वै पश्चादिव यज्ञस्य जुहोति । पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्यां रेतः सिञ्चति स वै प्रागेवाग्रे जुहोत्यग्ने वीहीत्यनुवषट्करोति तत्स्विष्टकृद्भाजनं स वै प्रागेव जुहोति - २.४.४.२३

अथ दिशो व्याघारयति । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति पञ्चदिशः पञ्चऽर्तवस्तदृतुभिरेवैतद्दिशो मिथुनीकरोति - २.४.४.२४

तद्वै पञ्चैव भक्षयन्ति । होता चाध्वर्युश्च ब्रह्मा चाग्नीच्च यजमानः पञ्च वा ऋतवस्तदृतूनामेवैतद्रूपं क्रियते तदृतुष्वेवैतद्रेतः सिक्तं प्रतिष्ठापयति प्रथमो यजमानो भक्षयति प्रथमो रेतः परिगृह्णानीत्यथो अप्युत्तमो मय्युत्तमे रेतः प्रतितिष्ठादित्युपहूत उपह्वयस्वेति सोममेवैतत्कुर्वन्ति - २.४.४.२५

  1. तु. तैसं. २.५.५