सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् २/अध्यायः ४

विकिस्रोतः तः

ब्राह्मण १ क्षुल्लकोपस्थानम्

१ समंत्रकमाहवनीयस्य लघूपस्थानविधानम्, बृहदुपस्थानेन सहास्य समानकार्यकारित्वाद्विकल्पकथनम्, प्रवत्स्यतो यजमानस्य समंत्रकं गार्हपत्याहवनीययोरुपस्थानम्, प्रवासादागतोपस्थानस्य प्रवत्स्यदुपस्था- नवैपरीत्यप्रदर्शनं, तत्र गार्हपत्याहवनीयोपस्थानयोरन्तराऽऽहवनीयसमिदाधानविधानम्, प्रवत्स्यदागतोपस्था- नयोः सोपपत्तिकममंत्रकपक्षकथनम्, प्रवासादागतस्य यजमानस्य गृहविषयकं कर्तव्यविधानं चेत्यादि. । इत्यग्निहोत्रविधिः ।


ब्राह्मण २ पिण्डपितृयज्ञः

२ तत्र प्रतिमासममायां पिण्डपितृयज्ञस्य कर्तव्यताविधायिनी आख्यायिका, पिण्डपितृयज्ञविधिः, तदर्थं सोपपत्तिकमपराह्णकालविधानम्, हविर्ग्रहणा- द्यग्नौकरणहोमान्ता प्रधानात्पूर्वतनेतिकर्तव्यता, प्राच्योदीच्यधर्मसहितं प्रधानभूतं पितृपितामहप्रपितामहेभ्यः पिण्डदानविधानम्, नीविविस्रंसनपूर्वकं नमस्करणविधानं तन्मंत्रशेषव्याख्यानं च, पिण्डशेषावघ्राणादिप्रतिपत्तिकर्मविधानं चेत्यादि, इति पिण्डपितृयज्ञः ।


ब्राह्मण ३ आग्रयणेष्टिः

३ तत्र पूर्वआग्रयणेष्टेः कहोलमतेन प्रयोजनं प्रदर्श्य याज्ञवल्क्यमतेन प्रयोजनं दर्शयितुमितिहासः, तस्मि- न्नितिहासे च ऐन्द्राग्नो द्वादशकपालः पुरोडाशः-वैश्वदेवश्चरुः-द्यावापृथिवीय एककपालः, आज्यस्य वा ' इत्याग्रयणेष्टेर्हविर्द्रव्यदेवताविधानम्, आग्रयणेष्टेरन्नाश्रितदोषनिर्हरणहेतुत्व- प्रतिपादकपुरावृत्तोदाहरणं, तद्दृष्टान्तेनेदानीन्तनानुष्ठानेऽपि नवान्ना- श्रितदोषनिर्हरणहेतुत्वप्रतिपादनं च, आग्रयणेष्टेर्दक्षिणाविधानम्, ईजा- नानीजानयोराग्रयणविषयकव्यवस्थाप्रदर्शनम्, तत्रानीजानस्य पक्षे सदक्षिणाकस्य ब्राह्मणभोजनस्य यागात्मकत्वोपपादनम्, आग्रयणेष्टिमकृत्वा नवधान्येनाग्निहोत्रहोमपक्षस्य प्रत्याख्यानं चेत्यादि,
इत्याग्रयणेष्टिः ।


ब्राह्मण ४ वसिष्ठापरनामको दाक्षायणयज्ञः

४ प्रजापश्वन्नयशःप्रभृतिकामस्य दाक्षायणयज्ञविधायिन्याख्यायिका, तस्यां च दाक्षायणनामनिर्वचनं, वसिष्ठसंज्ञकत्वकथनं च, अयं च दाक्षायणयज्ञो विवचननिवचनराष्ट्रद्वयपौरोहित्यराज्यादिफलकामनया प्रतीदर्श- सुल्यदेवभागपार्वतिदक्षादिभिरनुष्ठित इत्येवंरूपाणां चतसृणां परकृतीनां कथनम् पौर्णमास्यां द्वौ पुरोडाशावाग्नेयाग्नीषोमीयौ अमावास्यायामपि द्वावाग्नेयैन्द्राग्नौ च तयोः पूर्वोत्तरेद्युर्यथाक्रममेकैकशोऽनुष्ठानकथनम, तत्र पूर्वस्यां पौर्णमास्यामनुष्ठेयस्य यागस्य विधानपूर्वकं प्रशंसनम् परस्मिन्नहनि यागद्वयं विधाय तत्व- शंसनम्, अमावास्यायामपि पूर्वेद्युः कर्तव्यविधानम् परेद्युरनुष्ठेयं यागद्वयं विधाय तत्प्रशंसनम्, दाक्षायणस्य सोमयागरूपत्वप्रतिपादनाय तत्रानुष्ठेयेषु यागेषु सोमयागीयसवनत्रयादिसम्पत्तेरुपपादनम्, दाक्षायणयज्ञीययागानां प्रशंसार्थमर्थवादाः, पयस्यावाजिनयोर्मिथुनसम्पत्त्यर्थत्वोक्त्या प्रशंसनपूर्वकं वाजिनयागस्य विधानं तत्कालविधानं च, हुतशिष्टेन वाजिनेन दिग्व्याघारणविधा- नम्, वाजिनशेषस्य भक्षणप्रकारकथनं चेत्यादि,
इति दाक्षायणयज्ञः ।