शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

१.८.३ सूक्तवाक-शंयुवाक-कर्मारम्भः

स वै स्रुचौ व्यूहति । अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीति जुहूं प्राचीं दक्षिणेन पाणिनाग्नीषोमौ तमपनुदतां योऽस्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीत्युपभृतं प्रतीचीं सव्येन पाणिना यदि स्वयं यजमानः - १.८.३.१

यद्यु अध्वर्युः । अग्नीषोमयोरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनं प्रसवेन प्रोहाम्यग्नीषोमौ तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनं प्रसवेनापोहामीति पौर्णमास्यामग्नीषोमीयं हि पौर्णमासं हविर्भवति - १.८.३.२

अथामावास्यायाम् । इन्द्राग्न्योरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीन्द्राग्नी तमपनुदतां योऽस्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीति यदि स्वयं यजमानः - १.८.३.३

यद्यु अध्वर्युः । इन्द्राग्न्योरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनं प्रसवेन प्रोहामीन्द्राग्नी तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनं प्रसवेनापोहामीत्यमावास्यायामैन्द्राग्नं ह्यामावास्यं हविर्भवत्येवं यथादेवतं व्यूहति तद्यदेवं व्यूहति - १.८.३.४

यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमनु प्राञ्चमेवैतद्यजमानमुदूहत्यपाञ्चं तमपोहति योऽस्मा अरातीयत्यत्तैव जुहूमन्वाद्य उपभृतमनु प्राञ्चमेवैतदत्तारमुदूहत्यपाञ्चमाद्यमपोहति - १.८.३.५

तद्वा एतत् । समान एव कर्मन्व्याक्रियते तस्मादु समानादेव पुरुषादत्ता चाद्यश्च जायते इदं हि चतुर्थे पुरुषे तृतीये संगच्छामह इति विदेवं दीव्यमाना जात्या आसत एतस्मादु तत् - १.८.३.६

अथ जुह्वा परिधीन्त्समनक्ति । यया देवेभ्योऽहौषीद्यया यज्ञं समतिष्ठपत्तयैवैतत्परिधीन्प्रीणाति तस्माज्जुह्वा परिधीन्त्समनक्ति - १.८.३.७

स समनक्ति [१]वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वेत्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एतेभ्यस्त्वेत्येवैतदाह - १.८.३.८

अथ परिधिमभिपद्याश्रावयति । परिधिभ्यो ह्येतदाश्रावयति यज्ञो वा आश्रावणं यज्ञेनैवैतत्प्रत्यक्षं परिधीन्प्रीणाति तस्मात्परिधिमभिपद्याश्रावयति - १.८.३.९

स आश्राव्याह । इषिता दैव्या होतार इति दैव्या वा एते होतारो यत्परिधयोऽग्नयो हीष्टा दैव्या होतार इत्येवैतदाह यदाहेषिता दैव्या होतार इति भद्रवाच्यायेति स्वयं वा एतस्मै देवा युक्ता भवन्ति यत्साधु वदेयुर्यत्साधु कुर्युस्तस्मादाह भद्रवाच्यायेति प्रेषितो मानुषः सूक्तवाकायेति तदिमं मानुषं होतारं सूक्तवाकाय प्रसौति - १.८.३.१०

अथ प्रस्तरमादत्ते । यजमानो वै प्रस्तरस्तद्यत्रास्य यज्ञोऽगंस्तदेवैतद्यजमानं स्वगाकरोति देवलोकं वा अस्य यज्ञोऽगन्देवलोकमेवैतद्यजमानमपिनयति - १.८.३.११

स यदि वृष्टिकामः स्यात् । एतेनैवाददीत संजानाथां द्यावापृथिवी इति यदा वै द्यावापृथिवी संजानाथे अथ वर्षति तस्मादाह संजानाथां द्यावापृथिवी इति मित्रावरुणौ त्वा वृष्ट्यावतामिति तद्यो वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाहायं वै वर्षस्येष्टे योऽयं पवते सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टः प्राञ्च प्रत्यञ्च ताविमौ प्राणोदानौ प्राणोदानौ वै मित्रावरुणौ तद्य एव वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाह तमेतेनैवाददीत यदा ह्येव कदा च वृष्टिः समिव तमनक्त्याहुतिमेवैतत्करोत्याहुतिर्भूत्वा देवलोकं गच्छादिति - १.८.३.१२

स वा अग्रं जुह्वामनक्ति । मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा - १.८.३.१३

सोऽनक्ति । व्यन्तु वयोऽक्तं रिहाणा इति वय एवैनमेतद्भूतमस्मान्मनुष्यलोकाद्देवलोकमभ्युत्पातयति तन्नीचैरिव हरति द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरोऽस्या एवैनमेतत्प्रतिष्ठायै नोद्धन्तीहो एव वृष्टिं नियच्छति - १.८.३.१४

स हरति । मरुतां पृषतीर्गच्छेति देवलोकं गच्छेत्येवैतदाह यदाह मरुताम्पृषतीर्गच्छेति वशा पृश्निर्भूत्वा दिवं गच्छ ततो नो वृष्टिमावहेतीयं वै वशा पृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशा पृश्निरियम्भूत्वा दिवं गच्छेत्येवैतदाह ततो नो वृष्टिमावहेति वृष्टाद्वा ऊर्ग्रसः सुभूतं जायते तस्मादाह ततो नो वृष्टिमावहेति - १.८.३.१५

अथैकं तृणमपगृह्णाति । यजमानो वै प्रस्तरः स यत्कृत्स्नम्प्रस्तरमनुप्रहरेत्क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदपगृह्णाति - १.८.३.१६

तन्मुहूर्तं धारयित्वानुप्रहरति । तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयत्यथ यन्नानुप्रहरेदन्तरियाद्ध यजमानं लोकात्तथो ह यजमानं लोकान्नान्तरेति - १.८.३.१७

तं प्राञ्चमनुसमस्यति । प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां दिक्तमङ्गुलिभिरेव योयुप्येरन्न काष्ठैर्दारुभिर्वा इतरं शवं व्यृषन्ति नेत्तथा करवाम यथेतरं शवमिति तस्मादङ्गुलिभिरेव योयुप्येरन्न काष्ठैर्यदा होता सूक्तवाकमाह - १.८.३.१८

अथाग्नीदाहानुप्रहरेति । तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयेत्येवैतदाह तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशति तेनो अप्यात्मानं नानुप्रवृणक्ति - १.८.३.१९

अथाह संवदस्वेति । संवादयैनं देवैरित्येवैतदाहागानग्नीदित्यगन्खल्वित्येवैतदाहागन्नितीतरः प्रत्याह श्रावयेति तं वै देवैः श्रावय तमनुबोधयेत्येवैतदाह श्रौषडिति विदुर्वा एनमनु वा एनमभुत्सतेत्येवैतदाहैवमध्वर्युश्चाग्नीच्च देवलोकं यजमानमपिनयतः - १.८.३.२०

अथाह स्वगा दैव्या होतृभ्य इति दैव्या वा एते होतारो यत्परिधयोऽग्नयो हि तानेवैतत्स्वगाकरोति तस्मादाह स्वगा दैव्या होतृभ्य इति स्वस्तिर्मानुषेभ्य इति तदस्मै मानुषाय होत्रे ह्वलामाशास्ते - १.८.३.२१

अथ परिधीननुप्रहरति स मध्यममेवाग्रे परिधिमनुप्रहरति यम्परिधिं पर्यधत्था अग्ने देव पणिभिर्गुह्यमानः तं त एतमनु जोषं भराम्येष नेत्त्वदपचेतयाता इत्यग्नेः प्रियं पाथोऽपीतमितीतरावनु समस्यति - १.८.३.२२

अथ जुहूं चोपभृतं च सम्प्रगृह्णाति । अदो हैवाहुतिं करोति यदनक्त्याहुतिर्भूत्वा देवलोकं गच्छादिति तस्माज्जुहूं चोपभृतं च सम्प्रगृह्णाति - १.८.३.२३

स वै विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति । यद्वा अनादिष्टं देवतायै हविर्गृह्यते सर्वा वै तस्मिन्देवता अपित्विन्यो मन्यन्ते न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिशति यदाज्यं तस्माद्विश्वेभ्यो देवेभ्यः सम्प्रगृह्णात्येतदु वैश्वदेवं हविर्यज्ञे - १.८.३.२४

स सम्प्रगृह्णाति । संस्रवभागा स्थेषा बृहन्त इति संस्रवो ह्येव खलु परिशिष्टो भवति प्रस्तरेष्ठाः परिधेयाश्च देवा इति प्रस्तरश्च हि परिधयश्चानुप्रहृता भवन्तीमां वाचमभि विश्वे गृणन्त इत्येतदु वैश्वदेवं करोत्यासद्यास्मिन्बर्हिषि मादयध्वं स्वाहा वाडिति तद्यथा वष्ट्कृतं हुतमेवमस्यैतद्भवति - १.८.३.२५

स यस्यानसो हविर्गृह्णन्ति । अनसस्तस्य धुरि विमुञ्चन्ति यतो युनजाम ततो विमुञ्चामेति यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति यस्यो पात्र्यै स्फ्ये तस्य यतो
युनजाम ततो विमुञ्चामेति यतो ह्येवं युञ्जन्ति ततो विमुञ्चन्ति - १.८.३.२६

युजौ ह वा एते यज्ञस्य यत्स्रुचौ । ते एतद्युङ्क्ते यत्प्रचरति स यं निधायावद्येद्यथा वाहनमवार्च्छेदेवं तत्ते एतत्स्विष्टकृति विमोचनमागच्छतस्ते तत्सादयति तद्विमुञ्चति ते एतत्पुनः प्रयुङ्क्तेऽनुयाजेषु सोऽनुयाजैश्चरित्वैतद्विमोचनमागच्छति ते तत्सादयति तद्विमुञ्चति ते एतत्पुनः प्रयुङ्क्ते यत्सम्प्रगृह्णाति तद्यां गतिमभियुङ्क्ते तां गतिं गत्वा विमुञ्चते यज्ञं वा अनु प्रजास्तस्मादयं पुरुषो युङ्क्तेऽथ विमुञ्चतेऽथ युङ्क्ते तद्यां गतिमभियुङ्क्ते तां गतिं गत्वान्ततो विमुञ्चते स सादयति घृताची स्थो धुर्यौ पातं सुम्ने स्थः सुम्ने मा धत्तमिति साध्व्यौ स्थः साधौ मा धत्तमित्येवैतदाह - १.८.३.२७

  1. वासं २.१६