शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

ब्राह्मण १

१ इडाकर्म तत्र-इडोत्पत्तिसम्बन्धिन्याख्यायिका, तस्यां च प्रसंगान्मत्स्यावतारेतिहासः, इडाया मैत्रावरुणीत्वकथनम्, इडाया मनोर्दुहितृत्य- प्रतिपादने, मनुनाऽऽशीरूपायास्तत्या यज्ञे समवकल्पनं, मनोः सर्वाशीः- सम्प्राप्त्या इडायागफलनिष्पत्ति- निरूपणं, इडामिष्टवत इडानिदानं ज्ञातवतश्चैतदेव फलमिति कथनं, सहेतुकः इडायाः पञ्चावत्तताकरण- विधिः, सेतिकर्तव्यताकमुपांशु त्वोच्चैस्त्वधर्मकं द्विविधमिडोपह्वानम, इडोपह्वाननिगदव्याख्यानम्, इडायाः यजमानपञ्चमब्रह्माद्यृत्विक्कर्तकप्राशन- प्रकारः, आग्नेयस्यैकदैवत्यस्य पुरो- डाशस्य चतुर्धाकरणादिकं, द्विदैवत्य बहुदैवत्यानां पुरोडाशानां चतुर्धा- करणाद्यभावप्रतिपादनं, षडवत्तस्याग्नीधे प्रदानम् अग्नीधः सहेतुकं षडवत्तभागप्राशनम्, इडोपह्वानानंतरं होत्राऽऽशिष्या शस्यमानायां यजमा- नस्याशीःप्रतिग्रहजपेन होत्राऽऽशं- सितानामाशिषामात्मसात्करणकथनम्, इडां भक्षयितॄणां सर्वेषां सहेतुकं पवित्राभ्यां मार्जनविधानं, सहेतुका पवित्रप्रतिपत्तिः, इत्यादि.

ब्राह्मण २

२ अनुयाजकर्म-तत्र अनुयाजयागात्पूर्वतनेतिकर्तव्यता, होत्रनुमंत्रणाख्यं हौत्रं कर्म, अग्नीत्कर्तृकं सप्रयोजनमग्निसंमार्जनम्, अनुयाजयागानुष्ठानं, तत्रानुयाजनामनिर्वचनम्, अनुयाजप्रशंसार्थमर्थवादः, अनुयाजानां छन्दोरूपत्वसम्पादनम्, अनुयाजत्रये सफलं क्रमनिरूपणम्, अनुयाजेषु प्रैषदानप्रकारकथनम्, अनुयाजेषु होतुर्याज्यापठनप्रकारः, पशुत्वेन स्तुतानां छन्दसामनुयाजदेवत्वविधा नम्, अनुयाजेषु देवतानामप्रसि- द्ध्यभावमाशंक्य तत्परिहारः, तत्र 'वसुवने वसुधेयस्य इति पदद्वय- स्यान्तरार्थव्याख्यानं बाह्यार्थव्याख्यानं च, उत्तमानुयाजान्ते सप्रयोजनं समानयनं प्रदर्श्य धारानुयाजहवनविधानं चेति.


ब्राह्मण ३

३ सूक्तवाकशंयुवाककर्मणी-तत्र पूर्वं सुग्व्यूहनं, व्यूहने अत्त्राद्यभावकथनं, दृष्टान्तेन लोके भोक्तृभोग्यत्वव्यवस्थापनं, अस्यैव तृतीयामातुलकन्या- दिपरिणयनरूपसापिण्ड्यनिर्णयस्य भाष्ये प्रपञ्चः,साभिप्रायं परिध्यञ्जनं, साभिप्रायं प्रथमपरिधिमभिपद्याश्रावणम्, सूक्तवाकप्रैषस्वरूपविधा- ननम्, प्रस्तरादानं, जुहूपभृद्ध्रुवासु क्रमात्प्रस्तरस्य मूलमध्याग्राणां समञ्जनम्, प्रस्तराहुतेः सर्वदा वृष्टिसुखदातृत्वादिना प्रशंसनं, साभिप्रायो नीचैर्हरणादिसर्वेतिकर्तव्यतासहितः प्रस्तरप्रक्षेपः, साभिप्रायं तृणानुप्रहरणम्, आत्मोपस्पर्शः अग्नीदध्वर्य्वोः संवादः, शंयोर्वाकप्रैषः, संवदस्वे- त्यादिव्याहृतीनां बाह्यार्थव्याख्यान, सांकेतिकगूढतरार्थव्याख्यानं च, सधर्मकं परिवीनामनुप्रहरणं, साभिप्रायं संस्रवहोमार्थं जुहूपभृतोः सम्प्रग्रहणं, वैश्वदेवदैवत्यः संस्रवहोम इति निर्धारणं, संस्रवलक्षणपूर्वकं संस्रवहोममन्त्राभिप्रायाविष्करणम, सुग्विमुञ्चनं तत्र-अनःपक्षः पात्री पक्षश्चेति पक्षद्वयं विधाय तद्व्यवस्थापनम् आधियाज्ञिक आधिभौतिकश्चेति द्विविधोऽपि सुग्विमुञ्चनार्थवादः, सादनमन्त्रव्याख्यानं चेत्यादि