शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण २

विकिस्रोतः तः

१.८.२ अथानुयाजकर्म

ते वा एते उल्मुके उदूहन्ति । अनुयाजेभ्यो यातयामेव वा एतदग्निर्भवति देवेभ्यो हि यज्ञमूहिवान्भवत्ययातयाम्न्यनुयाजांस्तनवामहा इति तस्माद्वा एते उल्मुके उदूहन्ति - १.८.२.१

ते पुनरनुसंस्पर्शयन्ति । पुनरेवैतदग्निमाप्याययन्त्ययातयामानं कुर्वन्त्ययातयाम्नि यदत उर्ध्वमसंस्थितं यज्ञस्य तत्तनवामा इति तस्मात्पुनरनुसंस्पर्शयन्ति - १.८.२.२

अथ समिधमभ्यादधाति । समिन्द्ध एवैनमेतत्समिद्धे यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्समिधमभ्यादधाति - १.८.२.३

तां होतानुमन्त्रयते । एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीति तद्यथैवादः समिध्यमानायान्वाहैवमेवैतदन्वाह तदेतद्धोतुः कर्म स यदि मन्येत न होता वेदेत्यपि स्वयमेव यजमानोऽनुमन्त्रयेत - १.८.२.४

अथ सम्मार्ष्टि । युनक्त्येवैनमेतद्युक्तो यदत ऊर्ध्वमसंस्थितं यज्ञस्य तद्वहादिति तस्मात्सम्मार्ष्टि सकृत्सकृत्सम्मार्ष्टि त्रिस्त्रिर्वा अग्रे देवेभ्यः सम्मृजन्ति नेत्तथा करवाम यथा देवेभ्य इति तस्मात्सकृत्सकृत्सम्मार्ष्ट्यजामितायै जामि ह कुर्याद्यत्त्रिः पूर्वं त्रिरपरं तस्मात्सकृत्सकृत्सम्मार्ष्टि - १.८.२.५

स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं सम्मार्ज्मीति सरिष्यन्तमिति वा अग्र आह सरिष्यन्निव हि तर्हि भवत्यथात्र ससृवांसमिति ससृवेव ह्यत्र भवति तस्मादाह ससृवांसमिति - १.८.२.६

अथानुयाजान्यजति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ता इष्टा भवन्ति तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चेवानुयजति तस्मादनुयाजा नाम - १.८.२.७

अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाः पशवो वै देवानां छन्दांसि तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति तद्यत्र छन्दांसि देवान्त्समतर्पयन्नथ छन्दांसि देवाः समतर्पयंस्तदतस्तत्प्रागभूद्यच्छन्दांसि युक्तानि देवेभ्यो यज्ञमवाक्षुर्यदेनान्त्समतीतृपन् - १.८.२.८

अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाश्छन्दांस्येवैतत्संतर्पयति तस्मादनुयाजान्यजति तस्माद्येन वाहनेन धावयेत्तद्विमुच्य ब्रूयात्पाययतैनत्सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः - १.८.२.९

स वै खलु बर्हिः प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद्गायत्री प्रथमा छन्दसां युज्यते तदु तद्वीर्येणैव यच्छ्येनो भूत्वा दिवः सोममाहरत्तदयथायथं मन्यन्ते यत्कनिष्ठं छन्दः सद्गायत्री प्रथमाच्छन्दसां युज्यतेऽथात्र यथायथं देवाश्छन्दांस्यकल्पयन्ननुयाजेषु नेत्पापवस्यसमसदिति - १.८.२.१०

स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती तज्जगतीं प्रथमामकुर्वन् - १.८.२.११

अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै तदाहुस्तस्मादन्तरिक्षं नराशंसोऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं द्वितीयामकुर्वन् - १.८.२.१२

अथाग्निरुत्तमः । गायत्री वा अग्निस्तद्गायत्रीमुत्तमामकुर्वन्नेवं यथायथेन कॢप्तेन छन्दांसि प्रत्यतिष्ठंस्तस्मादिदमपापवस्यसम् - १.८.२.१३

देवान्यजेत्येवाध्वर्युराह । देवंदेवमिति सर्वेषु होता देवानां वै देवाः सन्ति छन्दांस्येव पशवो ह्येषां गृहा हि पशवः प्रतिष्ठो हि गृहाश्छन्दांसि वा अनुयाजास्तस्माद्देवान्यजेत्येवाध्वर्युराह देवं देवमिति सर्वेषु होता - १.८.२.१४

वसुवने वसुधेयस्येति । देवताया एव वषट्क्रियते देवतायै हूयते न वा अत्र देवतास्त्यनुयाजेषु देवं बर्हिरिति तत्र नाग्निर्नेन्द्रो न सोमो देवो नराशंस इति ऋत एकं चन यो वा अत्राग्निर्गायत्री स निदानेन - १.८.२.१५

अथ यद्वसुवने वसुधेयस्येति यजति । अग्निर्वै वसुवनिरिन्द्रो वसुधेयोऽस्ति वै छन्दसां देवतेन्द्राग्नी एवैवमु हैतद्देवताया एव वषट्क्रियते देवतायै हूयते - १.८.२.१६

अथोत्तममनुयाजमिष्ट्वा समानीय जुहोति । प्रयाजानुयाजा वा एते तद्यथैवादः प्रयाजेषु यजमानाय द्विषन्तं भ्रातृव्यं बलिं हारयत्यत्त्र आद्यं बलिं हारयत्येवमेवैतदनुयाजेषु बलिं हारयति - १.८.२.१७